________________
५६
तत्त्वार्थश्लोकवार्तिके बाधकाभावः पर इति चेत् , तर्हि खतोभ्याससामर्थ्य सिद्धाद्वाधकाभावात्प्रसिद्धप्रामाण्यादागमादकमालायाः सूर्यादिग्रहणाकारभेदेन व्याप्तिः परिगृह्यते न पुनः सूर्यादिग्रहणाकारभेद एव, इति मुग्धभाषितम् । ततो न विषमोऽयमुपन्यासो दृष्टांतदाष्टींतिकयोरागमात्संप्रत्ययप्रसिद्धेः । सामान्यतोदृष्टानुमानाच निर्वाणं प्रतीयते । तथाहि
शारीरमानसासातप्रवृत्तिर्विनिवर्तते ।
कचित्तत्कारणाभावाद् घटीयंत्रप्रवृत्तिवत् ॥ २५४ ॥ यथा घटीयंत्रस्य प्रवृत्तिभ्रमणलक्षणा खकारणस्यारगर्तभ्रमणस्य विनिवृत्तेनिवर्तते तथा क्वचिज्जीवे शारीरमानसासातप्रवृत्तिरपि चतुर्गत्यरगर्तभ्रमणस्य । तत्तत्कारणं कुत इति चेत् , तद्भाव एव भावाच्छारीरमानसासातभ्रमणस्य । न हि तच्चतुर्गत्यरगर्तभ्रमणाभावे संभवति । मनुष्यस्य मनुष्यगतिवाल्यादिविवर्तपरावर्तने सत्येव तस्योपलंभात् । तद्वत्तिर्यक्सुरनारकाणामपि । यथा खतिर्यग्गत्यादिषु नानापरिणामप्रवर्तने सति तत्तत्संवेदनं इति न तस्य तदकारणत्वं । तन्निवृत्तिः कुत इति चेत्, खकारणस्य कर्मोदयभ्रमणस्य निवृत्तेः । बलीवर्दभ्रमणस्य निवृत्तौ तत्कार्यारगर्तभ्रमणनिवृत्तिवत् । न च चतुर्गत्यरगर्तभ्रमणं कर्मोदयभ्रमणनिमित्तमित्यसिद्धं दृष्टकारणव्यभिचारे सति तस्य कदाचिद्भावात् । तस्य कारणत्वे दृष्टकारणत्वे वा तदयोगात् । तन्निवृत्तिः पुनस्तत्कारणमिथ्यादर्शनादीनां सम्यग्दर्शनादिप्रतिपक्षभावनासात्मीभावात् कस्यचिदुत्पद्यत इति समर्थयिष्यमाणत्वात् तत्सिद्धिः । प्रकृतहेतोः कुंभकारचक्रादिभ्रांत्यानैकांतः, खकारणस्य कुंभकारस्य व्यापारस्य निवृत्तावपि तदनिवृत्तिदर्शनात् । इति चेत् -
न कुंभकारचक्रादिभ्रांत्यानैकांतसंभवः ।
तत्कारणस्य वेगस्य भावे तस्याः समुद्भवात् ॥ २५५ ॥ न हि सर्वा चक्रादिभ्रांतिः कुंभकारकरव्यापारकारणिका, प्रथमाया एव तस्यास्तथाभावात् , उत्तरोत्तरभ्रांतेः पूर्वपूर्वभ्रांत्याहितवेगकृतत्वावलोकनात् । न चोत्तरा तक्रांतिः खकारणस्य वेगस्य भावे समुद्भवति, तद्भाव एव तस्याः समुद्भवदर्शनात् । ततो न तया हेतोर्व्यभिचारः । पावकापायेपि धूमेन गोपालघटिकादिषूपलभ्यमानेनानैकांत इत्यप्यनेनापास्तं । शारीरमानसासातप्रवृत्तेः परापरोत्पत्तेरुपायप्रतिषेध्यत्वात् , संचितायास्तु फलोपभोगतः प्रक्षयात् । न चापूर्वधूमादिप्रवृत्तिः खकारणपावकादेरभावेपि न निवर्तते यतो व्यभिचारः स्यात् ॥
अतोनुमानतोप्यस्ति मोक्षसामान्यसाधनम् ।
सार्वज्ञादिविशेषस्तु तत्र पूर्व प्रसाधितः ॥ २५६ ॥ न हि निरवद्यादनुमानात् साध्यसिद्धौ संदेहः संभवति । निरवद्यं च मोक्षसामान्येऽनुमानं निरवद्यहेतुसमुत्थत्वादित्यतोनुमानात्तस्य सिद्धिरस्त्येव न केवलमागमात् । सर्वज्ञत्वादिमोक्षविशेषसाधनं तु प्रागेवोक्तमिति नेहोच्यते । तत्सिद्धेः प्रकृतोपयोगित्वमुपदर्शयति;
एवं साधीयसी साधोः प्रागेवासन्ननिर्वृतेः ।
निवाणोपायजिज्ञासा तत्सूत्रस्य प्रवर्तिका ॥ २५७ ॥ सर्वस्याद्वादिनामेव प्रमाणतो मोक्षस्य सिद्धौ तत्राधिकृतस्य साधोरुपयोगस्वभावस्यासन्ननिर्वाणस्य प्रज्ञातिशयवतो हितमुपलिप्सोः श्रेयसा योक्ष्यमाणस्य साक्षादसाक्षाद्वा प्रबुद्धाशेषतत्त्वार्थप्रक्षीणकल्मष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org