________________
प्रथमोऽध्यायः ।
येपि सर्वात्मना मुक्तेरपह्नवकृतो जनाः ।
तेषां नात्राधिकारोस्ति श्रेयोमार्गावबोधने ॥ २५२ ॥
कोहि सर्वात्मना मुक्तेरपह्नवकारिणो जनान्मुक्तिमार्गे प्रतिपादयेत्तेषां तत्रानधिकारात् । को वा प्रमाणसिद्धं निःश्रेयसमपह्नुवीत, अन्यत्र प्रलापमात्राभिधायिनो नास्तिकात् । कुतस्तर्हि प्रमाणात्तन्निश्चीयत इति चेत् —
Jain Education International
५५
परोक्षमपि निर्वाणमागमात्संप्रतीयते ।
निर्बाधाद्भाविसूर्यादिग्रहणाकारभेदवत् ॥ २५३ ॥
परोक्षोपि हि मोक्षोऽस्मादृशामागमात्तज्ज्ञैः संप्रतीयते । यथा सांवत्सरैः सूर्यादिग्रहणाकार विशेषस्तस्य निर्बाधत्वात् । न हि देशकालनरांतरापेक्षयापि बाधातो निर्गतोयमागमो न भवति, प्रत्यक्षादेर्बाधकस्य विचार्यमाणस्यासंभवात् । नापि निर्बाधस्याप्रमाणत्वमास्थातुं युक्तं, प्रत्यक्षादेरप्यप्रमाणत्वानुषक्तेः । सूर्यादिग्रहणस्यानुमानात्प्रतीयमानत्वाद्विषमोयमुपन्यास इति चेत् न । तदाकारविशेषलिंगाभावादनुमानानवतारात् । न हि प्रतिनियतदिग्वेला प्रमाणफलतया सूर्या चंद्रमसोर्ग्रहणेन व्याप्तं किंचिदवगंतुं शक्यं । विशिष्टांकमाला लिंगमिति चेत् । सा न तावत्तत्खभावस्तद्वदप्रत्यक्षत्वप्रसंगात् । नापि तत्कार्यं ततः प्राक् पश्चाच्च भावात् । सूर्यादिग्रहणाकारभेदो भाविकारणं विशिष्टांकमालाया इति चेन्न । भाविनः कारणत्वायोगात् । भावितमवत् कार्यकाले सर्वथाप्यसत्त्वादतीतमवत् तदन्वयव्यतिरेकानुविधानात्तस्यास्तत्कारणत्वमिति चेन्न । तस्यासिद्धेः । न हि सूर्यादिग्रहणाकारभेदे भाविनि विशिष्टांकमालोत्पद्यते न पुनरभाविनीति नियमोस्ति, तत्काले ततः पश्चाच्च तदुत्पत्तिप्रतीतेः । कस्याश्चिदंकमालायाः स भाविकारणं कस्याश्चिदतीतकारणमपरस्याः खसमानकालवर्तिन्याः कारणकार्यमेकसामग्र्यधीनत्वादिति चेत्, किमिंद्रजालमभ्यस्तमनेन सूर्यादिग्रहणाकारभेदेन यतोऽयमतीतानागतवर्तमानाखिलांकमालाः स्वयं निर्वर्तयेत् । कथं वा क्रमाक्रमभाव्यनंतकार्याणि नित्यैकस्वभावो भावः खयं न कुर्यात्, ततो विशेषाभावात् । भवन् वा स तस्याः कारणं, उपादानं सहकारि वा ? न तावदुपादानं खटिकादिकृतायास्तदुपादानत्वात् । नापि सहकारिकारणमुपादानसमकालत्वाभावात् । यथोपादानभिन्नदेशं सहकारिकारणं तथोपादानभिन्नकालमपि दृष्टत्वादिति चेत् । किमेवं कस्य सहकारि न स्यात् । पितामहादेरपि हि जनकत्वमनिवार्य विरोधाभावात् । ततो नांकमाला सूर्यादिग्रहणाकारभेदे साध्यं लिंगं स्वभावकार्यत्वाभावात् । तदखभावकार्यत्वेपि तदविनाभावात्स तत्र लिंगमित्यपरे । तेषामपि कुतो व्याप्तेर्ग्रहः ? न तावत्प्रत्यक्षतो, भाविनोतीतस्य वा सूर्यादिग्रहणाकारभेदस्यास्मदाद्यप्रत्यक्षत्वात् । नाप्यनुमानादनवस्थानुषंगात् । यदि पुनरागमात्तव्याप्तिग्रहस्तदा युक्तयनुगृहीतात्तदननुगृहीताद्वा ? न तावदाद्यः पक्षस्तत्र युक्तेरप्रवृत्तेस्तदसंभवात् । द्वितीयपक्षे स्वतः सिद्धप्रामाण्यात् परतो वा ? न तावत्खतः स्वयमन - भ्यस्तविषयेऽत्यंतपरोक्षे स्वतः प्रामाण्यासिद्धेरन्यथा तदप्रामाण्यस्यापि स्वतः सिद्धिप्रसंगात् । परतः सिद्धप्रामाण्यादागमात्तव्याप्तिग्रह इति चेत् । किं तत्परं प्रवृत्तिसामर्थ्यं बाधकाभावो वा ? प्रवृत्तिसामर्थ्यं चेत्, फलेनाभिसंबंधः सजातीयज्ञानोत्पादो वा ? प्रथमकल्पनायां किं तद्याप्तिफलं ? सूर्यादिग्रहणानुमानमिति चेत्, सोऽयमन्योन्यसंश्रयः । प्रसिद्धे हि आगमस्य प्रामाण्ये ततो व्याप्तिग्रहादनुमाने प्रवृत्तिस्तत्सिद्धौ चानुमानफलेनाभिसंबंधादागमस्य प्रामाण्यमिति । सजातीयज्ञानोत्पादः प्रवृत्तिसामर्थ्यमिति चेत्, तत्सजातीयज्ञानं न तावत्प्रत्यक्षतोनुमानतो वा, अनवस्थानुषंगात्, तदनुमानस्यापि व्याप्तिग्रहणपूर्वकत्वात् । तयाप्तेरपि तदागमादेव ग्रहणसंभवात्तदागमस्यापि सजातीयज्ञानोत्पादादेव प्रमाणत्वांगीकरणात् ।
For Private & Personal Use Only
www.jainelibrary.org