________________
तत्त्वार्थश्लोकवार्तिके प्रतिपाद्यते । इति युक्तं परापरगुरूणामर्थतो ग्रंथतो वा शास्त्रे प्रथमसूत्रप्रवर्तनं, तद्विषयस्य श्रेयोमार्गस्य परापरप्रतिपाद्यैः प्रतिपित्सितत्वात् ॥
ननु निर्वाणजिज्ञासा युक्ता पूर्वं तदर्थिनः ।
परिज्ञातेभ्युपेयेर्थे तन्मार्गों ज्ञातुमिष्यते ॥ २४९ ॥ यो येनार्थी स तत्प्रतिपित्सावान् दृष्टो लोके, मोक्षार्थी च कश्चिद्भव्यस्तस्मान्मोक्षप्रतिपित्सावानेव युक्तो न पुनर्मोक्षमार्गप्रतिपित्सावान् , अप्रतिज्ञाते मोक्षे तन्मार्गस्य प्रतिपित्सायोग्यतोपपत्तेरिति मोक्षसूत्रप्रवर्तनं युक्तं तद्विषयस्य बुभुत्सितत्वान्न पुनरादावेव तागसूत्रप्रर्वतनमित्ययं मन्यते ।।
तन्न प्रायः परिक्षीणकल्मषस्यास्य धीमतः।
स्वात्मोपलब्धिरूपेस्मिन् मोक्षे संप्रतिपत्तितः ॥ २५० ॥ न हि यत्र यस्य संप्रतिपत्तिस्तत्र तस्य प्रतिपित्सानवस्थानुषंगात् । संप्रतिपत्तिश्च मोक्षे खात्मोपलब्धिरूपे प्रकृतस्य प्रतिपाद्यस्य प्रायशः परिक्षीणकल्मषत्वात् , सातिशयप्रज्ञत्वाच्च । ततो न तदर्थिनोपि तत्र प्रतिपित्सा तदर्थित्वमात्रस्य तत्प्रतिपित्सया व्यायसिद्धेः । सति विवादेर्थित्वस्य प्रतिपित्साया व्यापकत्वमिति चेन्न, तस्यासिद्धत्वात् । नहि मोक्षेधिकृतस्य प्रतिपत्तुर्विवादोस्ति । नानाप्रतिवादिकल्पनाभेदा. दस्त्येवेति चेत्
प्रवादिकल्पनाभेदाद्विवादो योपि संभवी ।
स पुंरूपे तदाधारपदार्थे वा न निवृतौ ॥ २५१ ॥ खरूपोपलब्धिनिर्वृतिरिति सामान्यतो निवृतौ सर्वप्रवादिनां विवादोऽसिद्ध एव । यस्य तु स्वरूपस्योपलब्धिस्तत्र विशेषतो विवादस्तदावरणे वा कर्मणि कल्पनाभेदात् । तथाहि । प्रभास्वरमिदं प्रकृत्या चित्तं निरन्वयक्षणिकं, अविद्यातृष्णे तत्प्रतिबंधके, तदभावान्निरास्रवचित्तोत्पत्तिर्मुक्तिरिति केषांचित्कल्पना । सर्वथा निःखभावमेवेदं चित्तं, तस्य धर्मिधर्मपरिकल्पना प्रतिबंधिका, तदपक्षयात्सकलनैरात्म्यं प्रदीपनिर्वाणवत्स्वांतनिर्वाणमित्यन्येषां । सकलागमरहितं परमात्मनो रूपमद्वयं, तत्प्रतिबंधिकानाद्यविद्या, तद्विलयात्प्रतिभासमात्रस्थितिर्मुक्तिरिति परेषां । चैतन्यं पुरुषस्य खं रूपं, तत्प्रतिपक्षः प्रकृतिसंसर्गस्तदपायात् स्वरूपेवस्थानं निःश्रेयसमित्यपरेषां । सर्वविशेषगुणरहितमचेतनमात्मनः स्वरूपं, तद्विपरीतो बुद्ध्यादिविशेषगुणसंबंधस्तत्प्रतिबंधकस्तत्प्रक्षयादाकाशवदचेतनावस्थितिः परा मुक्तिरितीतरेषां । परमानंदात्मकमात्मनो रूपं, बुद्ध्यादिसंबंधस्तत्प्रतिघाती, तदभावादानंदात्मकतया स्थितिः परा निर्वृतिरिति च मीमांसकानां । नैवं निर्वृतिसामान्ये कल्पनाभेदो यतस्तत्र विवादः स्यात् । मोक्षमार्गसामान्येपि न प्रवादिनां विवादः, कल्पनाभेदाभावात्। सम्यग्ज्ञानमात्रात्मकत्वादावेव तद्विशेषे विप्रतिपत्तेः । ततो मोक्षमार्गेऽस्य सामान्ये प्रतिपित्सा विनेयविशेषस्य भा भूत् इति चेत् । सत्यमेतत् । निर्वाणमार्गविशेष प्रतिपित्सोत्पत्तेः । कथमन्यथा तद्विशेषप्रतिपादनं सूत्रकारस्य प्रयुक्तं स्यात् । मोक्षमार्गसामान्ये हि विप्रतिपन्नस्य तन्मात्रप्रतिपित्सायाम स्ति मोक्षमार्ग' इति वक्तुं युज्येत, विनेयप्रतिपित्सानुरूपत्वात् सूत्रकारप्रतिवचनस्य । तर्हि मोक्षविशेषे विप्रतिपत्तेस्तमेव कस्मान्नापाक्षीत् इति चेत् । किमेवं प्रतिपित्सेत विनेयः सर्वत्रेहक्कार्यस्य संभवात् । तत्प्रश्नेपि हि शक्येत चोदयितुं किमर्थ मोक्षविशेषमप्राक्षीन्न पुनस्तन्मार्गविशेष, विप्रतिपत्तेरविशेषादिति । ततः कस्यचित्कचित् प्रतिपित्सामिच्छता मोक्षमार्गविशेषप्रतिपित्सा न प्रतिक्षेप्तव्या । ननु च सति धर्मिणि धर्मचिंता प्रवर्तते नासति । न च मोक्षः सर्वथास्ति येन तस्य विशिष्टत्वकारणं जिज्ञास्यत, इति न साधीयः । यस्मात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org