________________
प्रथमोऽध्यायः।
२८१ कः पुनर्जयोत्रेत्याह;तत्रेह तात्त्विके वादेऽकलंकैः कथितो जयः । स्वपक्षसिद्धिरेकस्य निग्रहोन्यस्य वादिनः॥४६॥ कथं;स्वपक्षसिद्धिपर्यंता शास्त्रीयार्थविचारणा । वस्त्वाश्रयत्वतो यद्वल्लौकिकार्थे विचारणा ॥४७॥ कः पुनः खस्य पक्षो यत्सिद्धिर्जयः स्यादिति विचारयितुमुपक्रमते;जिज्ञासितविशेषोत्र धर्मी पक्षो न युज्यते । तस्यासंभवदोषेण बाधितत्वात्खपुष्पवत् ॥ ४८॥ कचित्साध्यविशेष हि न वादी प्रतिपित्सते । स्वयं विनिश्चितार्थस्य परबोधाय वृत्तितः॥४९॥ प्रवृत्तिवादी तस्यैव प्रतिक्षेपाय वर्तनात् । जिज्ञासितेन सभ्याश्च सिद्धांतद्वयवेदिनः ॥ ५० ॥ स्वार्थानुमाने वाद्ये च जिज्ञासितेति चेन्मतं । वादे तस्याधिकारः स्यात् परप्रत्ययनादृते ॥५१॥ जिज्ञापयितात्मेह धर्मी पक्षो यदीष्यते । लक्षणद्वयमायातं पक्षस्य ग्रंथघातिने ॥ ५२ ॥ तथानुष्णोग्निरित्यादिः प्रत्यक्षादिनिराकृतः । स्वपक्षं स्यादतिव्यापि नेदं पक्षस्य लक्षणं॥५३॥ लिंगात्साधयितुं शक्यो विशेषो यस्य धर्मिणः । स एव पक्ष इति चेत् वृथा धर्मविशेषवाक्५४ लिंगं येनाविनाभावि सोर्थः साध्योवधार्यते । न च धर्मी तथाभूतः सर्वत्रानन्वयात्मकः ५५ न धर्मी केवलः साध्यो न धर्मः सिद्ध्यसंभवात् । समुदायस्तु साध्येत यदि संव्यवहारिभिः५६ तदा तत्समुदायस्य स्वाश्रयेण विना सदा । संभवाभावतः सोपि तद्विशिष्टः प्रसाध्यताम् ५७ तद्विशेषोपि सोन्येन स्वाश्रयेणेति न कचित् । साध्यव्यवस्थितिमूढचेतसामात्मविद्विषाम् ।।५८ विनापि तेन लिंगस्य भावात्तस्य न साध्यता । ततोनपेक्षतेत्येतदनुकूलं समाचरेत् ॥ ५९॥ धर्मिणापि विना भावात्कचिल्लिंगस्य पक्षता । तस्य मा भूत्ततः सिद्धः पक्षः साधनगोचरः६० याहगेव हि खार्थानुमाने पक्षः शक्यत्वादिविशेषणः साधनविषयस्तादृगेव परार्थानुमाने युक्तः खनिश्चयवदन्येषां निश्चयोत्पादनाय प्रेक्षावतां परार्थानुमानप्रयोगात् , अन्यथा तल्लक्षणस्यासंभवादिदोषानुषंगात् ॥ का पुनः पक्षस्य सिद्धिरित्याह;
सभ्यप्रत्यायनं तस्य सिद्धिः स्याद्वादिनोथवा । प्रतिवादिन इत्येष निग्रहोन्यतरस्य तु ॥६१॥ वादिनः स्वपक्षप्रत्यायनं सभायां स्वपक्षसिद्धिः, प्रतिवादिनः स एव निग्रहः, प्रतिवादिनोथवा तत्वपक्षसिद्धिदिनो निग्रह इत्येतत्प्रत्येयम् ॥ तथोक्तं । "खपक्षसिद्धिरेकस्य निग्रहोन्यस्य वादिनः । नासाधनांगवचनं नादोषोद्भावनं द्वयोः ॥” इति ॥
अत्र परमतमनूद्य विचारयति;असाधनांगवचनमदोषोद्भावनं द्वयोः । निग्रहस्थानमन्यत्तन्न युक्तमिति केचन ॥ ६२॥ स्वपक्षं साधयन् तत्र तयोरेको जयेद्यदि । तूष्णीभूतं ब्रुवाणं वा यत्किचित्तत्समंजसम् ॥६३॥
सत्यमेतत् , खपक्षं साधयन्नेवासाधनांगवचनाददोषोद्भावनाद्वा वादी प्रतिवादी वा तूष्णीभूतं यत्किंचिढुवाणं वा परं जयति नान्यथा केवलं पक्षो वादिप्रतिवादिनोः सम्यक् साधनदूषणवचनमेवेति पराकूतमनूद्य प्रतिक्षिपति;
तत्साधनवचः पक्षो मतः साधनवादिनः । सदृषणाभिधानं तु स्वपक्षः प्रतिवादिनः॥६४ ॥ इत्ययुक्तं द्वयोरेकविषयत्वानवस्थितेः । स्वपक्षप्रतिपक्षत्वासंभवाद्भिन्नपक्षवत् ॥ ६५ ॥ वस्तुन्येकत्र वर्तेते तयोः साधनदूषणे । तेन तद्वचसोर्युक्ता स्वपक्षेतरता यदि ॥ ६६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org