________________
२८०
तत्त्वार्थश्लोकवार्तिके
तत्त्वार्था० वादिनोदिनं वादः समर्थे हि सभापतौ । समर्थयोः समर्थेषु प्रानिकेषु प्रवर्तते ॥ ३०॥ सामर्थ्य पुनरीशस्य शक्तित्रयमुदाहृतम् । येन स्वमंडलस्याज्ञा विधेयत्वं प्रसिद्ध्यति ॥३१॥ मंत्रशक्त्या प्रभुस्तावत्स्वलोकान् समयानपि । धर्मन्यायेन संरक्षेविप्लवात्साधुसात् सुधीः ॥३२ प्रभुसामर्थ्यतो वापि दुर्लध्यात्मबलैरपि । स्त्रोत्साहशक्तितो वापि दंडं नीतिविदांवरः ॥३३॥ रागद्वेषविहीनत्वं वादिनि प्रतिवादिनि । न्यायेऽन्याये च तद्वत्त्वं सामर्थ्य प्राश्निकेष्वदः॥३४ ' सिद्धांतद्वयवेदित्वं प्रोक्तार्थग्रहणत्वता । प्रतिभादिगुणत्वं च तत्त्वनिर्णयकारिता ॥ ३५ ॥ जयेतरव्यवस्थायामन्यथानधिकारता । सभ्यानामात्मनः पत्युर्यशो धर्म च वांछतः ॥ ३६ ॥ कुमारनंदिनचाहुदिन्यायविचक्षणाः । राजप्राश्निकसामर्थ्यमेवंभूतमसंशयम् ॥ ३७॥ एकतः कारयेत्सभ्यान् वादिनामेकतः प्रभुः । पश्चादभ्यर्णकान् वीक्ष्य प्रमाणगुणदोषयोः ३८ लौकिकार्थविचारेषु न तथा प्राश्निका यथा। शास्त्रीयार्थविचारेषु वा तज्ज्ञाःप्राश्निका यथा३९ सत्यसाधनसामर्थ्यसंप्रकाशनपाटवः । वाद्यजेयो विजेता नो सदोन्मादेन केवलम् ॥४०॥ इति समर्थसाधनाख्यानं सामर्थ्य वादिनो मतं । सा त्ववश्यं च सामर्थ्यादन्यथानुपपन्नता॥४१॥ सदोषोद्भावनं वापि सामर्थ्य प्रतिवादिनः । दूषणस्य च सामर्थ्य प्रतिपक्षविघातिता ॥४२॥
ननु यथा सभापतेः प्रानिकानां च सामर्थ्यमविरुद्धमुक्तं वादिनोः साधनदूषणयोश्च परस्परव्याघातात् । तथाहि-यदि वादिनः सम्यक्साधनवचनं सामर्थ्य साधनस्य चान्यथानुपपन्नत्वं तदा कथं तत्र प्रतिवादिनः सदोषोद्भावनं सामर्थ्य संसाध्यं दूषणस्य च पक्षविघातितावत्कथमितरदिति परस्परव्याहतं पश्यामः । तदन्यतमासमर्थत्वे वा यथा समर्थे सभापतौ प्रानिकेषु वचनं वादस्तथा समर्थयोर्वादिप्रतिवादिनोः साधनदूषणयोश्चेति व्याख्यानमनुपपन्नमायातमिति कश्चित् । तदसत् । वादिप्रतिवादिनोः साधनदूषणवचने क्रमतः प्रवृत्तौ विरोधाभावात् । पूर्व तावद्वादी खदर्शनानुसारितया समर्थः साधनं समर्थमुपन्यस्यति पश्चात्प्रतिवादी खदर्शनालंबन दोषोद्भावनसमर्थसद्दूषणं तत्सामर्थ्य प्रतिपक्षविघातिता न विरुध्यते ॥
का पुनरियं प्रतिपक्षविघातितेत्याह;सा पक्षांतरसिद्धिर्वा साधनाशक्तितापि वा । हेतोविरुद्धता यद्वदभासांतरतापि च ॥ ४३ ॥ साधनस्य स्वपक्षघातिता पक्षांतरसाधनत्वं यथा विरुद्धं खपक्षसाधनाशक्तत्वमात्रं वा यथानकांतिकत्वादि साधनाभासत्वं, तदुद्भवने खपक्षसिद्धेरपेक्षणीयत्वात् । तदुक्तं । "विरुद्धं हेतुमद्भाव्यवादिनं जयतीतरः । आभासांतरमुद्भाव्य पक्षसिद्धमपेक्षते ॥” इति । न चैवमष्टांगो विवादः स्यात्तत्साधनतद्वचनयोर्वादिसामर्थरूपत्वात् सदूषणतद्वचनयोश्च प्रतिवादिसामर्थ्यरूपत्वादिगंतरत्वायोगात् नैवं प्रभुः सभ्यो वा वादिप्रतिवादिनोः सामर्थ्य तयोः खतंत्रत्वात् । ततो नाभिमानिकोपि वादो व्यंग एव वीतरागवादवदिति शक्यं वक्तुं, चतुर्णामंगानामन्यतमस्याप्यपाये अर्थापरिसमाप्तेरित्युक्तप्रायं । एवमयमाभिमानिको वादो जिगीषतोढिविध इत्याह;
इत्याभिमानिकः प्रोक्तस्तात्त्विका प्रातिभोपि वा । समर्थावचनं वादश्चतुरंगो जिगीषतोः ४४ पूर्वाचार्योपि भगवानमुमेव द्विविधं जल्पमावेदितवानित्याह;द्विप्रकारं जगौ जल्पं तत्त्वप्रातिभगोचरम् । त्रिपष्टे दिनां जेता श्रीदत्तो जल्पनिर्णये॥४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org