________________
प्रथमोऽध्यायः।
२७९ वा प्रयोजनार्थमर्थित्वेन तमभ्युपेयादित्यत्रापि प्रतिपक्षहीनमपि चेति वक्तव्यं, सर्वथा प्रतिपक्षहीनवादस्यासंभवादिति चेत् । क एवं व्याचष्टे सर्वप्रतिपक्षहीनमिति ? परतः प्रतिज्ञामुपादित्समानस्तत्त्वबुभुत्साप्रकाशनेन वपक्षं वचनतोनवस्थापयत्वदर्शनं साधयेदिति व्याख्यानात् तत्र गम्यमानस्य खपक्षस्य
भावात् , स्वपक्षमनवस्थापयन्निति भाष्यकारवचनस्यान्यथा विरोधात् । कुतोन्यथा भाष्यकारस्यैव • व्याख्यानमितिचेत्, सर्वथा खपक्षहीनस्य वादस्य जल्पवितंडावदसंभवादेव कथमेवं वादजल्पयोर्वितं
डातो भेदः ? प्रतिपक्षस्थापनाहीनत्वाविशेषादिति चेत् , उक्तमत्र नियमतः प्रतिपक्षस्थापनाया हीना वितंडा, कदाचित्तया हीनौ वादजल्पाविति । केवलं वादः प्रमाणतर्कसाधनोपलंभत्वादिविशेषणः पक्षप्रतिपक्षपरिग्रहः । जल्पस्तु छलजातिनिग्रहस्थानसाधनोपालंभश्च यथोक्तोपपन्नश्चेति वितंडातो विशिप्यते । तदेवं पक्षप्रतिपक्षपरिग्रहस्य जल्पे सतोपि प्रमाणतर्कसाधनोपलंभत्वादिविशेषणाभावाद्वितंडायामसत्त्वाच न जल्पवितंडयोस्तत्त्वाव्यवसायसंरक्षणार्थत्वसिद्धिः प्रकृतसाधनाद्येनेष्टविघातकारीदं स्यादनिष्टस्य साधनादिति वाद एव तत्त्वाव्यवसायसंरक्षणार्थत्वाजिगीषतोर्युक्तो न जल्पवितंडे ताभ्यां तत्त्वाव्यवसायसंरक्षणासंभवात् । परमार्थतः ख्यातिलाभपूजावत् तत्त्वस्याव्यवसायो हि तत्वनिश्चयस्तस्य संरक्षणं न्यायबलात्सकलबाधकनिराकरणेन पुनस्तत्र बाधकमुद्भावयते यथाकथंचिन्निर्मुखीकरणं चपेटादिभिस्तत्पक्षनिराकरणस्यापि तत्त्वाव्यवसायसंरक्षणत्वप्रसंगात् । न च जल्पवितंडाभ्यां तत्र सकलबाधकपरिहरणं छलजात्याधुपक्रमपराभ्यां संशयस्य विपर्यासस्य वा जननात् । तत्त्वाव्यवसाये सत्यपि हि वादिनः परनिर्मुखीकरणे प्रवृत्तौ प्राश्निकास्तत्र संशेरते विपर्यस्यन्निव किमस्य तत्त्वाव्यवसायोस्ति किं वा नास्तीति । नास्त्येवेति व्यापारनिर्मुखीकरणमात्रे तथा व्यवसायरहितस्यापि प्रवृत्तिदर्शनात्तत्त्वोपप्लववादिवत् तथा व्याख्यातिरेव प्रेक्षावत्सु न स्यादिति कुतः पूजालाभो वा ? ततश्चैवं वक्तव्यं वादो जिगीषतोरेव तत्त्वाव्यवसायसंरक्षणार्थत्वादन्यथा तदनुपपत्तेः । पराभ्युपगममात्राज्जल्पवितंडावत्त्वात् निग्रहस्थानवत्त्वाच्च । न हि वादे निग्रहस्थानानि न संति । सिद्धांताविरुद्धः इत्यनेनापसिद्धांतस्य पंचावयवोपपन्न इत्यत्र पंचग्रहणान्न्यूनाधिकयोरवयवोपपन्नग्रहणाद्धेत्वाभासपंचकस्य प्रतिपादनाद्दुष्टानां निग्रहस्थानानां तत्र नियमव्याख्यानात् । ननु वादे सतामपि निग्रहस्थानानां निग्रहबुद्ध्योद्भावनाभावान्न जिगीषास्ति । तदुक्तं तर्कशब्देन भूतपूर्वगतिन्यायेन वीतरागकथात्वज्ञापनादुद्भावनियमो लभ्यते तेन सिद्धांताविरुद्धः । पंचावयवोपपन्न इति चोत्तरपदयोः समस्तनिग्रहस्थानाद्युपलक्षणार्थत्वादेव प्रमाणबुद्ध्या परेण छलजातिनिग्रहस्थानानि प्रयुक्तानि न निग्रहबुद्ध्योद्भाव्यते किं तु निवारणबुद्ध्या तत्त्वज्ञानायावयवः प्रवृत्तिर्न च साधनाभासो दूषणाभावे वा तत्त्वाज्ञानहेतुरतो न तत्प्रयोगो युक्तः इति । तदेतदसंगतं । जल्पवितंडयोरपि तथोद्भवननियमप्रसंगात्तयोस्तत्त्वाव्यवसायसंरक्षणाय खयमभ्युपगमात् । तस्य छलजातिनिग्रहस्थानः कर्तुमशक्यत्वात् । परस्य तूष्णीभावार्थ जल्पवितंडयोश्छलायुद्भावनमितिचेन्न, तथा परस्य तूष्णीभावासंभवादसदुत्तराणामानंत्यान्च्यायबलादेव परनिराकरणसंभवात् । सोयं परनिराकरणायान्ययोगव्यवच्छेदेन व्यवसिताद्यनुजातं तत्त्वविषयप्रज्ञापारिपाकादि च फलमभिप्रेत्य वादं कुर्वन् परं निग्रहस्थाननिराकरोतीति कथमविरुद्धवाक् न्यायेन प्रतिवादिनः स्वाभिप्रायान्निवर्तनस्यैव निग्रहत्वादलाभे वा ततो निग्रहत्वायोगात् । तदुक्तं । "आस्तां तावदलाभादिरयमेव हि निग्रहः । न्यायेन विजिगीषूणां खाभिप्रायनिवर्तनम् ॥” इति सिद्धमेतत् जिगीषतो वादो निग्रहस्थानवत्त्वान्यथानुपपत्तेरिति । स च चतुरंगः खाभिप्रेतखव्यवस्थानफलत्वाल्लोकप्रख्यातवादवत् । तथाहिमर्यादातिक्रमं लोके यथा हंति महीपतिः । तथा शास्त्रेप्यहंकारग्रस्तयोर्वादिनोः कचित्॥२९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org