________________
[तत्त्वार्था०
२८२
तत्त्वार्थश्लोकवार्तिके तदा वास्तवपक्षः स्यात्साध्यमानं कथंचन । दृष्यमाणं च निःशंकं तद्वादिप्रतिवादिनोः॥६७॥
यद्वस्तु शब्दानित्यत्वावादिनां साध्यमानं वादिना, दूष्यमाणं च प्रतिवादिना तदेव वादिनः पक्षः शक्यत्वादिविशेषणस्य साधनविषयस्य पक्षत्वव्यवस्थापनात् । तथा यहूषणवादिना शब्दादि वस्तु अनित्यत्वादिना साध्यमानं वादिना दूष्यमाणं तदेव प्रतिवादिनः पक्ष इति व्यवतिष्ठते न पुनः साधन वचनं वादिनः दूषणवचनं च प्रतिवादिनः पक्ष इति विवादाभावात्तयोस्तत्र विवादे वा यथोक्तलक्षण एव । पक्ष इति तस्यासिद्धेरेकस्य जयोऽपरस्य पराजयो व्यवतिष्ठते, न पुनरसाधनांगवचनमात्रमदोषोद्भावनमात्रं वा । पक्षसिध्यविनाभाविनस्तु साधनांगस्यावचनं वादिनो निग्रहस्थानं प्रतिपक्षसिद्धौ सत्यां प्रतिवादिन इति न निवार्यत एव । तथाहि
पक्षसिद्ध्यविनाभावि साधनावचनं ततः । निग्रहो वादिनः सिद्धः स्वपक्षे प्रतिवादिनि॥६८॥
सामर्थ्यात् प्रतिवादिनः सहृषणवत्त्वनिग्रहादिकरणं वादिनः पक्षसिद्धौ सत्यामित्यवगंतव्यं । तथा वादिनं साधनमात्रं ब्रुवाणमपि प्रतिवादी कथं जयतीत्याह;
विरुद्धसाधनोद्भावी प्रतिवादीतरं जयेत् । तथा स्वपक्षसंसिद्धेर्विधानं तेन तत्त्वतः ॥ ६९॥
दूषणांतरमुद्भाव्य खपक्षं साधयन् जयत्येव अन्यथा तस्य न जयो न पराजयः । यत्र धर्मकीर्तिनाभ्यधायि साधनं सिद्धिस्तदंगं त्रिरूपं लिंगं तस्यावचनं वादिनो निग्रहस्थानं । तथा साधनस्य त्रिरूपं लिंगं समर्थनं व्यतिरेकनिश्चयनिरूपणत्वात् , तस्य विपक्षे बाधकप्रमाणवचनस्य हेतोः समर्थत्वात् तस्यावचनं वादिनो निग्रहस्थानमिति च तन्नैयायिकस्यापि समानमित्याह;
खेष्टार्थसिद्धिरंगस्य व्यंशहेतोरभाषणं । तस्यासमर्थनं चापि वादिनो निग्रहो यथा ॥ ७० ॥ पंचावयवलिंगस्याभाषणं न तथैव किम् । तस्यासमर्थनं चापि सर्वथाप्यविशेषतः ॥ ७१॥
ननु च न सौगतस्य पंचावयवसाधनस्य तत्समर्थनस्य वा वचनं निग्रहस्थानं तत्र निगमनांतसामर्थ्याद्गम्यमानत्वात् तद्वचनस्य पुनरुक्तत्वेनाफलत्वादित्यपि न संगतमित्याह;
सामर्थ्याद्गम्यमानस्य निगमस्य वचो यथा । पक्षधर्मोपसंहारवचनं च तथा फलम् ॥ ७२॥
ननु च सपक्षधर्मोपसंहारस्य सामर्थ्याद्गम्यमानस्यापि हेतोरपक्षधर्मत्वेनासिद्धत्वस्य व्यवच्छेदः फलमस्तीति युक्तं तद्वचनमनुमन्यते यत्सत्तत्सर्वं क्षणिकं यथा घटः संश्च शब्द इति । तर्हि निगमनस्यापि प्रतिज्ञाहेतूदाहरणोपनयानामेकार्थत्वोपदर्शनं फलमस्ति तत्तद्वचनमपि युक्तिमदेवेत्याह;
तस्यासिद्धत्वविच्छित्तिः फलं हेतोर्यथा तथा । निगमस्य प्रतिज्ञानाद्येकार्थत्वोपदर्शनम् ॥७३॥
न हि प्रतिज्ञादीनामेकार्थत्वोपदर्शनमंतरेण संगतत्वमुपपद्यते भिन्नविषयप्रतिज्ञादिवत् । तथा प्रतिज्ञातः साध्यसिद्धौ हेत्वादिवचनमनर्थकं स्यादन्यथा तस्या न साधनांगतेति यदुक्तं तदपि खमतघातिधर्मकीरित्याह;
प्रतिज्ञातोर्थसिद्धौ स्याद्धेत्वादिवचनं वृथा । नान्यथा साधनांगत्वं तस्या इति यथैव तत्॥७४॥ तत्त्वार्थनिश्चये हेतोदृष्टांतोऽनर्थको न किम् ।
ततोतिविपरीतव्यतिरेकत्वं प्रदर्शितव्यतिरेकत्वमिति । न च वैधर्म्यदृष्टांतदोषाः क्वचिन्न्यायविनिश्चयादौ प्रतिपाद्यानुरोधतः सदृष्टांतेषु सप्रयोगेषु सविभागमुदाहृताः न पुनः साधनांगत्वानियमात् । तदनुद्भावनं प्रतिवादिनो निग्रहाधिकरणं वादिना स्वपक्षस्यासाधनेपीति ब्रुवाणः सौगतो जडत्वेन जडानपि छलादिना व्यवहारतो नैयायिकान् जयेत् । किं च
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org