________________
प्रथमोऽध्यायः।
२८३ सत्ये च साधने प्रोक्ते वादिना प्रतिवादिनः । दोषानुत्साधने न स्यानकारो वितथेपि वा७५ प्राच्ये पक्षे कलंकोक्तिद्धितीये लोकबाधिता । द्वयोर्हि पक्षसंसिद्ध्यभावे कस्य विनिग्रहः।।७६॥ अत्रान्ये प्राहुरिष्टं नस्तथा निग्रहणं द्वयोः । तत्त्वज्ञानोक्तिसामर्थ्यशून्यत्वस्याविशेषतः ॥७७॥ यथोपात्तापरिज्ञानं साधनाभासवादिनः । तथा सदृषणाज्ञानं दोषानुद्भाविनः समं ॥७८ ॥ जानतोपि सभातीते हन्यतो वा कुतश्चन । दोषानुद्भावनं यद्वत्साधनाभासवाक तथा ॥७९॥ दोषानुद्भावने तु स्याद्वादिना प्रतिवादिते । परस्य निग्रहस्तेन निराकरणतः स्फुटम् ॥ ८० ॥ अन्योन्यशक्तिनिर्घातापेक्षया हि जयेतरः । व्यवस्था वादिनोः सिद्धाः नान्यथातिप्रसंगतः८१ इत्येतदुर्विदग्धत्वे चेष्टितं प्रकटं न तु । वादिनः कीर्तिकारि स्यादेवं माध्यस्थहानितः॥८२॥ दोषानुद्भावनाख्यानाद्यथा परनिराकृतिः। तथैव वादिनः स्वस्य दृष्टवान् का तिरस्कृतिः ॥८३ दोषानुद्भावनादेकं न कुर्वति सभासदः । साधनानुक्तितो नान्यमित्यहो तेतिसज्जनाः॥८४॥ अत्र परेषामाकूतमुपदय विचारयति;पक्षसिद्धिविहीनत्वादेकस्यात्र पराजये । परस्यापि न किं न स्याज्जयोप्यन्यतरस्य तु ॥ ८५ ॥ तथा चैकस्य युगपत्स्यातां जयपराजयो । पक्षसिद्धीतरात्मत्वात्तयोः सर्वत्र लोकवत् ॥ ८६ ॥ तदेकस्य परेणेह निराकरणमेव नः । पराजयो विचारेषु पक्षासिद्धिस्तु सा क नुः ॥ ८७ ॥ पराजयप्रतिष्ठानमपेक्ष्य प्रतियोगिनां । लोके हि दृश्यते यादृक् सिद्धं शास्त्रेपि तादृशम् ॥८८ सिद्ध्यभावः पुनदृष्टः सत्यपि प्रतियोगिनि । साधनाभावतः शून्ये सत्यपि च स जातुचित्८९ तनिराकृतिसामर्थ्यशून्ये वादमकुर्वति । पराजयस्ततस्तस्य प्राप्त इत्यपरे विदुः ॥९॥ तत्रेदं चिंत्यते तावत्तनिराकरणं किमु । निर्मुखीकरणं किं वा वाग्भिस्तत्तत्त्वदूषणम् ॥ ९१ ॥ नाबादिकल्पना युक्ता परानुग्राहिणां सतां । निर्मुखीकरणावृत्तेर्बोधिसत्त्वादिवत्कचित् ॥१२॥ द्वितीयकल्पनायां तु पक्षसिद्धिः पराजयः । सर्वस्य वचनैस्तत्त्वदूषणे प्रतियोगिनाम् ॥९३ ॥ सिद्ध्यभावस्तु योगिनामसति प्रतियोगिनि । साधनाभावस्तत्र कथं वादे पराजयः ॥ ९४ ॥ यदैव वादिनोः पक्षः प्रतिपक्षपरिग्रहः । राजन्वति सदेकस्य पक्षासिद्धस्तथैव हि ॥ ९५ ॥ सा तत्र वादिनो सम्यक् साधनोक्तेर्विभाव्यते । तूष्णीभावाच नान्यत्र नान्यदेत्यकलंकवाक् ९६ तूष्णीभावोथवा दोषानाशक्तिः सत्यसाधने । वादिनोक्ते परस्येष्टा पक्षसिद्धिर्न चान्यथा ९७ कस्यचित्तत्त्वसंसिद्ध्यप्रतिक्षेपो निराकृतः । कीर्तिः पराजयोवश्यमकीर्तिदिति स्थितम्॥९८॥ असाधनांगवचनमदोषोद्भावनं द्वयोः । न युक्तं निग्रहस्थानं संधाहान्यादिवत्ततः ॥ ९९ ॥
के पुनस्ते प्रतिज्ञाहान्यादय इमे कथ्यते ? प्रतिज्ञाहानिः प्रतिज्ञांतरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासः हेत्वंतरं अर्थातरं निरर्थकं अविज्ञातार्थ अपार्थकं प्राप्तकालं पुनरुक्तं अननुभाषणं अज्ञानं अप्रतिभा पर्यनुयोग्यानुपेक्षणं निरनुयोज्यानुयोगः विक्षेपः मतानुज्ञा न्यूनं अधिकं अपसिद्धांतः हेत्वाभासाः छलं जातिरिति । तत्र प्रतिज्ञाहानिनिग्रहस्थानं कथमयुक्तमित्याह;
प्रतिदृष्टांतधर्मस्य यानुज्ञा न्यायदशेने । स्वदृष्टांते मता सैव प्रतिज्ञाहानिरीश्वरैः ॥१०॥
प्रतिदृष्टांतधर्मानुज्ञा खदृष्टांते प्रतिज्ञाहानिरित्यक्षपादवचनात् । एवं सूत्रमनूद्य परीक्षणार्थ भाष्यमनुवदति;
साध्यधर्मविरुद्धेन धर्मेण प्रत्यवस्थिते । अन्यदृष्टांतधर्मा..... मेवानुजानतः १०१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org