________________
(तत्त्वार्था० .
२८४
तत्त्वार्थश्लोकवार्तिके प्रतिज्ञाहानिरित्येव भाष्याकाराग्रहो न वा । प्रकारांतरोप्यस्य स्यात संभवाच्चित्रविभ्रमात १०२ विनश्वरस्वभावोयं शब्द ऐंद्रियकत्वतः । यथा घट इति प्रोक्ते परः प्रत्यवतिष्ठते ॥ १०३ ॥ दृष्टमैंद्रियकं नित्यं सामान्यं तद्वदस्तु नः । शब्दोपीति स्वलिंगस्य ज्ञानात्ते नाप्यसंमतं ॥१०४ कामं घटोपि नित्योस्तु सामान्यं यदि शाश्वतं । इत्येवं भाष्यमाणेन प्रतिज्ञोत्पद्यते कथम् १०५ दृष्टांतस्य परित्यागात्स्वहेतोः प्रकृतक्षतेः । निगमांतस्य पक्षस्य त्यागादिति मतं यदि ॥१०६॥ . तदा दृष्टांतहानिः स्यात्साक्षादियमनाकुला । साध्यधर्मपरित्यागाद् दृष्टांते स्वेष्टसाधने ॥१०७ पारंपर्येण तु त्यागो हेतूपनययोरपि । उदाहरणहानी हि नानयोरस्ति साधुता ॥ १०८॥ निगमस्य परित्यागः पक्षवादोपि वा स्वयं । तथा च न प्रतिज्ञातहानिरेवेति संगतम् ॥१०९॥ पक्षत्यागात्प्रतिज्ञायास्त्यागस्तस्य तदासृतेः । पक्षत्यागेपि दृष्टांतत्यागादिति यदीष्यते॥११०।। हेत्वादित्यागतोपि स्यात् प्रतिज्ञात्यजनं तदा । ततः पक्षपरित्यागाविशेषानियमः कुतः १११ साधर्मप्रत्यनीकधर्मेण प्रत्यवस्थितः प्रतिदृष्टांतधर्म स्वदृष्टांतेनुजानन् प्रतिज्ञां जहातीति प्रतिज्ञाहानिः । यथा अनित्यः शब्द ऐंद्रियकत्वात् घटवदिति ब्रुवन् परेण दृष्टमैंद्रियकं सामान्यं नित्यं कस्मान्न तथा शब्द इत्येवं प्रत्यवस्थितः । प्रयुक्तस्य हेतोराभासतामवश्यमपि कथावसानमकुर्वन्निश्चयमतिलंब्य प्रतिज्ञात्यागं करोति, यथेंद्रियकं सामान्यं नित्यं कामं घटोपि नित्योस्ति इति । स खल्वयं ससाधनस्य दृष्टांतस्य नित्यत्वं प्रसजन्निगमांतमेव पक्षं च परित्यजन् प्रतिज्ञां जहातीत्युच्यते प्रतिज्ञाश्रयत्वात्पक्षस्येति भाष्यकारमतमालूनविस्तीर्णमादर्शितम् ॥
प्रतिज्ञाहानिसूत्रस्य व्याख्यां वार्तिककृत्पुनः । करोत्येवं विरोधेन न्यायभाष्यकृतः स्फुटम् ११२ दृष्टश्चांते स्थितश्चायमिति दृष्टांत उच्यते । स्वदृष्टांतः स्वपक्षः स्यात् प्रतिपक्षः पुनर्मतः॥११३॥ प्रतिदृष्टांत एवेति तद्धर्ममनुजानतः । स्वपक्षे स्यात्प्रतिज्ञानमिति न्यायाविरोधतः ॥ ११४ ॥ सामान्यमैंद्रियं नित्यं यदि शब्दोपि तादृशः । नित्योस्त्विति बुवाणस्यानित्यत्वत्यागनिश्चयात् इत्येतच न युक्तं स्यादुद्योतकरजाद्यकृत् । प्रतिज्ञाहानिरित्थं तु यतस्तेनावधार्यते ॥ ११६ ॥ सा हेत्वादिपरित्यागात् प्रतिपक्षप्रसाधना । प्रायः प्रतीयते वादे मंदबोधस्य वादिनः॥११७॥ कुतश्चिदाकुलाभावादन्यतो वा निमित्ततः । तथा तद्वाचि सूत्रार्थो नियमान्न व्यवस्थितः११८
यथाह उद्योतकरः दृष्टश्चासावंते च व्यवस्थित इति दृष्टांतः स्वपक्षः, प्रतिदृष्टांतः प्रतिपक्षः प्रतिपक्षस्य धर्म पक्षेन्यत्र जानन् प्रतिज्ञां जहाति । यदि सामान्यमैंद्रियकं नित्यं शब्दोप्येवमस्त्विति तदेतदपि तस्य जाड्यकारि संलक्ष्यते । इत्थमेव प्रतिज्ञाहानेरेव वारयितुमशक्तेः । प्रतिपक्षप्रसाधनाद्धि प्रतिज्ञायाः किल हानिः संपद्यते तत्त्वहेत्वादिपरित्यागादपि कस्यचिन्मंदबुद्धे,दिनो वादिप्रायेण प्रतीयते न पुनः प्रतिपक्षस्य धर्म खपक्षेभ्यनुजानत एव येनायमेकप्रकारः प्रतिज्ञाहानौ स्यात् । तथा विक्षेपादिभिराकुलीभावात् प्रकृत्या सभाभीरुत्वादन्यमनस्कत्वादेर्वा निमित्तात् किंचित्साध्यत्वेन प्रतिज्ञाय तद्विपरीतं प्रति जनिरुपलभ्यत एव पुरुषभ्रांतेरनेककारणत्वोपपत्तेः । ततो नाप्तोपज्ञमेवेदं सूत्रं भाष्यकारस्य वार्तिककारस्य च व्यवस्थापयितुमशक्यत्वात् युक्त्यागमविरोधात् ॥ अत्र धर्मकीर्तेर्दूषणमुपदर्य परिहरन्नाह;
यस्त्वाह द्रियकत्वस्य व्यभिचाराद्विनश्वरे । शब्दसाध्येन हेतुत्वं सामान्येनेति सोप्यधीः ११९ सिद्धसाधनतस्तेषां संधाहानेश्च भेदतः । साधनं व्यभिचारित्वात्तदनंतरतः कुतः ॥ १२० ॥ सास्त्येव हि प्रतिज्ञानहानिर्दोषः कुतश्चन । कस्यचिन्निग्रहस्थानं तन्मात्रात्तु न युज्यते॥१२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org