________________
प्रथमोऽध्यायः ।
२८५ येषां प्रयोगयोग्यास्ति प्रतिज्ञानमितीरणे । तेषां तद्धानिरप्यस्तु निग्रहो वा प्रसाधने ॥१२२॥ परेण साधिते खार्थे नान्यथेति हि निश्चितं । स्वपक्षसिद्धिरेवात्र जय इत्यभिधानतः ॥१२३॥ गम्यमाना प्रतिज्ञा न येषां तेषां च तत्क्षतिः । गम्यमानैव दोषः स्यादिति सर्व समंजसम्१२४
न हि वयं प्रतिज्ञाहानिर्दोष एव न भवतीति संगिरामहे अनैकांतिकत्वात् साधनदोषात् पश्चात् तद्भावात् ततो भेदेन प्रसिद्धेः । प्रतिज्ञां प्रयोज्यां सामर्थ्यगम्यां वा वदतस्तद्धानेस्तथैवाभ्युपगमनीयत्वात् सर्वथा तामनिच्छतो वादिन एवासंभवात् केवलमेतस्मादेव निमित्तात् प्रतिज्ञाहानिर्भवति प्रतिपक्षसिद्धमंतरेण च कस्यचिन्निग्रहाधिकरणमित्येतन्न क्षम्यते तत्त्वाव्यवस्थापयितुमशक्तेः ॥ प्रतिज्ञांतरमिदानीमनुवदति;प्रतिषेधे प्रतिज्ञातार्थस्य धर्मविकल्पतः । योसौ तदर्थनिर्देशस्तत्प्रतिज्ञांतरं किल ॥ १२५ ॥ प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञांतरं तल्लक्षणसूत्रमनेनोक्तमिदं व्याचष्टे;घटोऽसर्वगतो यद्वत्तथा शब्दोप्यसर्वगः । तद्वदेवास्तु नित्योयमिति धर्मविकल्पनात् ॥१२६।। सामान्येनैंद्रियत्वस्य सर्वगत्वोपदर्शितं । व्यभिचारेपि पूर्वस्याः प्रतिज्ञायाः प्रसिद्धये ॥१२७॥ शब्दोऽसर्वगतस्तावदिति सत्त्वांतरं कृतम् । तच्च तत्साधनाशक्तमिति भाष्येन निग्रहः ॥१२८॥
अनित्यः शब्दः ऐंद्रियकत्वाद्धटवदित्येकः सामान्यमैंद्रियकं नित्यं कस्मान्न तथा शब्द इति द्वितीयः । साधनस्यानैकांतिकत्वं सामान्येनोद्भावयति तेन प्रतिज्ञातार्थस्य प्रतिषेधे सति तं दोषमनुद्धरन् धर्मविकल्पं करोति, सोयं शब्दोऽसर्वगतो घटवदाहोतित्सर्वगतः सामान्यवदिति ? यद्यसर्वगतो घटवत्तदा तद्वदेवानित्योस्त्विति ब्रूते । सोयं सर्वगतत्वासर्वगतत्वधर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञांतरं अनित्यः शब्द इति प्रतिज्ञातोऽसर्वगतो अनित्यः शब्द इति प्रतिज्ञाया अन्यत्वात् । तदिदं निग्रहस्थानं साधनसामर्थ्यापरिज्ञानाद्वादिनः । न चोत्तरप्रतिज्ञा पूर्वप्रतिज्ञां साधयत्यतिप्रसंगात् इति परस्याकूतं ।।
अत्र धर्मकीर्तेः दूषणमुपदर्शयति;नात्रेदं युज्यते पूर्वप्रतिज्ञायाः प्रसाधने । प्रयुक्तायां परस्यास्तद्भावहानेन हेतुवत् ॥ १२९ ॥ तदसर्वगतत्वेन प्रयुक्तार्दैद्रियत्वतः । शब्दानित्यत्वमाहायमिति हेत्वंतरं भवेत् ॥ १३० ।। न प्रतिज्ञांतरं तस्य कचिदप्यप्रयोगतः । प्रज्ञावतां जडानां तु नाधिकारो विचारणे ॥१३१॥ विरुद्धादिप्रयोगस्तु प्राज्ञानामपि संभवात् । कुतश्चिद्विश्रमात्तत्रेत्याहुरन्ये तदप्यसत् ।।१३२॥ प्रतिज्ञातार्थसिद्ध्यर्थ प्रतिज्ञायाः समीक्षणात् । भ्रांतैः प्रयुज्यमानायाः विचारे सिद्धहेतुवत् १३३ प्राज्ञेति विभ्रमायाद्वादेऽसिद्धादिसाधनम् । स्वपक्षसिद्धिर्येन स्यात्सत्त्वमित्यतिदुर्घटम्॥१३४॥ ततो प्रतिपत्तिवत्प्रतिज्ञांतरं कस्यचित्साधनसामाप्रतिज्ञानात् प्रतिज्ञाहानिवत् ॥ तर्हि कथमिदमयुक्तमित्याह;ततोनेनैव मार्गेण प्रतिज्ञांतरसंभवः । इत्येतदेव निर्मुक्तिस्तद्धि नानानिमित्तकं ॥ १३५ ॥ प्रतिज्ञाहानितश्चास्य भेदः कथमुपेयते । पक्षत्यागाविशेषेपि योगैरिति च विस्मयः ॥१३६ ॥ प्रतिदृष्टांतधर्मस्य स्वदृष्टांतेभ्यनुज्ञया । यथा पक्षपरित्यागस्तथा संधांतरादपि ॥ १३७ ॥ खपक्षसिद्धये यद्वत्संधांतरमुदाहृतं । भ्रांत्या तद्वच्च शब्दोपि नित्योस्त्विति न किं पुनः॥१३८ शब्दानित्यत्वसिद्ध्यर्थं नित्यः शब्द इतीरणं । स्वस्थस्य वाहतं यद्वत्तथा सर्वगशब्दवाक्॥१३९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.