________________
२८६ तत्त्वार्थश्लोकवार्तिके
[तत्त्वार्था० ततः प्रतिज्ञाहानिरेव प्रतिज्ञांतरं निमित्तभेदात्त दैर्निग्रहस्थानांतराणां प्रसंगात् । तेषां तत्रांतर्भावे प्रतिज्ञांतरस्येति प्रतिज्ञानावर्तभावस्य निवारयितुमशक्तेः ॥ प्रतिज्ञाविरोधमनूद्य विचारयन्नाह;. प्रतिज्ञाया विरोधो यो हेतुना संप्रतीयते । स प्रतिज्ञाविरोधः स्यादित्येतच न युक्तिमत् १४०
प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोध इति सूत्रं । यत्र प्रतिज्ञा हेतुना विरुध्यते हेतुश्च प्रतिज्ञायाः स प्रतिज्ञाविरोधो नाम निग्रहस्थानं, यथा गुणव्यतिरिक्तं द्रव्यं भेदेनाग्रहणादिति न्यायवार्तिकं । तच्च न युक्तिमत् ॥ प्रतिज्ञायाः प्रतिज्ञात्वे हेतुना हि निराकृते । प्रतिज्ञाहानिरेवेयं प्रकारांतरतो भवेत् ॥१४१॥ द्रव्यं भिन्नं गुणात्स्वस्मादिति पक्षेभिभाषिते । रूपाद्यर्थीतरत्वेनानुपलब्धेरितीर्यते ॥ १४२ ॥ येन हेतुर्हतस्तेनासंदेहं भेदसंगरः । तदभेदस्य निर्णीतेस्तत्र तेनेति बुध्यताम् ॥ १४३ ॥ हेतोविरुद्धता वा स्यादोषोयं सर्वसंमतः । प्रतिज्ञादोषता त्वस्य नान्यथा व्यवतिष्ठते ॥१४४॥
यदपि उद्योतकरेणाभ्यधायि; 'एतेनैव प्रतिज्ञाविरोधोप्युक्तः, यत्र प्रतिज्ञा स्ववचनेन विरुध्यते यथा श्रवणा गर्भिणी नास्त्यात्मेति वाक्यांतरोपप्लवादिति' तदपि न युक्तमित्याह;
प्रतिज्ञा च स्वयं यत्र विरोधमधिगच्छति । नास्त्यात्मेत्यादिवत्तत्र प्रतिज्ञाविधिरेव नः॥१४५
तद्विरोधोद्भावनेन त्यागस्यावश्यं भावित्वात् । स्वयमत्यागान्नेयं प्रतिज्ञाहानिरिति चेत् न, तद्विरुद्धत्वप्रतिपत्तेरेव न्यायबलात्त्यागरूपत्वात् । यत्किचिदवदतोपि प्रतिज्ञाकृतिसिद्धेवदतोपि दोषत्वेनैव तत्त्यागस्य व्यवस्थितेः । यदपि तेनोक्तं हेतुविरोधोपि प्रतिज्ञाविरोध एव एतेनोक्तो यत्र हेतुः प्रतिज्ञया बाध्यते यथा सर्व पृथक् समूहे भावशब्दप्रयोगादिति, तदपि न साधीय इत्याह;
हेतुः प्रतिज्ञया यत्र बाध्यते हेतुदुष्टता । तत्र सिद्धान्यथा संधाविरोधोतिप्रसज्यते ॥ १४६ ॥ सर्व पृथक समुदायः भावशब्दप्रयोगतः । इत्यत्र सिद्धया भेदसंधया यदि बाध्यते॥१४७॥ हेतुस्तत्र प्रसिद्धन हेतुना सापि बाध्यतां । प्रतिज्ञावत्परस्यापि हेतुसिद्धेरभेदतः ॥ १४८ ॥ भावशब्दः समूहं हि यस्यैकं वक्ति वास्तवं । तस्य सर्व पृथक्तत्त्वमिति संधाधिहन्यते ॥१४९॥ विरुद्धसाधनाद्वायं विरुद्धो हेतुरागतः । समूहावास्तवे हेतुदोषो नैकोपि पूर्वकः ॥ १५० ॥ सर्वथा भेदिनो नानार्थेषु शब्दप्रयोगतः । प्रकल्पितसमूहेष्वित्येवं हेत्वर्थनिश्चयात् ॥१५१॥ तथा सति विरोधोयं तद्धेतोः संधया स्थितः । संधाहानिस्तु सिद्धेयं हेतुना तत्प्रवाधनात्१५२
यदप्यभिहितं तेन, एतेन प्रतिज्ञाया दृष्टांतविरोधो वक्तव्यो हेतोश्च दृष्टांतादिभिर्विरोधः प्रमाणविरोधश्च प्रतिज्ञाहेतोर्यथा वक्तव्यः इति, तदपि न परीक्षाक्षममित्याह;
दृष्टांतस्य च यो नाम विरोधः संधयोदितः । साधनस्य च दृष्टांतप्रमुखैर्मानबोधनम् ॥१५३॥ प्रतिज्ञादिषु तस्यापि न प्रतिज्ञाविरोधता । सूत्रारूढतयोक्तस्य भांडालेख्यनयोक्तिवत् ॥१५४॥ प्रतिज्ञानेन दृष्टांतबाधने सति गम्यते । तत्प्रतिज्ञाविरोधः स्याद्विस्तत्त्वादिति चेन्मतम् ॥१५५।। हंत हेतुविरोधोपि किं नैषोभीष्ट एव ते । दृष्टांतादिविरोधोपि हेतुरेतेन वर्णितः ॥ १५६ ॥ निग्रहस्थानसंख्यानविघातकृदयं ततः । यथोक्तनिग्रहस्थानेष्वंतर्भावाविरोधतः ॥ १५७ ॥ प्रत्यक्षादिप्रमाणेन प्रतिज्ञाबाधनं पुनः । प्रतिज्ञाहानिरायाता प्रकारांतरतः स्फुटम् ॥ १५८ ॥ निदर्शनादिबाधा च निग्रहांतरमेव ते । प्रतिज्ञानश्रुतेस्तत्राभावात्तद्वाधनात्ययात् ॥ १५९ ॥ यदप्यवादि तेन परपक्षसिद्धेन गोत्वादिनानकांतिकचोदनाविरुद्धेति यः परपक्षसिद्धेन गोत्वादिना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org