________________
२८७
प्रथमोऽध्यायः । व्यभिचारयति तद्विरुद्धमुत्तरं वेदितव्यम् । अनित्यः शब्दः ऐंद्रियकत्वात् घटवदिति केनचिबौद्धं प्रत्युक्तं, नैयायिकप्रसिद्धेन गोत्वादिना सामान्येन हेतोरनैकांतिकत्वचोदना हि विरुद्धमुत्तरं सौगतस्यानिष्टसिद्धेरिति । तदपि न विचाराहमित्याह;
मोक्षादिना स्वसिद्धेन यानैकांतिकचोदना । परपक्षविरुद्धं स्यादुत्तरं तदिहेत्यपि ॥ १६० ॥ न प्रतिज्ञाविरोधेतर्भावमेति कथंचन । स्वयं तु साविते सम्यग्गोत्वादौ दोष एव सः॥१६॥ निराकृतौ परेणास्थानकांतिकसमानता । हेतोरेव भवेत्तावत् संधादोषस्तु नेष्यते ॥ १६२ ॥
यदप्यमाणि तेन, स्वपक्षानपेक्षं च तथा यः खखपक्षानपेक्षं हेतुं प्रयुक्त अनित्यः शब्द ऐंद्रियकत्वादिति स खसिद्धस्य गोत्वादेरनित्यत्वविरोधाद्विरुद्ध इति । तदप्यपेशलमित्याह;
हेतावैद्रियकत्वे तु निजपक्षानपेक्षिणि । स प्रसिद्धस्य गोत्वादेरिति तत्त्वविरोधतः ॥ १६३॥ स्थाद्विरोध इतीदं च तद्वदेव न भिद्यते । अनैकांतिकतादोषात्तदभावाविशेषतः ॥ १६४ ॥ वादीतरप्रतानेन गोत्वेन व्यभिचारता । हेतोर्यथा चैकतरसिद्धनासाधनेन किम् ॥१६५॥ प्रमाणेनाप्रसिद्धौ तु तस्य सैव तदा भवत् । सर्वेषामपि तेनायं विभागो जडकल्पितः॥१६६॥
सोयमुद्योतकरः खयमुभयपक्षसंप्रतिपन्नस्त्वनैकांतिक इति प्रतिपद्यमानो वादिनः प्रतिवादिन एव प्रमाणतः सिद्धेन गोत्वादिनानैकांतिकचोदनेन हेतोविरुद्धमुत्तरं ब्रुवाणमतिक्रमेण कथं न्यायवादी ? अप्रमाणसिद्धेन तु सर्वेषां तच्चोदनं दोषाभास एवेति तद्विभागं कुर्वन् जडत्वमात्मनो निवेदयति । अत्र प्रतिज्ञावचनादेवासाधनांगवचनेन वादिनिगृहीते प्रतिज्ञाविरुद्धस्यानिग्रहत्वमेवेति धर्मकीर्तिनोक्तं दूषणमसंगतं गम्यमानः प्राह;
प्रतिज्ञावचनेनैव निगृहीतस्य वादिनः । न प्रतिज्ञाविरोधस्य निग्रहत्वमितीतरे ॥ १६७ ॥ तेषामनेकदोषस्य साधनस्याभिभाषणे । परेणैकस्य दोषस्य कथनं निग्रहो यथा ॥ १६८॥ तथान्यस्यात्र तेनैव कथनं तस्य निग्रहः । किं नेष्टो वादिनोरेवं युगपन्निग्रहस्तव ॥ १६९ ॥ साधनावयवस्यापि कस्यचिद्वचने सकृत् । जयोस्तु वादिनोन्यस्यावचने च पराजयः ॥१७०॥ प्रतिपक्षाविनाभाविदोषस्योद्भावने यदि । वादिनि न्यत्कृतेन्यस्य कथं नास्य विनिग्रहः॥१७१ तदा साध्याविनाभावि साधनावयवेरणे । तस्यैव शक्त्युभयाकारेन्यस्यवाक् च पराजयः १७२ विरुद्धोद्भावनं हेतोः प्रतिपक्षप्रसाधनं । यथा तथा विनाभाविहेतूक्तिः स्वार्थसाधना॥१७३॥ साधनावयवोनेकः प्रयोक्तव्यो यथापरः । तथा दोषोपि किं न स्यादुद्भाव्यस्तत्र तत्त्वतः१७४ तस्मात्प्रयुज्यमानस्य गम्यमानस्य वा स्वयं । संगरस्य व्यवस्थानकथाविच्छेदमात्रकृत् ॥१७५॥ संगरः प्रतिज्ञातस्य वादिना युज्यमानस्य पक्षधर्मोपसंहारवचनसामर्थ्याद्गम्यमानस्य वा यदव्यवस्थानं खदृष्टांते प्रतिदृष्टांतधर्मानुज्ञानात् प्रतिज्ञातार्थप्रतिषेधेन धर्मविकल्पात् तदर्थनिर्देशाद्वा प्रतिज्ञाहेत्वोविरोधात् प्रतिज्ञाविरोधाद्वा प्रतिवादिनापद्येत तत्कथाविच्छेदमानं करोति न पुनः पराजयं वादिनः खपक्षस्य प्रतिवादिनावश्यं साधनीयत्वादिति न्यायं बुद्ध्यामहे । प्रतिज्ञावचनं तु कथाविच्छेदमात्रमपि न प्रयोजयति तस्यासाधनांगत्वाव्यवस्थितेः पक्षधर्मोपसंहारवचनादित्युक्तं प्राक् । केवलं खदर्शनानुरागमात्रेण प्रतिज्ञावचनस्य निग्रहत्वेनोद्भावनेपि सौगतैः प्रतिज्ञाविरोधादिदोषोद्भावनं नावसरमनुमंतव्यं, अमेकसाधनवचनवदनेकदूषणवचनस्यापि विरोधाभावात् सर्वथा विशेषाभावादिति विचारितमस्माभिः ॥
संप्रति प्रतिज्ञासंन्यासं विचारयितुमुपक्रममाह;प्रतिज्ञार्थापनयनं पक्षस्य प्रतिषेधने । न प्रतिज्ञानसंन्यासः प्रतिज्ञाहानितः पृथक् ॥ १७६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org