________________
२८८ तत्त्वार्थश्लोकवार्तिके
[तत्त्वार्था० ___ ननु पक्षप्रतिषेधे 'प्रतिज्ञानार्थापनयनं प्रतिज्ञासंन्यासः' इति सूत्रकारवचनात् यः प्रतिज्ञातमर्थ पक्षप्रतिषेधे कृते परित्यज्यति स प्रतिज्ञासंन्यासो वेदितव्यः उदाहरणं पूर्ववत् । सामान्येनैकांतिकत्वाद्धेतोः कृते ब्रूयादेक एव महान्नित्य शब्द इति । एतत्साधनस्य सामर्थ्यापरिच्छेदाद्विप्रतिपत्तितो निग्रहस्थानमित्युद्योतकरवचनाच्च प्रतिज्ञासंन्यासस्तस्य प्रतिज्ञाहानेर्भेद एवेति मन्यमानं प्रत्याह;
एक एव महान्नित्योयं शब्दः इत्यनीयत । प्रतिज्ञार्थः किलानेन पूर्ववत्पक्षदूषणे ॥ १७७॥ । हेतोरैंद्रियकत्वस्य व्यभिचारप्रदर्शनात् । तथा चापनयो हानिः संधाया इति नार्थभित्।।१७८ प्रतिज्ञाहानिरेवैतैः प्रकारैर्यदि कथ्यते । प्रकारांतरतोपीयं तदा किं न प्रकथ्यते ॥ १७९ ॥ तन्निमित्तप्रकाराणां नियमाभावतः क नु । यथोक्ता नियतिस्तेषां नसोपचं वचस्ततः॥१८०॥ पक्षस्य प्रतिषेधे हि तूष्णींभावो धरेक्षणं । व्योमेक्षणं दिगालोकः खात्कृतं चपलायितम् १८१ हस्तास्फालनमाकंपः प्रस्वेदाद्यप्यनेकधा । निग्रहांतरमस्यास्तु तत्प्रतिज्ञांतरादिवत् ॥ १८२ ॥ हेत्वंतरं विचारयन्नाह;अविशेषोदिते हेतौ प्रतिषिद्धे प्रवादिना । विशेषमिच्छतः प्रोक्तं हेत्वंतरमपीह यत् ॥१८३॥ तदेवमेव संभाव्यं नान्यथेति न निश्चयः । परस्मिन्नपि हेतौ स्यादुक्ते हेत्वंतरं यथा ॥१८४॥ यथा च प्रकृते हेतौ दोषवत्यपि दर्शिते । परस्य वचनं हेतोर्हेत्वंतरमुदाहृतम् ॥ १८५ ॥ तथा निदर्शनादौ च दृष्टांताद्यंतरं न किम् । निग्रहस्थानमास्थेयं व्यवस्थाप्यातिनिश्चितम् १८६ यदि हेत्वंतरेणैव निगृहीतस्य वादिनः । दृष्टांताद्यंतरं तत्स्यात्कथायां विनिवर्तनात् ॥१८७॥ तदानैकांतिकत्वादिहेतुदोषेण निर्जिते । मा भूद्धत्वंतरं तस्य तत एवाविशेषतः ॥ १८८ ॥ यथा चोद्भाविते दोषे हेतोर्यद्वा विशेषणं । ब्रूयात्कश्चित्तथा दृष्टांतादेरपि जिगीषया ॥१८९।।
अविशेषोक्तौ हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वंतरमिति सूत्रकारवचनात् द्वित्वत्वं निग्रहस्थानं साधनांतरोपादाने पूर्वस्यासामर्थ्यख्यापनात् । सामर्थ्य वा पूर्वस्य हेत्वंतरं व्यर्थमित्युद्योतकरो व्याचक्षाणो गतानुगतिकतामात्मसात्कुरुते प्रकारांतरेणापि हेत्वंतरवचनदर्शनात् । तथा अविशेषोक्ते दृष्टांतोपनयननिगमने प्रतिसिद्धे विशेषमिच्छतो दृष्टांताद्यंतरोपादाने पूर्वस्यासामर्थ्यख्यापनात् । सामर्थ्य वा पूर्वस्य प्रतिदृष्टांतायंतरं व्यर्थमिति वक्तुमशक्यत्वात् । अत्राक्षेपसमाधानानां समानत्वात् यदप्यप्रादेशिप्रकृतादादप्रतिसंबंधत्वार्थमर्थातरमभ्युपगमार्थासंगतत्वान्निग्रहस्थानमिति तदपि विचारयति;प्रतिसंबंधशून्यानामर्थानामभिभाषणम् । यत्पुनः प्रकृतादर्थादर्थांतरसमाश्रितम् ॥ १९० ॥ कचित्किंचिदपि न्यस्य हेतुं तच्छब्दसाधने । पदादिव्याकृतिं कुर्याद्यथानेकप्रकारतः॥१९१॥ तत्रापि साधनेनुक्ते प्रोक्तांतरवाक् कथम् । निग्रहो दूषणे वापि लोकनाद्विनियम्यते॥१९२॥ असमर्थे तु तन्न स्यात्कस्यचित्पक्षसाधने । निग्रहार्थातरं वादे नान्यथेति विनिश्चयः॥१९३॥ निरर्थकं विचारयितुमारभते;वर्णक्रमस्य निर्देशो यथा तद्वनिरर्थकं । (कथं)यथा जबझभेत्यादेः प्रत्याहारस्य कुत्रचित् १९४ यदुक्तं वर्णक्रमो निर्देशवन्निरर्थकं । तद्यथा-नित्यः शब्दो जबगडदस्त्वाज्झभघढधवदिति ॥ तत्सर्वथार्थशून्यत्वात् किं साध्य उपयोगतः । किं वानादिविकल्पोत्रासंभवादेव तादृशः १९५ वर्णक्रमादिशब्दस्याप्यर्थवत्त्वात्कथंचन । तद्विचारे कचिच्चमत्कार्येणार्थेन योगतः ॥ १९६॥ द्वितीयकल्पनायां तु सर्वमेव निरर्थकम् । निग्रहस्थानमुक्तं स्यात्सिद्धवन्नोपयोगिवत् ॥१९७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org