________________
प्रथमोऽध्यायः ।
૮૨
तस्मान्नेदं पृथग्युक्तं कक्षादिहितकादिवत् । कथाविच्छेदमात्रं तु भवेत्पक्षांतरोक्तिवत् ॥ १९८ ॥ तथाहि — ब्रुवन्न साध्यं न साधनं जानीते असाध्यसाधनं चोपादत्ते इति निगृह्यते खपक्षं साधयतान्येन नान्यथा, न्यायविरोधात् । यदप्युक्तं, “परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थं भाष्ये चोदनाहृतमसामर्थ्यं च व्यापनान्निग्रहस्थानं ससामर्थ्य चाज्ञानमिति, तदिह विचार्यते;परिषत्प्रतिवादिभ्यां त्रिरुक्तमपि वादिना । अविज्ञातमविज्ञातार्थ तदुक्तं जडात्मभिः ॥ १९९ ॥ यदा मंदमती तावत्परिषत्प्रतिवादिनौ । तदा सत्यगिरोपेते निग्रहस्थानमापयेत् ॥ २०० ॥ यदा तु तौ महाप्राज्ञौ तदा गूढाभिधानतः । द्रुतोच्चारादितो वा स्यात्तयोरनवबोधनम् ॥ २०१ प्राग्विकल्पे कथं युक्तं तस्य निग्रहणं सताम् । यत्र वाक्यप्रयोगेपि वक्तुस्तदनुषंगतः ॥ २०२ ॥ यत्र वाक्यं स्वयं वादी व्याचष्टेन्यैरनिश्चितम् । यथा तथैव व्याचष्टं गूढोपन्यासमात्मनः २०३ अध्याख्याने तु तस्यास्तु जयाभावो न निग्रहः । परस्य पक्षसंसिद्ध्यभावादेतावता ध्रुवम् २०४ द्रुतोच्चारादितस्त्वेताः कथंचिवगच्छतः । सिद्धांतद्वयतत्त्वज्ञैस्ततो नाज्ञानसंभवः ।। २०५ ।। वक्तुः प्रलापमात्रे तु तयोरनवबोधनम् । नाविज्ञातार्थमेतत्स्याद्वर्णानुक्तमवादवत् ॥ २०६ ॥ ततो नेदमविज्ञातार्थ निरर्थकाद्भिद्यते नाप्यपार्थकमित्याह ; -
प्रतिसंबंधहीनानां शब्दानामभिभाषणं । पौर्वापर्येण योगस्य तत्राभावादपार्थकम् ॥ २०७ ॥ दाडिमानि दशेत्यादिशब्दवत्परिकीर्तनम् । ते निरर्थकतो भिन्नं न युक्त्या व्यवतिष्ठते ॥ २०८ नैरर्थक्यं हि वर्णानां यथा तद्वत्पदातिषु । नाभिद्येतान्यथा वाक्यं नैरर्थक्यं ततोपरम् ॥ २०९ न हि परस्परसंगतानि पदान्येव न पुनर्वाक्यानीति शक्यं वक्तुं तेषामपि पौर्वापर्येणापि युज्यमानानां बहुलमुपलंभात् । “शंखः कदल्यां कदली च भेर्यौ तस्यां च भेर्यां सुमहद्विमानं । तच्छंखभेरी कदली विमानमुन्मत्तगंगप्रतिमं बभूव ||" इत्यादिवत् । यदि पुनः पदनैरर्थक्यमेव वाक्यनैरर्थक्यं पदसमुदायत्वाद्वाक्यस्येति मतिस्तदा वर्णनैरर्थक्यमेव पदनैरर्थक्यमस्तु वर्णसमुदायत्वात्पदस्येति मन्यतां, वर्णानां सर्वत्र निरर्थकत्वात्पदस्य निरर्थकत्वप्रसंग इति चेत्, पदस्यापि निरर्थकत्वात्तत्समुदायात्मनो वाक्यस्यापि निरर्थकस्वानुषंगः । पदार्थापेक्षया सार्थकं पदमिति चेत्, वर्णार्थापेक्षया वर्णः सार्थकोस्तु । प्रकृतिप्रत्ययादिवर्णवत् न प्रकृतिः केवला पदं प्रत्ययो वा नापि तयोरर्थकत्वमभिव्यक्तार्थाभावादनर्थकत्वे पदस्याप्यनर्थकत्वं । यथैव हि प्रकृत्यर्थः प्रत्ययेनाभिभिद्यते प्रत्ययार्थः स्वप्रकृत्या तयोः केवलयोरप्रयोगार्हत्वात् । तथा देवदत्तस्तिष्ठतीत्यादिप्रयोगेषु सुवंतपदार्थस्य तिङतपदेनाभिव्यक्तेः तिङतपदार्थस्य च सुबंतपदेनाभिव्यक्तेः केवलस्याप्रयोगार्हत्वादभिव्यक्तार्थाभावो विभाव्यत एव । पदांतरापेक्षत्वे सार्थकत्वमेवेति तत्प्रकृत्यपेक्षस्य प्रत्ययस्य तदपेक्षस्य च प्रकृत्यादिवत्स्वस्य सार्थकत्वं साधयत्येव सर्वथा विशेषाभावात् । ततो वर्णानां पदानां च संगतार्थानां निरर्थकत्वमिच्छता वाक्यानामप्यसंगतार्थानां निरर्थकत्वमेषितव्यं । तस्य ततः पृथक्त्वेन निगृह्णन् स्थानत्वानिष्टौ वर्णपदनिरर्थकत्वयोरपि तथा निग्रहाधिकरणत्वं मा भूत् । यदप्युक्तं, अवयवविपर्यासं बंधनमप्राप्तकालं अवयवानां प्रतिज्ञादीनां विपर्ययेणाभिधानं निग्रहस्थानमिति । तदपि न सुघढमित्याह
संधाद्यवयवान्यायाद्विपर्यासेन भाषणम् । अप्राप्तकालमाख्यातं तच्चायुक्तं मनीषिणाम् ।। २१० पदानां क्रमनियमं विनार्थाव्यवसायतः । देवदत्तादिवाक्येषु शास्त्रेप्येवं विनिर्णयात् ॥ २११ ॥ यथापशब्दतः शब्दप्रत्ययादर्थनिश्चयः । शब्दादेव तथा स्वादिव्युत्क्रमान्न क्रमस्य वित् २१२
३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org