________________
२९० तत्त्वार्थश्लोकवार्तिके
[तत्त्वार्था० ततो वाक्यार्थनिर्णीतिः पारंपर्येण जायते । विपर्यासात्तु नैवेति केचिदाहुस्तदप्यसत् ॥२१३॥ व्युत्क्रमादर्थनिर्णीतिरपशब्दादिवेत्यपि । वक्तुं शक्तस्तथा दृष्टेः सर्वथाप्यविशेषतः ॥ २१४॥ शब्दाव्याख्यानवैयर्थ्यमेवं चेत्तत्त्ववादिनाम् । नापशब्देष्वपि प्रायो व्याख्यानस्योपलक्षणात्२१५ तथा च संस्कृताच्छब्दात्सत्याद्धर्मस्तथान्यतः। स्यादसत्यं यदा धर्मः क नियमः पुण्यपापयोः२१६ वृद्धिप्रसिद्धितस्त्वेष व्यवहारः प्रवर्तते । संस्कृतैरिति सर्वापि शब्दैभाषाखनैरिव ॥ २१७ ॥ । ततोर्थानिश्चयो येन पदेन क्रमशः स्थितः । तद्यतिक्रमणाद्दोषो नैरर्थक्यं न चापरम् ॥२१८॥
एतेनैतदपि प्रत्याख्यातं । यदाहोद्योतकरः, यथा गौरित्यस्य पदस्यार्थे गौणीति प्रयुज्यमानं पदं न वक्रादिमंतमर्थ प्रतिपादयतीति न शब्दायाख्यानं व्यर्थ अनेनापशब्देनासौ गोशब्दमेव प्रतिपद्यते गोशब्दाच्चक्रादिमंतमर्थ तथा प्रतिज्ञाद्यवयवाविपर्ययेणानुपूर्व प्रतिपद्यते तथानुपूर्व्यार्थमिति । पूर्व हि तावत्कर्मोपादीयते लोके ततोधिकरणादि मृत्पिडचक्रादिवत् । तथा नैवायं समयोपि त्वर्थस्यानुपूर्वी । सोयमानुपूर्वीमन्वाचक्षाणो नाम व्याख्येयात् कस्यायं समय इति । तथा शास्त्रे वाक्यार्थसंग्रहार्थमुपादीयते संगृहीतं त्वर्थ वाक्येन प्रतिपादयिता प्रयोगकाले प्रतिज्ञादिकयानुपूर्व्या प्रतिपादयतीति सर्वथानुपूर्वीप्रतिपादनभावादेवाप्राप्तकालस्य निग्रहस्थानत्वसमर्थनादन्यथा परचोद्यस्यैवमपि सिद्धेः । समवायानभ्युपगमाद्बहुप्रयोगाच्च नैवावयवविपर्यासवचनं निग्रहस्थानमित्येतस्य परिहर्तुमशक्तेः । सर्वार्थानुपूर्वी प्रतिपादनाभावोऽवयवविपर्यासवचनस्य निरर्थकत्वान्न्याय्यः । ततो नेदं निग्रहस्थानांतरं यथोक्तं हीनमन्यतमेनाप्यवयवेन न्यूनं । यस्मिन् वाक्ये प्रतिज्ञादीनामन्यतमावयवो न भवति तद्वाक्यं हीनं वेदितव्यं । तच्च निग्रहस्थानसाधनाभावे साध्यसिद्धेरभावात् प्रतिज्ञादीनां पंचानामपि साधनत्वात् प्रतिज्ञान्यून नास्तीत्येके । तेत्र पर्यनुयोज्याः, प्रतिज्ञान्यूनं वाक्यं यो ब्रूते स किं निगृह्यते ? अथ नेति यदि निगृह्यते कथमनिग्रहस्थानं ? न हि तत्र हेत्वादयो न संति न च हेत्वादिदोषाः संतीति निग्रहं चाभ्युपैति । तस्मात्प्रतिज्ञान्यूनमेवेति । अथ न निग्रहः न्यूनं वाक्यमर्थ साधयतीति साधनाभावे सिद्धिरभ्युपगता भवति । यच्च ब्रवीषि सिद्धांतपरिग्रह एव प्रतिज्ञेति, तदपि न बुद्ध्यामहे । कर्मण उपादानं हि प्रतिज्ञासामान्यं विशेषतोवधारितस्य वस्तुनः परिग्रहः सिद्धांत इति कथमनयोरैक्यं, यतः प्रतिज्ञा. साधनविषयतया साधनांगं तत्स्यादित्युद्योतकरस्याकूतं, तदेतदपि न समीचीनमिति दर्शयति
हीनमन्यतमेनापि वाक्यं स्वावयवेन यत् । तन्यूनमित्यसत्स्वार्थे प्रतीतेस्तादृशादपि ॥२१९ ॥
यावदवयवं वाक्यं साध्यं साधयति तावदवयवमेव साधनं न च पंचावयवमेव साध्यं साधयति क्वचित्प्रतिज्ञामंतरेणापि साधनवाक्यस्योत्पत्तेर्गम्यमानस्य कर्मणः साधनात् । तथोदाहरणहीनमपि साधनवाक्यमुपपन्नं साधर्म्यवैधर्योदाहरणविरहेपि हेतोर्गमकत्वसमर्थनात् । तत एवोपनयनिगमनहीनमपि वाक्यं च साधनं प्रतिज्ञाहीनवत् विदुषः प्रति हेतोरेव केवलस्य प्रयोगाभ्युपगमात् । धूमोत्र दृश्यते इत्युक्तेपि कस्यचिदग्निप्रतिपत्तेः प्रवृत्तिदर्शनात् सामर्थ्याद्गम्यमानास्तत्र प्रतिज्ञादयोपि संतीति चेत् , तर्हि प्रयुज्यमाना न संतीति तैविनापि साध्यसिद्धेः न तेषां वचनं साधनं साध्याविनाभाविसाधनमंतरेण साध्यसिद्धेरसंभवात् । तद्वचनमेव साधनमतस्तन्न्यूनं न निग्रहस्थानं परस्य खपक्षसिद्धौ सत्यामित्येतदेव श्रेयः प्रतिपद्यामहे । प्रतिज्ञादिवचनं तु प्रतिपाद्याशयानुरोधेन प्रयुज्यमानं न निवार्यते ततं एवासिद्धो हेतुरित्यादिप्रतिज्ञावचनं हेतुदूषणोद्भावनकाले कस्यचिन्न विरुध्यते तदवचननियमानभ्युपगमात् । तर्हि यथाविधान्यूनादर्थस्यापि सिद्धिस्तथाविधं तन्निग्रहस्थानमित्यपि न घटत इत्याह;__यथाचार्याप्रतीतिः स्यात्तनिरर्थकमेव ते । निग्रहांतरतोक्तिस्तु तत्र श्रद्धानुसारिणाम् ॥२२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org