________________
प्रथमोऽध्यायः ।
२९१
यथोक्तं, हेतूदाहरणादिकमधिकं यस्मिन् वाक्ये द्वौ हेतू द्वौ वा दृष्टांतौ तद्वाक्यमधिकं निग्रहस्थानं आधिक्यादिति तदपि न्यूनेन व्याख्यातमित्याह ;
तूदाहरणाभ्यां यद्वाक्यं स्यादधिकं परैः । प्रोक्तं तदधिकं नाम तच्च न्यूनेन वर्णितम् ॥ २२१ तच्च पर्यवसानायां कथायां तत्त्वनिर्णयः । यदा स्यादधिकादेव तदा का नाम दुष्टता ॥ २२२ स्वार्थ केधिके सर्व नास्ति वाक्याभिभाषणे । तत्प्रसंगात्ततोर्थस्यानिश्चयात्तन्निरर्थकम् २२३ सोयमुद्योतकरः, साध्यस्यैकेन ज्ञापितत्वाद्यर्थमभिधानं द्वितीयस्य, प्रकाशिते प्रदीपांतरोपादानवदनवस्थानं वा, प्रकाशितेपि साधनांतरोपादाने परापरसाधनांतरोपादानप्रसंगादिति ब्रुवाणः प्रमाणसंप्लवं समर्थयत इति कथं स्वस्थः ? कस्यचिदर्थस्यैकेन प्रमाणेन निश्चयेपि प्रमाणांतरविषयत्वेपि न दोषो दादितिचेत्, किमिदं दा नाम : सुतरां प्रतिपत्तिरितिचेत् किमुक्तं भवति, सुतरामिति सिद्धेः । प्रतिपत्तिर्द्धाभ्यां प्रमाणाभ्यामितिचेत्, तद्येन प्रमाणेन निश्चितेर्थे द्वितीयं प्रमाणं प्रकाशितप्रकाशनवद्व्यर्थमनवस्थानं वा निश्चितेपि परापरप्रमाणान्वेषणात् । इति कथं प्रमाणसंप्लवः ? यदि पुनर्बहूपाय - प्रत्तिपत्तिः कथं दार्व्यमेकत्र भूयसां प्रमाणानां प्रवृत्तौ संवादसिद्धिश्चेति मतिस्तदा हेतुना दृष्टांतेन वा केनचिदज्ञापितेर्थे द्वितीयस्य हेतोर्दृष्टांतस्य वा वचनं कथमनर्थकं तस्य तथाविधदाढत्वात् । न चैवमनवस्था, कस्यचित्क्वचिन्निराकांक्षतोपपत्तेः प्रमाणांतरवत् । कथं कृतकत्वादिति हेतुः कचिद्वदतः स्वार्थिकस्य कप्रत्ययस्य वचनं यत्कृतकं तदनित्यं दृष्टमिति व्याप्तिं प्रदर्शयते यत्तद्वचनमधिकं नाम निग्रहस्थानं न स्यात् तेन विनापि तदर्थप्रतिपत्तेः । सर्वत्र वृत्तिपदप्रयोगादेव चार्थप्रतिपत्तौ संभाव्यमानायां वाक्यस्य वचनमर्थं पुष्णाति येनाधिकं न स्यात् । तथाविधवचनस्यापि प्रतिपत्त्युपायत्वात्तन्नि ग्रहस्थानमिति चेत्, कथमनेकस्य हेतोर्दृष्टांतस्य वा प्रतिपत्त्युपायभूतस्य वचनं निग्रहाधिकरणं : निरर्थकस्य तु वचनं निरर्थकमेव निग्रहस्थानं न्यूनवन्न पुनस्ततोन्यत् ॥
पुनरुक्तं निग्रहस्थानं विचारयितुकाम आह; -
पुनर्वचनमर्थस्य शब्दस्य च निवेदितम् । पुनरुक्तं विचारेन्यत्रानुवादात्परीक्षकैः ॥ २२४ ॥ तत्रायमेव मन्यंते पुनरुक्तं वचोर्थतः । शब्दसाम्येपि भेदस्यासंभवादित्युदाहृतम् ॥ २२५ ।। हसत हसत स्वामित्युचैरुदत्यति रोदिति कृतपरिकरं स्वेदोद्गारि प्रधावति धावति । गुणसमुदितं दोषापेतं प्रणिदति निंदति धनवति परिक्रीतं यंत्रं प्रनृत्यति नृत्यति ॥ २२६ ॥ सत्यप्रत्यायनं यावत्तावद्वाच्यमतो बुधैः । स्वेष्टार्थवाचिभिः शब्दैस्तैश्चान्यैर्वा निराकुलम् २२७ तदप्रत्याय शब्दस्य वचनं तु निरर्थकम् । सकृदुक्तं पुनर्वेति तात्त्विकः संप्रचक्षते ॥ २२८ ॥ सकृद्वा पुनर्वादोनुवादोर्थविशेषतः । पुनरुक्तं यथा नेष्टं कचित्तद्वदिहापि तत् ।। २२९ ।। अर्थादापद्यमानस्य यच्छब्देन पुनर्वचः । पुनरुक्तं मतं यस्य तस्य स्वेष्टोक्तिबाधनम् ॥ २३० ॥ योप्याह, शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् अर्थादापन्नस्य खशब्देन पुनर्वचनं पुनरुक्तमिति च तस्य प्रतिपन्नार्थप्रतिपादकत्वेन वैयर्थ्यान्निग्रहस्थानमिति मतं न पुनरन्यथा । तथा च निरर्थकान्न विशिष्यते, खवचनविरोधश्च । खयमुद्देशलक्षण परीक्षावचनानां पुनरुक्तानां प्रायेणाभ्युपगमादर्थागम्यमानस्य प्रतिज्ञादेर्वचनाच्च । यदप्युक्तं, विज्ञातस्य परिषदा त्रिभिरभिहितस्याप्रत्युच्चारणमननुभाषणं निग्रहस्थानमिति तदनूद्य विचारयन्नाह ; -
निर्वादिनोदितस्यापि विज्ञातस्यापि संसदा । अप्रत्युच्चारणं प्राह परस्याननुभाषणम् ॥२३१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org