________________
२९२
[ तत्त्वार्था०
तदेतदुत्तरविषयापरिज्ञाननिग्रहस्थानमप्रत्युच्चारयतो दूषणवचनविरोधात् । तत्रेदं विचार्यते, किं सर्वस्य वादिनोक्तस्याननुच्चारणं किं वा यन्नांतरीयका साध्यसिद्धिरभिमता तस्य साधनवाक्यस्याननुचारणमिति ? ॥
तत्त्वार्थश्लोकवार्तिके
यन्नांतरीयका सिद्धिः साध्यस्य तदभाषणं । परस्य कथ्यते कैश्चित् सर्वथाननुभाषणं ॥ २३२ ॥ प्रागुपन्यस्य निःशेषं परोपन्यस्तमंजसा । प्रत्येकं दूषणावाच्ये पुनरुच्चार्यते यदि ।। २३३ ॥ तदेव स्यात्तदा तस्य पुनरुक्तमसंशयम् । नोच्चार्यते यदा त्वेतत्तदा दोषः क गद्यते ॥ २३४ ॥ तस्माद्यद्दूष्यते यत्तत्कर्मत्वादि परोदितम् । तदुच्चारणमेवेष्टमन्योच्चारो निरर्थकः ॥ २३५ ॥ उक्तं दूषयतावश्यं दर्शनीयोत्र गोचरः । अन्यथा दुषणावृत्तेः सर्वोच्चारस्तु नेत्यपि ॥ २३६ ॥ कस्यचिद्वचनं नेष्टनिग्रहस्थानसाधनं । तस्याप्रतिभयैवोक्तैरुत्तराप्रतिपत्तितः ॥ २३७ ॥ तदेतद्धर्मकीर्तेर्मतमयुक्तमित्याह ; -
प्रत्युच्चारासमर्थत्वं कथ्यतेऽननुभाषणं । तस्मिन्नुच्चारितेप्यन्यपक्षविक्षिप्त्यवेदनम् || २३८ ॥ ख्याप्यते प्रतिभान्यस्येत्येतयोर्नैकतास्थितिः । साक्षात्संलक्ष्यते लोकैः कीर्तेरन्यत्र दुर्गतेः २३९ ततोऽननुभाषणं सर्वस्य दूषण विषयमात्रस्य वान्यदेवाप्रतिभायाः केवलं तन्निग्रहस्थानमयुक्तं, परोक्षमप्रत्युच्चारयतोपि दूषणवचनन्याय्यात् । तद्यथा – सर्व प्रतिक्षणविनश्वरं सत्त्वादिति केचिदुक्ते तदुक्ते प्रत्युच्चारयन्नेव परो विरुद्धत्वं हेतोरुद्भावयति, सर्वमनेकांतात्मकं सत्त्वात् । क्षणक्षयाद्यकांते सर्वथार्थक्रियाविरोधात् तत्त्वानुपपत्तेरिति समर्थयते च तावता परोपन्यस्तहेतोर्दूषणात् किं प्रत्युच्चारणेन । यथैवं दूषयितुमसमर्थः शास्त्रार्थज्ञानपरिणतिविशेषरहितत्वात् तदायमुत्तराप्रतिपत्तेरेव तिरस्क्रियते न पुनरप्रत्युच्चारणात् । सर्वस्य पक्षधर्मत्वादेर्वानुवादे पुनरुक्तत्वानिष्टेः प्रत्युच्चारणोपि तत्रोत्तरमप्रकाशयन् न हिन निगृह्यते स्वपक्षं साधयता, यतोऽप्रतिभैव निग्रहस्थानं न स्यात् । यदप्युक्तं, अविज्ञातं चाज्ञानमिति निग्रहस्थानं, तदपि न प्रतिविशिष्टमित्याह ;
-
अज्ञातं च किलाज्ञानं विज्ञातस्यापि संसदा । परस्य निग्रहस्थानं तत्समानं प्रतीयते ॥ २४० ॥ सर्वेषु हि प्रतिज्ञानहान्यादिषु न वादिनोः । अज्ञानादपरं किंचिनिग्रहस्थानमांजसम् ॥२४१ ॥ तेषामेतत्प्रभेदत्वे बहुनिग्रहणं न किम् । अर्थाज्ञानादिभेदानां बहु वात्रावधारणात् ॥ २४२ ॥ उत्तराप्रतिपत्तिरप्रतिभेत्यपि निग्रहस्थानमस्य नाज्ञानान्यदित्याह ;उत्तराप्रतिपत्तिर्या परैरप्रतिभासता । साप्येतेन प्रतिव्यूढा भेदेनाज्ञानतः स्फुटम् ॥ २४३ ॥ यदप्युक्तं, निग्रहप्राप्तस्यानिग्रहपर्यनुयोज्योपेक्षणं निग्रहस्थानमिति, तदपि न साधीय इत्याह ;यः पुनर्निग्रहप्राप्तेप्यनिग्रह उपेयते । कस्यचित्पर्यनुयोज्योपेक्षणं तदपि कृतम् ॥ २४४ ॥ स्वयं प्रतिभया हि चेत्तदंतर्भावनिर्णयः । सभ्यैरुद्भावनीयत्वात्तस्य भेदो महानहो ॥ २४५ ॥ वादेप्युद्भावयन्नैतन्न हि केनापि धार्यते । स्वं कौपीनं न कोपीह विवृणोतीति चाकुलम् २४६ उत्तराप्रतिपत्तिर्हि परस्योद्भावयन्स्वयं । साधनस्य सदोषत्वमाविर्भावयति ध्रुवम् ॥ २४७ ॥ संभवत्युत्तरं यत्र तत्र तस्यानुदीरणम् । युक्तं निग्रहणं नान्यथेति न्यायविदां मतम् ॥ २४८ ॥ निर्दोषसाधनोक्तौ तु तूष्णींभावाद्विनिग्रहः । प्रलापमात्र तो वेति पक्षसिद्धेः स आगतः २४९ यदप्यभ्यधायि, स्वपक्षदोषाभ्युपगमात्पक्षे दोषप्रसंगो मतानुज्ञा । यः परेण चोदितं दोषमनुद्धृत्य भवतोप्ययं दोष इति ब्रवीति सा मतानुज्ञास्य निग्रहस्थानमिति, तदप्यपरीक्षितमेवेति परीक्ष्यते-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org