________________
प्रथमोऽध्यायः।
२९३ खपक्षे दोषमुपयन् परपक्षे प्रसंजयन् । मतानुज्ञामवाप्नोति निगृहीतिं न युक्तितः ॥ २५० ॥ द्वयोरेवं सदोषत्वं तात्त्विकैः स्थाप्यते यतः । पक्षसिद्धिनिरोधस्य समानत्वेन निर्णयात्।।२५१ अनैकांतिकतैवैवं समुद्भाव्येति केचन । हेतोरवचने तच्च नोपपत्तिमदीक्ष्यते ॥ २५२ ॥ तथोत्तराप्रतीतिः स्यादित्यप्याग्रहमात्रकं । सर्वस्याज्ञानमात्रत्वापत्तेर्दोषस्य वादिनोः ॥२५३॥ संक्षेपतोन्यथा कायं नियमः सर्ववादिनाम् । हेत्वाभासोत्तरावित्ती कीर्तेः स्यातां यतः स्थितेः॥ ननु चाज्ञानमात्रेपि निग्रहेति प्रसज्यते । सर्वज्ञानस्य सर्वेषां सादृश्यानामसंभवात् ॥ २५५ ॥ सत्यमेतदभिप्रेतवस्तुसिद्धप्रयोगिनोः । ज्ञानस्य यदि नाभावो दोषोन्यस्यार्थसाधने ॥ २५६ ॥ सत्स्वपक्षप्रसिद्धैव निग्राह्योन्य इति स्थितम् । समासतोनवद्यत्वादन्यथा तदयोगतः ॥२५७॥ तस्करत्वं नरत्वादेरिति हेतुर्यदोच्यते । तदानैकांतिकत्वोक्तित्वमपीति न वार्यते ॥ २५८ ॥ वाचोयुक्तिप्रकाराणां लोके वैचित्र्यदर्शनात् । नोपालंभस्तथोक्तौ स्याद्विपक्षे हेतुदर्शनम् ॥२५९ दोपहेतुमभिगम्य स्वपक्षे परपक्षताम् । दोषमुद्भाव्य पश्चात्त्वे स्वपक्षं साधयेजयी ॥२६० ॥ यदप्यभिहितमनिग्रहस्थाने निग्रहस्थानानुयोगोनिरनुयोज्यानुयोगो निग्रहस्थानमिति तदप्यसदित्याह;यदा त्वनिग्रहस्थाने निग्रहस्थानमुच्यते । तदा निरनुयोज्यानुयोगाख्यो निग्रहो मतः॥२६॥ सोप्यप्रतिभयोक्तः स्यादेवमुत्तरविकृतेः । तत्प्रकारपृथग्भावे किमेतैः स्वल्पभाषितैः॥२६२॥
यथोक्तं कार्यव्यासंगात्कथाविच्छेदो विक्षेपः यत्र कर्तव्यं व्यासज्यकथां विच्छिनत्ति प्रतिस्थाय कला. मेकां क्षणोति पश्चात्कथयिष्यामीति स विक्षेपो नाम निग्रहस्थानं तथा तेनाज्ञानस्याविष्करणादिति तदपि न सदित्याह;
सभां प्राप्तस्य तस्य स्यात्कार्यव्यासंगतः कथा । विच्छेदस्तस्य निर्दिष्टो विक्षेपो नाम निग्रहः२६३ सोपि नाप्रतिभातोस्ति भिन्नः कश्चन पूर्ववत् । तदेवं भेदतः सूत्रं नाक्षपादस्य कीर्तिकृत्२६४ यदप्युक्तं, सिद्धांतमभ्युपेत्य नियमात्कथाप्रसंगोपसिद्धतः प्रतिज्ञातार्थव्यतिरेकेणाभ्युपेतार्थपरित्यागान्नि ग्रहस्थानमिति, तदपि विचारयतिस्वयं नियतसिद्धांतो नियमेन विना यदा । कथां प्रसंजयेत्तस्यापसिद्धांतस्तथोदितः॥२६५॥ सोप्ययुक्तः स्वपक्षस्यासाधनेनेन तत्त्वतः । असाधनांगवचनादोषोद्भावनमात्रवत् ॥ २६६ ॥ तत्राभ्युपेत्य शब्दादीन्नित्यानेव पुनः स्वयम् । ताननित्यान् बुवाणस्य पूर्वसिद्धांतवाधनम्२६७ तथैव शून्यमास्थाय तस्य संविदमात्रतः । पूर्वस्योत्तरतो बाधा सिद्धांतस्यान्यथा क तत्॥२६८ प्रधानं चैवमासृत्य तद्विकारप्ररूपणम् । तादृगेवान्यथा हेतुस्तत्र न स्यात्समन्वयः ॥२६९॥ ब्रह्मायाद्वैतमप्येवमुपेत्यागमवर्णनं । कुर्वन्नाम्नायनिर्दिष्टं बाध्योन्योप्यनया दिशा ॥ २७० ॥ स्वयं प्रवर्तमानाच्च सर्वथैकांतवादिनः । अनेकांताविनाभूतव्यवहारेषु तादृशाः ॥ २७१ ॥ यद्यप्यवादि, हेत्वाभासाश्च यथोक्ता इति तत्राप्याह;हेत्वाभासाश्च योगोक्ताः पंच पूर्वमुदाहृताः । सप्तधान्यैः समाख्याता निग्रहाधिकतां गतैः२७२ हेत्वाभासत्रयं तेपि समर्थ नातिवर्तितुं । अन्यथानुपपन्नत्ववैकल्यं तच्च नैककम् ॥ २७३ ॥ यथैकलक्षणो हेतुः समर्थः साध्यसाधने । तथा तद्विकलाशक्तो हेत्वाभासोनुमन्यताम् ॥२७४ यो ह्यसिद्धतया साध्यं व्यभिचारितयापि वा । विरुद्धत्वेन वा हेतुः साधयेन स तन्निभः२७५ असिद्धादयोपि हेतवो यदि साध्याविनाभावनियमलक्षणयुक्तास्तदा न हेत्वाभासा भवितुमर्हति । न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org