________________
२९४ तत्त्वार्थश्लोकवार्तिके
[तत्त्वार्था० चैवं, तेषां तदयोगात् । न ह्यसिद्धः साध्याविनाभावनियतस्तस्य स्वयमसत्त्वात् । नाप्यनैकांतिको विपक्षेपि भावात् । न च विरुद्धो विपक्ष एव भावादित्यसिद्धादिप्रकारेणाप्यन्यथानुपपन्नत्ववैकल्यमेव हेतोः समर्थ्यते । ततस्तस्य हेत्वाभासत्वमिति संक्षेपादेक एव हेत्वाभासः प्रतीयते अन्यथानुपपन्नत्वनियमलक्षणैकहेतुवत् । अतस्तद्वचनं वादिनो निग्रहस्थानं परस्य पक्षसिद्धाविति प्रतिपत्तव्यं । तथा च संक्षेपतः 'वपक्षसिद्धिरेकस्य निग्रहोन्यस्य वादिन' इति व्यवतिष्ठते । न पुनर्विप्रतिपत्त्यप्रतिपत्ती तद्भावेपि . कस्यचित्वपक्षसिद्ध्यभावे परस्य पराजयानुपपत्तेरसाधनांगवचनादोषोद्भावनमात्रवत् छलवद्वा ॥
किं पुनश्छलमित्याह;योर्थारोपोपपत्त्या स्थाद्विधातो वचनस्य तत् । छलं सामान्यतः शक्यं नोदाहर्तु कथंचन २७६ विभागेनोदितस्यास्योदाहृतिः स त्रिधा मतः । वाक्सामान्योपचारेषु छलानामुपवर्णनात्२७७
अर्थस्यारोपो विकल्पः कल्पनेत्यर्थः तस्योपपत्तिः घटना तया यो वचनस्य विशेषेणाभिहितस्य विघातः प्रतिपादकादभिप्रेतादर्थात् प्रच्यावनं तच्छलमिति लक्षणीयं, 'वचनविघातोर्थविकल्पोपपत्त्या छलं' इति वचनात् । तच्च सामान्यतो लक्षणे कथमपि न शक्यमुदाहर्तुं विभागेनोक्तस्य तच्छलस्योदाहरणानि शक्यंते दर्शयितुं । स च विभागस्त्रिधा मतोक्षपादस्य तु त्रिविधमिति वचनात् । वाक्सामान्योपचारेषु छलानां त्रयाणामेवोपवर्णनात् । वाक्छलं, सामान्यछलं, उपचारछलं चेति ॥
तत्र किं वाक्छलमित्याहातत्राविशेषदिष्टेर्थे वक्तुराकूततोन्यथा । कल्पनार्थांतरस्येष्टं वाकछलं छलवादिभिः ॥ २७८ ॥
तेषामविशेषेण दिष्टे अभिहितेथे वक्तुराकूतादभिप्रायादन्यथा खाभिप्रायेणार्थीतरस्य कल्पनमारोपणं वाक्छलमिष्टं, तेषामविशेषाभिहितेथे वक्तुरभिप्रायादर्थातरकल्पना वाक्छलं इति वचनात् ॥
अस्योदाहरणमुपदर्शयति;आद्यो वै देवदत्तोयं वर्तते नवकंबलः । इत्युक्ते प्रत्यवस्थानं कुतोस्य नव कंबलाः ॥ २७९ ॥ यस्मादायत्वसंसिद्धिर्भवेदिति यदा परः । प्रतिब्रूयात्तदा वाचि छलं तेनोपपादितम् ॥२८०॥ नवकंबलशब्दे हि वृत्त्या प्रोक्ते विशेषतः । नवोऽस्य कंवलो जीर्णो नैवेत्याकूतमांजसम् २८१ वक्तुः संभाव्यते तसादन्यस्यार्थस्य कल्पना । नवास्य कंबला नाष्टावित्यस्यासंभवात्मनः २८२ प्रत्यवस्थातुरन्यायवादितामानयेद्धवं । संतस्तत्त्वपरीक्षायां कथं स्युश्छलवादिनः ॥२८३ ॥
कथं पुनरनियमविशेषाभिहितोर्थः वक्तुरभिप्रायादर्थातरकल्पना वाक्छलाख्या प्रत्यवस्थातुरन्यायवादितामानयेदिति चेत्, छलस्यान्यायरूपत्वात् । तथाहि-तस्य प्रत्यवस्थानं सामान्यशब्दस्यानेकार्थत्वे अन्यतराभिधानकल्पनाया विशेषवचनादर्शनीयमेतत् स्यात् विशेषाज्जानीमोऽयमर्थस्त्वया विवक्षितो नवास्य कंबला इति, न पुनर्नवोस्य कंबल इति । स च विशेषो नास्ति तस्मान्मिथ्याभियोगमात्रमेतदिति । प्रसिद्धश्च लोके शब्दार्थसंबंधोभिधानाभिधेयनियमनियोगोस्याभिधानस्यायमर्थोभिधेय इति समानार्थः सामान्यशब्दस्य, विशिष्टोर्थो विशेषशब्दस्य । प्रयुक्तपूर्वाश्चामी शब्दाः प्रयुज्यंतेऽर्थेषु सामर्थ्यान्नाप्रयुक्तपूर्वाः प्रयोगस्यार्थसंप्रत्ययाव्यवहार इति । तत्रैवमर्थगत्यार्थशब्दप्रयोगे सामर्थ्यात्सामान्यशब्दस्य प्रयोगनियमः । अजामानय ग्रामं, सर्पिराहर, ब्राह्मणं भोजयेति सामान्यशब्दाः संतोवयवेषु प्रयुज्यंते सामर्थ्यात् । यत्रार्थे क्रियाचोदना संभवति तत्र वर्तते, न चार्थसामान्ये अजादौ क्रियाचोदना संभवति । ततोजादिविशेषाणामेवानयनादयः क्रियाः प्रतीयंते न पुनस्तत्सामान्यस्यासंभवात् । एवमयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org