________________
२९५
प्रथमोऽध्यायः । सामान्यशब्दो नवकंबल इति योर्थः संभवति नवः कंबलोस्येति तत्र वर्तते, यस्तु न संभवति नवास्य कंबला इति तत्र न वर्तते प्रत्यक्षादिविरोधात् । सोयमनुपपद्यमानार्थकल्पनया परवाक्योपालंभो न कल्पते, तत्र परीक्षायां सतां छलेन प्रत्यवस्थानायोगात् । तदिदं छलवचनं परस्य पराजय एवेति मन्यमानं न्यायभाष्यकारं प्रत्याह;
एतेनापि निगृह्येत जिगीपुर्यदि धीधनैः । यत्र वाक्यं तदन्यार्थं व्याचक्षाणो निगृह्यताम्२८४ तत्र स्वयमभिप्रेतमर्थ स्थापयितुं न यैः । योऽसामोऽपरैः शक्तैः स्वाभिप्रेतार्थसाधने ॥२८५ योर्थसंभवन्नर्थः प्रमाणैरुपपद्यते । वाक्ये स एव युक्तोस्तु नापरोतिप्रसंगतः ॥ २८६ ॥ यत्र पक्षे विवादेन प्रवृत्तिर्वादिनोरभूत् । तत्सिद्ध्यैवास्य धिक्कारोन्यस्य पत्रे स्थितेन चेत् २८७ कैवं पराजयः सिद्धे छलमात्रेण ते मते । संधाहान्यादिदोषैश्च दाबादात्रोः सपत्रकम् ॥२८८॥ पत्रपक्षे वादिप्रतिवादिनोविप्रतिपत्त्या प्रवृत्तिस्तत्सिद्धिरेवैकस्य पराजयोन्यस्य, न पुनः यत्र वाक्यार्थानवस्थापनमिति ब्रुवाणस्य कथं छलमात्रेण प्रतिज्ञाहान्यादिदोषैश्च स पराजयः स्यात् पत्रं दातुरदातुश्चेति चिंत्यतां । न हि यत्र वाक्यविदर्थे तस्य वृत्तिस्तत्सिद्धिश्च पत्रं दातुरदातुः पराजयस्तन्निराकरणं वा तदा दातुर्जयोऽदातुः पराजय इति च द्वितीयार्थेपि तस्य वृत्तिसंभवात् , प्रमाणतस्तथापि प्रतीतेः समानप्रकरणादिकत्वाद्विशेषाभावात् । तथाद्यो वै देवदत्तो नवकंबलत्वात्सोमदत्तवत् इति प्रयोगेपि यदि वक्तुनवः कंबलोस्येति नवास्य कंबला इति वार्थद्वयं नवकंबलशब्दस्याभिप्रेतं भवति तदा कुतोस्य नवकंबला इति प्रत्यवतिष्ठमानो हेतोरसिद्धतामेवोद्भावयति न पुनश्छलेन प्रत्यवतिष्ठते । तत्परिहाराय च चेष्टमानस्तदुभयार्थसमर्थनेन तदेकतरार्थसमर्थनेन वा हेतुसिद्धिमुपदर्शयति नवस्तावदेकः कंबलोस्य प्रतीतो भवताऽन्येस्याष्टौ कंबला गृहे तिष्ठंतीत्युभयथा नवकंबलत्वस्य सिद्धेः नासिद्धतोद्भावनीया । न कंबलयोगित्वस्य वा हेतुत्वेनोपादानासिद्ध एव हेतुरिति खपक्षसिद्धौ सत्यामेव वादिनो जयः परस्य च पराजयो नान्यथा । तदेवं वाक्छलमपास्य सामान्यछलमनूध निरस्यति;
यत्र संभवतोर्थस्य न सामान्यस्य योगतः । असद्भूतपदार्थस्य कल्पना क्रियते बलात् ॥२८९॥ तत्सामान्यछलं पाहुः सामान्यविनिबंधनं । विद्याचरणसंपत्तिाह्मणे संभवेदिति ॥ २९०॥ केनाप्युक्ते यथैवं सा व्रात्येपि ब्राह्मणेन किम् । ब्राह्मणत्वस्य सद्भावाद्भवेदित्यपि भाषणम्२९१ तदेतन्न छलं युक्तं सपक्षेतरदर्शनात् । तल्लिंगसान्यथा तस्य व्यभिचारोखिलोस्तु तत्॥२९२॥ कचिदेति तथात्येति विद्याचरणसंपदं । ब्राह्मणत्वमिति ख्यातमिति सामान्यमत्र चेत्॥२९३॥ तथैवास्पर्शवत्वादि शब्दं नित्यत्वसाधने । किं न स्यादिति सामान्यं सर्वथाप्यविशेषतः२९४ तन्न तस्येति नित्यत्वमत्येति च सुखादिवत् । तेनानैकांतिकं युक्तं सपक्षेतरवृत्तितः ॥२९५॥ विद्याचरणसंपत्तिर्विषयस्य प्रशंसनं । ब्राह्मणस्य यथा शालिगोचरक्षेत्रवर्णनम् ॥ २९६ ॥ यस्येष्टं प्रकृते वाक्ये तस्य ब्राह्मणधर्मिणि । प्रशस्तत्वे स्वयं साध्ये ब्राह्मणत्वेन हेतुना ॥२९७॥ केनानैकांतिको हेतुरुद्भाव्यो न प्रसह्यते । क्षेत्रे क्षेत्रत्ववच्छालियोग्यत्वस्य प्रसाधने ॥ २९८ ॥ यत्र भवतीर्थस्यातिसामान्यस्य योगादसद्भूतार्थकल्पना हठात् क्रियते तत्सामान्यनिबंधनत्वात् सामान्यछलं प्राहुः । संभवतोर्थस्यातिसामान्यस्य योगादसद्भूतार्थकल्पना सामान्यछलमिति वचनात् । तद्यथा-अहो नु खल्वसौ ब्राह्मणो विद्याचरणसंपन्न इत्युक्ते केनचित्कचिदाह संभवति ब्राह्मणे विद्याचरणसंपदिति, तं प्रत्यस्य वाक्यस्य विघातोर्थविकल्पोपपत्त्याऽसद्भूतार्थकल्पनया क्रियते। यदि ब्राह्मणो विद्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org