________________
२९६
तत्त्वार्थश्लोकवार्तिके
[तत्त्वार्था
चरणसंपत्संभवति त्रात्येपि संभवात् । त्रात्योपि ब्राह्मणो विद्याचरणसंपन्नोस्तु । तदिदं ब्राह्मणत्वं विवक्षितमर्थ विद्याचरणसंपलक्षणं कचिद्ब्राह्मणे तादृश्येति क्वचिद्वात्येपि तद्भावेपि भावादित्यपि सामान्य तेन योगाद्वक्तुरभिप्रेतादर्थात् सद्भूतादन्यस्यासद्भूतस्यार्थस्य कल्पना सामान्यछलं । तच्च न युक्तं । यस्मादविवक्षिते हेतुकस्य विषयार्थवादः प्रशंसार्थत्वाद्वाक्यस्य तत्रासद्भूतार्थकल्पनानुपपत्तिः । यथा संभवत्यस्मिन् क्षेत्रे शालय इत्यत्राविवक्षितं शालिबीजमनिराकृतं च तन्निवृत्तिविषयक्षेत्रं प्रशस्यते । सोयं क्षेत्रार्थवादो नास्मिन् शाल्यो विद्यंत इति । बीजातु शालिनिर्वृत्तिः सती न विवक्षिता । तथा संभव ब्राह्मणे विद्याचरणसंपदिति सम्यग्विषयो ब्राह्मणत्वं न संपद्धेतुर्न चात्र तद्धेतुर्विवक्षितस्तद्विषयार्थवादस्त्वयं प्रशंसार्थत्वाद्वाक्यस्य सति ब्राह्मणत्वे संपद्धेतुः समर्थ इति विषयत्वाप्रशंसता वाक्येन यथा हेतुफलन्निवृत्तिर्न प्रत्याख्यायते तदेवं सति वचनविघातोसद्भूतार्थकल्पनया नोपपद्यते इति परस्य पराजयस्तथा वचनादित्येवं न्यायभाष्यकारो ब्रुवन्नायं वेत्ति, तथा छलव्यवहारानुपपत्तेः । हेतुदोषस्या - नैतिकत्वस्य परेणोद्भावना वा न वानैकांतिकत्वोद्भावनमेव सामान्यछलमिति सत्यं वक्तुं सर्वत्र, तस्य सामान्यछलत्वप्रसंगात् । शब्दो नित्योऽस्पर्शवत्त्यादाकाशवदित्यत्र हि यथा शब्दनित्यत्वे साध्ये अस्पर्शवत्त्वमाकाशे नित्यत्वमेति । सुखादिष्वत्येतीति व्यभिचारित्वादनैकांतिकमुच्यते न पुनः सामान्यछलं, तथा प्रकृतमपीति न विशेषः कश्चिदस्ति । सोयं ब्राह्मणे धर्मिणि विद्याचरणसंपद्विषये प्रशंसनं ब्राह्मणस्वेन हेतुना साध्यते, यथा शालिविषयक्षेत्रे प्रशंसा क्षेत्रत्वेन साक्षान्न पुनर्विद्याचरणसंपत्सत्ता साध्यते येनातिप्रशक्यत इति खयमनैकांतिकत्वं हेतोः परिहरन्नपि तन्नानुमन्यत इति कथं न्यायवित् ?
तथोपचारछलमनूद्य विचारयन्नाह ;
'धर्माध्यारोप निर्देशे सत्यार्थप्रतिषेधनम् । उपचारछलं मंचाः क्रोशतीत्यादिगोचरम् ॥ २९९ ॥ मंचाः क्रोशति गायंतीत्यादिशब्दप्रयोजनम् । आरोप्य स्थानिनां धर्म स्थानेषु क्रियते जनैः ३०० गौणं शब्दार्थमासृत्य सामान्यादिषु सत्त्ववत् । तत्र मुख्याभिधानार्थे प्रतिषेधश्छलं स्थितम् ३०१ न चेदं वाक्छलं युक्तं किंचित्साधर्म्यमात्रतः । स्वरूप भेदसंसिद्धेरन्यथातिप्रसंगतः ॥ ३०२ ॥ कल्पनार्थीतरस्योक्ता वाक्छलस्य हि लक्षणं । सद्भूतार्थनिषेधस्तूपचारछललक्षणम् ॥ ३०३ ॥ अत्राभिधानस्य धर्मो यथार्थे प्रयोगस्तस्याध्यारोप्यो विकल्पः अन्यत्र दृष्टस्यान्यत्र प्रयोगः, मंचाः कति गायंतीत्यादौ शब्दप्रयोगवत् । स्थानेषु हि मंचेषु स्थानिनां पुरुषाणां धर्ममाक्रोष्टित्वादिकं समारोप्य जनैस्तथा प्रयोगः क्रियते गौणशब्दार्थश्रयणात् सामान्यादिष्वस्तीति शब्दप्रयोगवत् तस्य धर्माध्यारोपनिर्देशे सत्यर्थस्य प्रतिषेधनं न मंचाः क्रोशंति मंचस्थाः पुरुषाः क्रोशतीति । तदिदमुपचारछलं प्रत्येयं । धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेध उपचारछलं इति वचनात् । का पुनरत्रार्थविकल्पोपपत्तिर्यया वचनविघातश्छल मिति, अन्यथा प्रयुक्तस्याभिधानस्य न तथा परिकल्पनं । भक्तया हि प्रयोगौऽयं मंचाः क्रोशतीति तात्स्थात्तच्छन्दोपचारात् प्राधान्ये तस्य परिकल्पनं कृत्वा परेण प्रत्यवस्थानं विधी - यते । कः पुनरुपचारो नाम ? साहचर्यादिना निमित्तेन तदभावेपि तद्वदभिधानमुपचारः । यद्येवं बाक्छलादुपचारछलं न भिद्यते अर्थीतरकल्पनाया अविशेषात् । इहापि हि स्थानार्थो गुणशब्दः प्रधानशब्दः स्थानार्थ इति कल्पयित्वा प्रतिषिध्यते नान्यथेति । नैतत्सारं । अर्थातरकल्पनातोर्थसद्भावप्रतिषेधस्यान्यथात्वात्, किंचित्साधर्म्यात्तयोरेकत्वे वा त्रयाणामपि छलानामेकत्वप्रसंग: । अथ वाक्छलसामान्यछलयोः किंचित्साधर्म्य सदपि द्वित्वं न निवर्तयति, तर्हि तयोरुपचारछलस्य च किंचित्साधर्म्य विद्यमानमपि त्रित्वं तेषां न निवर्तयिष्यति, वचनविघातस्यार्थविकल्पोपपत्त्या त्रिष्वपि भावात् । ततोन्य
Jain Education International
For Private & Personal Use Only
4
www.jainelibrary.org