________________
प्रथमोऽध्यायः।
२९७ देव वाक्छलादुपचारछलं । तदपि परस्य पराजयायावकल्पते यथावक्रभिप्रायमप्रतिषेधात् । शब्दस्य हि प्रयोगो लोके प्रधानभावेन गुणभावेन च प्रसिद्धः । तत्र यदि वक्तुर्गुणभूतोर्थोऽभिप्रेतस्तदा तस्यानुज्ञानं प्रतिषेधो वा विधीयते, प्रधानभूतश्चेत्तस्यानुज्ञानप्रतिषेधौ कर्तव्यौ प्रतिपाद्यत इति न्यायः । यदात्र
गौणमात्रं वक्ताभिप्रैति प्रधानभूतं तु तं परिकल्प्य परः प्रतिषेधति तदा तेन स्वमनीषा प्रतिषिद्धा स्यान्न • परस्याभिप्राय इति न तस्यायमुपालंभः स्यात् । तदनुपालंभाच्चासौ पराजीयते तदुपालंभापरिज्ञानादिति नैयायिका मन्यते ॥
तदेतस्मिन् प्रयुक्ते सान्निग्रहो यदि कस्यचित् । तदा योगो निगृह्येत प्रतिषेधात् प्रमादिकम्३०४ मुख्यरूपतया शून्यवादिनं प्रति सर्वथा । तेन संव्यवहारेण प्रमादेरुपवर्णनात् ॥ ३०५ ॥ सर्वथा शून्यता वादे प्रमाणादेविरुध्यते । ततो नायं सतां युक्त इत्यशून्यत्वसाधनात्॥३०६॥ योगेन निग्रहः प्राप्यः स्वोपचारच्छलेपि चेत् । सिद्धः स्वपक्षसिद्ध्यैव परस्यायमसंशयम्।।३०७ अथ जाति विचारयितुमारभते;स्वसाध्यादविनाभावलक्षणे साधने स्थिते । जननं यत्प्रसंगस सा जातिः कैश्विदीरिता ॥३०८ “प्रयुक्त हेतौ यः प्रसंगो जायते सा जातिः" इति वचनात् ॥ कः पुनः प्रसंगः? इत्याह;प्रसंगः प्रत्यवस्थानं साधम्र्येणेतरेण वा । वैधोक्तेऽन्यथोक्ते च साधने स्वाद्यथाक्रमम् ३०९
उदाहरणवैधय॒णोक्ते साधने साधर्म्यण प्रत्यवस्थानमुदाहरणसाधय॑णोक्ते वैध\ण प्रत्यवस्थानमुपालंभः प्रतिषेधः प्रसंग इति विज्ञेयं, “साधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिः” इति वचनात् ॥
एतदेवाह;उदाहरणसाधर्म्यात्साध्यस्यार्थस्य साधनं । हेतुस्तस्मिन् प्रयुक्तेन्यो यदा प्रत्यवतिष्ठते ॥३१०॥ उदाहरणवैधात्तत्र व्याप्तिमखंडयत । तदासौ जातिवादी स्यादृषणाभासवाक्ततः ॥३११ ॥ यथोदाहतिवैधात्साध्यस्वार्थस्य साधनं । हेतुस्तस्मिन् प्रयुक्तेपि परस्य प्रत्यवस्थितिः॥३१२॥ साधर्म्यणेह दृष्टांते दूषणाभासवादिनः । जायमाना भवेज्जातिरित्यन्वर्थे प्रवक्ष्यते ॥ ३१३॥
उद्योतकरस्त्वाह-जाते मस्थापनाहेतौ प्रयुक्ते यः प्रतिषेधासमों हेतुरिति सोपि प्रसंगस्य परपक्षप्रतिषेधार्थस्य हेतोर्जननं जातिरित्यन्वर्थसंज्ञामेव जातिं व्याचष्टेऽन्यथा न्यायभाष्यविरोधात् ॥
कथमेव जातिबहुत्वं कल्पनीयमित्याह;सर्वसत्त्वविधर्मत्वप्रत्यवस्थाविकल्पतः । कल्प्यं जातिबहुत्वं स्थायासतोऽनंतशः सताम् ॥३१४ यथा विपर्ययज्ञानाज्ञाननिग्रहभेदतः । बहुत्वं निग्रहस्थानस्योक्तं पूर्व सुविस्तरम् ॥ ३१५॥ तत्र ह्यप्रतिभाज्ञानाननुभाषणपर्यनु-। योज्योपेक्षणविक्षेपा लभंते प्रतिपत्तिताम् ॥ ३१६ ॥ शेषा विप्रतिपत्तित्वं प्राप्नुवंति समासतः । तद्विभिन्नस्वभावस्य निग्रहस्थानमीक्षणात् ॥३१७॥ तत्रातिविस्तरेणानंतजातयो न शक्या वक्तुमिति विस्तरेण चतुर्विंशतिजातयः प्रोक्ता इत्युपदर्शयतिप्रयुक्ते स्थापनाहेतौ जातयः प्रतिषेधिकाः । चतुर्विंशतिरत्रोक्तास्ताः साधर्म्यसमादयः ॥३१८ तथा चाह न्यायभाष्यकारः । साधर्म्यवैधाभ्यां प्रत्यवस्थानस्य विकल्पाजातिबहुत्वमिति संक्षे
३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |