________________
२९८
तत्त्वार्थश्लोकवार्तिके
[तत्त्वार्था० पेणोक्तं, तद्विस्तरेण विभिद्यते । ताश्च खल्विमा जातयः स्थापनाहेतौ प्रयुक्ते चतुर्विंशतिः प्रतिषेधहेतव" साधर्म्यवैधर्योत्कर्षापकर्षवर्णावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसंगप्रतिदृष्टांतानुपपत्तिसंशयप्रकरणाहेत्वर्थापत्यविशेषोपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः" इति सूत्रकारवचनात् ॥
यत्राविशिष्यमाणेन हेतुना प्रत्यवस्थितिः। साधर्येण समा जातिः सा साधर्म्यसमा मता३१९ निर्वक्तव्यास्तथा शेषास्ता वैधर्म्यसमादयः । लक्षणं पुनरेतासां यथोक्तमभिभाष्यते ॥३२०॥
अत्र जातिषु या साधर्येण प्रत्यवस्थितिरविशिष्यमाणस्थापनाहेतुतः सा साधर्म्यसमा जातिः । एवमविशिष्यमाणस्थापनाहेतुतो वैध\ण प्रत्यवस्थितिः वैधर्म्यसमा । तथोत्कर्षादिभिः प्रत्यवस्थितयः उत्कर्षादिसमा इति निर्वक्तव्याः । लक्षणं तु यथोक्तमभिभाष्यते तत्र ॥ साधर्म्यणोपसंहारे तद्धर्मस्य विपर्ययात् । यस्तत्र दृषणाभासः स साधर्म्यसमो मतः॥३२१ ।। यथा क्रियाभृदात्मायं क्रियाहेतुगुणाश्रयात् । य ईदृक्षः स ईदृक्षो यथा लोष्ठस्तथा च स:३२२ तस्माक्रियाभृदित्येवमुपसंहारभाषणे । कश्चिदाहाक्रियो जीवो विभुद्रव्यत्वतो यथा ॥३२३॥ व्योम तथा न विज्ञातो विशेषस्य प्रसाधकः । हेतुः पक्षद्वयोप्यस्ति ततोयं दोषसन्निभः ३२४ साध्यसाधनयोप्तेविच्छेदस्यासमर्थनात् । तत्समर्थनतंत्रस्य द्वेषत्वेनोपवर्णनात् ॥ ३२५ ॥
नास्त्यात्मनः क्रियावत्त्वे साध्ये क्रियाहेतुगुणाश्रयत्वस्य साधनस्य खसाध्येन व्याप्तिर्विभुत्वान्निष्क्रियत्वसिद्धौ विच्छिद्यते, न च तदविच्छेदे तद्रूषणत्वं साध्यसाधनयोर्व्याप्तिविच्छेदसमर्थनतंत्रस्यैव दोषत्वेनोपवर्णनात् । तथा चोक्तं न्यायभाष्यकारेण । “साधर्म्यणोपसंहारे साध्यधर्मविपर्ययोपपत्तेः साधयेण प्रत्यवस्थानं साधर्म्यसमः प्रतिषेध" इति । निदर्शनं, क्रियावानात्मा द्रव्यस्य क्रियाहेतुगुणयोगात् । द्रव्यं लोष्ठः स च क्रियाहेतुगुणयुक्तः क्रियावांस्तथा चात्मा तस्माक्रियावानित्येवमुपसंहृत्य परः साधयेणैव प्रत्यवतिष्ठते । निष्क्रिय आत्मा विभुनो द्रव्यस्य निष्क्रियत्वात् । विभ्वाकाशं निष्क्रियं तथा चात्मा तस्मानिष्क्रिय इति । न चास्ति विशेषः क्रियावत्साधात् क्रियावता भवितव्यं, न पुनर्निष्क्रियसाधात् क्रियेणेति विशेषः । हेत्वभावात्साधर्म्यसमाप्तदूषणाभासो भवतीत्यत्र वार्तिककार एवमाह-साधर्म्यणोपसंहारे तद्विपरीतसाधयेणोपसंहारे तत्साधर्म्यण प्रत्यवस्थानं साधर्म्यसमः । यथा अनित्यः शब्द उत्पत्तिधर्मकत्वात् । उत्पत्तिधर्मकं कुंभाद्यनित्ये दृष्टमिति वादिनोपसंहृते परः प्रत्यवतिष्ठते । यद्यनित्यघटसाधादयमनित्यो नित्येनाप्यस्याकाशेन साधर्म्यममूर्तत्वमस्तीति नित्यप्राप्तः, तथा अनित्यः शब्द उत्पत्तिधर्मकत्वात् यत्पुनरनित्यं न भवति तन्नोत्पत्तिमदर्थकं यथाकाशमिति प्रतिपादिते परः प्रत्यवतिष्ठते । यदि नित्याकाशवैधादनित्यः शब्दस्तदा साधर्म्यमप्यस्याकाशेनास्त्यमूर्तत्वमतो नित्यः प्राप्तः । अथ सत्यप्येतस्मिन् साधये न नित्यो भवति, न तर्हि वक्तव्यमनित्यघटसाधानित्याकाशवैधाद्वा अनित्यः शब्द इति । सेयं जातिः विशेषहेत्वभावं दर्शयति विशेषहेत्वभावाचानैकांतिकचोदनाभासो गोत्वाद्गोसिद्धिवदुत्पत्तिधर्मकत्वादनित्यत्वसिद्धिः । साधर्म्य हि यदन्वयव्यतिरेकि गोत्वं तस्मादेव गौः सिद्ध्यति न सत्त्वादेस्तस्य गोरित्यत्राश्वादावपि भावादव्यतिरेकित्वात् । एवमगोवैधर्म्यमपि गोः साधनं नैकशफत्वादित्यस्याव्यतिरेकित्वादेव पुरुषादावपि भावात् । गोत्वं पुनर्गवि दृश्यमानमन्वयव्यतिरेकि गोः साधनमुपपद्यते तद्वदुत्पत्तिधर्मकत्वं घटादावनित्यत्वे सति भावादाकाशादौ वा नित्यत्वाभावे अभावादन्वयव्यतिरेकि शब्दे समुपलभ्यमानमनित्यत्वस्य साधनं, न पुनरमित्यघटसाधर्म्यमात्रसत्त्वादिनाप्याकाशवैधर्म्यमात्रममूर्तत्वादि तस्यान्वयव्यतिरेकित्वाभावात् । ततस्तेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org