________________
प्रथमोऽध्यायः।
२९९ प्रत्यवस्थानमयुक्तं दूषणाभासत्वादिति । एतेनात्मनः क्रियावत्साधर्म्यमात्रं निष्क्रियवैधर्म्यमानं वा क्रियावत्त्वसाधनं प्रत्याख्यातमन्वयव्यतिरेकित्वात् , अन्वयव्यतिरेकिण एव साधनस्य साध्यसाधनसामर्थ्यात् ।।
तत्रैव प्रत्यवस्थानं वैधयेणोपदय॑ते । यः क्रियावान्स दृष्टोत्र क्रियाहेतुगुणाश्रयः ॥ ३२६ ॥
यथा लोष्ठो न वात्मैवं तस्मानिष्क्रिय एव सः । पूर्ववढूषणाभासो वैधर्म्यसम ईक्ष्यताम् ३२७ • क्रियावानात्मा क्रियाहेतुगुणाश्रयत्वालोष्ठवदित्यत्र वैधम्र्येण प्रत्यवस्थानं, यः क्रियाहेतुगुणाश्रयो लोष्ठः स क्रियावान् परिच्छिन्नो दृष्टो न च तथात्मा तस्मान्न लोष्ठवत्क्रियावानिति निष्क्रिय एवेत्यर्थः । सोऽयं साधर्म्यणोपसंहारे वैध\ण प्रत्यवस्थानात् वैधर्म्यसमः प्रतिषेधः पूर्ववदूषणाभासो वेदितव्यः ॥ का पुनर्वैधर्म्यसमा जातिरित्याह;वैधयेणोपसंहारे साध्यधर्मविपर्ययात । वैधयेणेतरेणापि प्रत्यवस्थानमिष्यते ॥ ३२८॥ या वैधर्म्यसमा जातिरिदं तस्या निदर्शनम् । नरो निष्क्रिय एवायं विभुत्वात्सक्रियः पुनः॥ विभुत्वरहितं दृष्टं लोष्ठादि न तथा नरः । तस्मानिष्क्रिय इत्युक्ते प्रत्यवस्था विधीयते॥३३०॥ वैधये॒णैव सा तावत्कैश्चिन्निग्रहभीरुभिः । कर्मबंधक्रियाहेतुर्गुणादीनां समीक्षितं ॥ ३३१ ॥ नैवमात्मा ततो नायं निष्क्रियः संप्रतीयते । साधर्मेणापि तत्रैवं प्रत्यवस्थानमुच्यते ॥३३२॥ क्रियावानेव लोष्ठादिः क्रियाहेतुगुणाश्रयः । तृष्णातादृक्त्वजीवोपि तस्मात्सक्रिय एव सः ३३३ इति साधयेवैध→समयो दूषणोद्भवात् । सधर्मत्वविधर्मत्वमात्रात्साध्याप्रसिद्धितः ॥३३४॥ अथोत्कर्षापकर्षवर्ध्यावर्ण्यविकल्पसाध्यसमा साध्याया विधीयतेसाध्यदृष्टांतयोर्धर्मविकल्पाद्वयसाध्यता । सद्भावाच मता जातिरुत्कर्षेणापकर्षतः ॥ ३३५ ।। वर्ष्यावर्ण्यविकल्पैश्च साध्येन च समाः पृथक् । तस्याः प्रतीयतामेतल्लक्षणं सन्निदर्शनम्॥३३६ यदाह, साध्यदृष्टांतयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्षवर्ध्यावर्ण्यविकल्पसाध्यसमा इति ॥ तत्रोत्कर्षसमा तावल्लक्षणतो निदर्शनतश्चापि विधीयते;दृष्टांतधर्म साध्यार्थे समासंजयतः स्मृता । तत्रोत्कर्षसमा यद्वत्क्रियावजीवसाधने ॥३३७॥ क्रियाहेतुगुणासंगी यद्यात्मा लोष्ठवत्तदा । तद्वदेव भवेदेष स्पर्शवानन्यथा न सः॥३३८ ॥
दृष्टांतधर्म साध्ये समासंजयतः स्मृतोत्कर्षसमा जातिः खयं, यथा क्रियावानात्मा क्रियाहेतुगुणयोगालोष्ठवत् इत्यत्र क्रियावज्जीवसाधने प्रोक्ते सति परः प्रत्यवतिष्ठते । यदि क्रियाहेतुगुणासंगी पुमांल्लोष्ठवत्तदा लोष्ठवदेव स्पर्शवान् भवेत् । अथ न स्पर्शवांल्लोष्ठवदात्मा क्रियावानपि न स स्यादिति विपर्यये वा विशेषो वाच्य इति ॥
का पुनरपकर्षसमेत्याह;साध्यधर्मिणि धर्मस्याभावं दृष्टांततो वदन् । अपकर्षसमां वक्ति जातिं तत्रैव साधने ॥३३९॥ लोष्ठः क्रियाश्रयो दृष्टो विभुः कामं तथास्तु ना । तद्विपर्ययपक्षे वा वाच्यो हेतुर्विशेषकत्३४०
तत्रैव क्रियावज्जीवसाधने प्रयुक्ते सति साध्यधर्मिणि धर्मस्याभावं दृष्टांतात् समासंजयन् यो वक्ति सोपकर्षसमाजाति वदति । यथा लोष्ठः क्रियाश्रयोऽसर्वगतो दृष्टस्तद्वदात्मा सदाप्यसर्वगतोस्तु विपर्ययैर्वा विशेषकृद्धतुर्वाच्य इति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org