________________
३०० तत्त्वार्थश्लोकवार्तिके
(तत्त्वार्था० वावर्ण्यसमौ प्रतिषेधकावित्याह;ख्यापनीयो मतो वर्ण्यः स्यादव? विपर्ययात् । तत्समा साध्यदृष्टांतधर्मयोरत्र साधने ३४१ विपर्यासनतो जातिर्विज्ञेया तद्विलक्षणा । भिन्नलक्षणतायोगात्कथंचित्पूर्वजातिवत्॥३४२॥
ख्यापनीयो वर्ण्यस्तद्विपर्ययादख्यापनीयः पुनरवर्ण्यस्तेन वण्येनावयेन च समा जातिवर्ण्यसमावर्ण्यसमा च विज्ञेया । अत्रैव साधने साध्यदृष्टांतधर्मयोर्विपर्यासनात् । उत्कर्षापकर्षसमाभ्यां कुतोनयोर्भेद इति चेत् , लक्षणभेदात् । तथाहि-अविद्यमानधर्मव्यापक उत्कर्षः विद्यमानधर्मापनयोऽपकर्षः। वर्ण्यस्तु साध्योऽवर्योऽसाध्य इति, तत्प्रयोगाज्जातयो विभिन्नलक्षणाः साधर्म्यवैधर्म्यसमवत् ॥
साध्यधर्मविकल्पं तु धर्मातरविकल्पतः । प्रसंजयत इष्येत विकल्पेन समा बुधैः ॥ ३४३॥ क्रियाहेतुगुणोपेतं किंचिद्गुरु समीक्ष्यते । परं लघु यथा लोष्ठो वायुश्चेति क्रियाश्रयं ॥३४४॥ किंचित्तदेव युज्येत यथा लोष्ठादि निष्क्रियं । किंचिन्न स्थाद्यथात्मेति विशेषो वा निवेदताम्३४५
विशेषो विकल्पाविशेषः साध्यधर्मस्य विकल्पः साध्यधर्मविकल्पस्तं धर्मातरविकल्पात्प्रसंजयतस्तु विकल्पसमा जातिः तत्रैव साधने प्रयुक्ते परः प्रत्यवतिष्ठते । क्रियाहेतुगुणोपेतं किंचिद्गुरु दृश्यते यथा लोष्ठादि, किंचित्तु लघु समीक्ष्यते यथा वायुरिति । तथा क्रियाहेतुगुणोपेतमपि किंचित्क्रियाश्रयं युज्यते यथा लोष्ठादि, किंचित्तु लघु समीक्ष्यते यथा वायुरिति, किंचित्तु निष्क्रियं यथात्मेति वावर्ण्यसमाभ्यामियं भिन्ना तत्रैवं प्रत्यवस्थानाभावात् वर्ष्यावर्ण्यसमयोद्देवं प्रत्यवस्थानं, यद्यात्मा क्रियावान् वर्ण्यः साध्यस्तदा लोष्ठादिरपि साध्योस्तु । अथ लोष्ठादिरवर्ण्यस्तात्माप्यवर्योस्तु, विशेषो वा वक्तव्य इति । विकल्पसमायां तु क्रियाहेतुगुणाश्रयस्य गुरुलघुविकल्पवत्सक्रियनिष्क्रियत्वविकल्पोस्त्विति प्रत्यवस्थानं । अतोसौ भिन्ना ॥
का पुनः साध्यसमेत्याह;हेत्वादिकांगसामर्थ्ययोगी धर्मोवधार्यते । साध्यस्तमेव दृष्टांते प्रसंजयति यो नरः ॥ ३४६ ॥ तस्य साध्यसमा जातिरुद्भाव्या तत्त्ववित्तकैः । यथा लोष्ठस्तथा चात्मा यथात्मायं तथा न किम् ॥ लोष्ठः स्यात्सक्रियश्चात्मा साध्यो लोष्ठोपि तादृशः। साध्योस्तु नेति चेल्लोष्ठो यथात्मापि तथा कथं हेत्वाद्यवयवसामर्थ्ययोगी धर्मः साध्योऽवधार्यते तमेव दृष्टांते प्रसंजयति यो वादी तस्य साध्यसमा जातिस्तत्त्वपरीक्षकैरुद्भावनीया । तद्यथा-तत्रैव साधने प्रयुक्ते परः प्रत्यवस्थानं करोति यदि यथा लोष्ठस्तथात्मा, तदा यथात्मा तथायं लोष्ठः स्यात् सक्रिय इति, साध्यश्चात्मा लोष्ठोपि साध्योस्तु सक्रियः इति । अथ लोष्ठः क्रियावान् साध्यस्तात्मापि क्रियावान् साध्यो मा भूत् , विशेषो वा वक्तव्य इति ॥
कथमासां दूषणाभासत्वमित्याह;दृषणाभासता त्वत्र दृष्टांतादिसमर्थना । युक्ते साधनधर्मेपि प्रतिषेधमलब्धितः ॥ ३४९ ॥ साध्यदृष्टांतयोर्धर्मविकल्पादुपवर्णितात् । वैधयं गवि सादृश्ये गवयेन यथा स्थिते ॥३५०॥ साध्यातिदेशमात्रेण दृष्टांतस्योपपत्तितः । साध्यत्वासंभवाचोक्तं दृष्टांतस्य न दूषणं ॥ ३५१ ॥ क्रियावानात्मा क्रियाहेतुगुणाश्रयत्वाल्लोष्ठवदित्यादौ दृष्टांतादिसमर्थनयुक्ते साधनधर्मे प्रयुक्ते सत्यपि साध्यदृष्टांतयोर्धर्मविकल्पादुपवर्णिताद्वैधयेण प्रतिषेधस्य कर्तुमलब्धेः किंचित्साधादुपसंहारसिद्धः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org