________________
प्रथमोऽध्यायः।
३०१ तदाह न्यायभाष्यकारः । “अलभ्यः सिद्धस्य निवः सिद्धं च किंचित्साधर्म्यादुपमानं यथा गौस्तथा गवय" इति । तत्र न लभ्यो गोगवययोर्धर्मविकल्पश्चोदयितुं । एवं साधनधर्मे दृष्टांतादिसामर्थ्ययुक्ते सति न लभ्यः साध्यदृष्टांतयोधर्मविकल्पाद्वैधात् प्रतिषेधो वक्तुमिति । साध्यातिदेशमात्राच दृष्टांतस्योपपत्तेः साध्यत्वासंभवात् । यत्र हि लौकिकपरीक्षकाणां बुद्धेरभेदस्तेनाविपरीतोर्थः साध्येऽतिदिश्यते प्रज्ञापनार्थ । • एवं च साध्यातिदेशाद् दृष्टांते कचिदुपपद्यमाने साध्यत्वमनुपपन्नमिति । तथोद्योतकरोप्याह । दृष्टांतः साध्य इति.......""वत्ता भवता न दृष्टांतलक्षणं व्यज्ञायि । दृष्टांतो हि नाम दर्शनयोर्विहितयोविषयः । तथा च साध्यमनुपपन्नं । अथ दर्शनं विहन्यते तर्हि नासौ दृष्टांतो लक्षणाभावादिति ॥
प्राप्त्या यत्प्रत्यवस्थानं जातिः प्राप्तिसमैव सा । अप्राप्त्या पुनरप्राप्तिसमा सत्साधनेरणे ॥३५२ यथायं साधयेद्धेतुः साध्यप्राप्त्यान्यथापि वा । प्राप्त्या चेयुगपद्भावात्साध्यसाधनधर्मयोः३५३ प्राप्तयोः कथमेकस्य हेतुतान्यस्य साध्यता । युक्तेति प्रत्यवस्थान प्राप्त्या तावदुदाहृतम् ॥३५४ अप्राप्य साधयेत्साध्यं हेतुश्चेत्सर्वसाधनः । सोस्तु दीपो हि नाप्राप्तपदार्थस्य प्रकाशकः॥३५५ इत्यप्राप्त्यावबोद्धव्यं प्रत्यवस्थानिदर्शनम् । तावेतौ दूषणाभासौ निषेधस्सैवमन्वयात् ॥ ३५६ ॥
प्राप्तस्यापि दंडादेः कुंभसाधकतेक्ष्यते । तथाभिचारमंत्रस्य प्राप्तस्यासातकारिता ॥ ३५७॥ __ नन्वत्र कारकस्य हेतोः प्राप्तस्याप्राप्तस्य च दंडादेरभिचारमंत्रादेश्च स्वकार्यकारितोपदर्शिता ज्ञापकस्य तु हेतोः प्राप्तस्याप्राप्तस्य वा खसाध्या प्रकाशिता चोदितेति न संगतिरस्तीति कश्चित् । तदसत् । कारकस्य ज्ञापकस्य वा विशेषेण प्रतिक्षेपोयमित्येवं ज्ञापनार्थत्वात्कारकहेतुव्यवस्थापनस्य । तेन ज्ञापकोपि हेतुः कश्चित्याप्तः खसाध्यस्य ज्ञापको दृष्टो यथा संयोगी धूमादिः पावकादेः । कश्चिदप्राप्तो विश्लेषे, यथा कृत्तिकोदयः शकटोदयस्येत्यपि विज्ञायते । यथायं सर्वोपि पक्षीकृतस्तर्हि येन हेतुना प्रतिषिध्यते सोपि प्रतिषेधको न स्यादुभयथोक्तदूषणप्रसंगादित्यप्रतिषेधस्ततो दूषणाभासाविमौ प्रतिपत्तव्यौ ।
वक्तव्यं साधनस्यापि साधनं वादिनेति तु । प्रसंगवचनं जातिः प्रसंगसमतां गता ॥ ३५८॥ क्रियाहेतुगुणोपेतः क्रियावांल्लोष्ठ इष्यते । कुतो हेतोविना तेन कस्यचिन्न व्यवस्थितिः ॥३५९ एवं हि प्रत्यवस्थानं न युक्तं न्यायवादिनां । वादिनोर्यत्र वा साम्यं तस्य दृष्टांततास्थितिः ३६० यथा रूपं दिदृक्षूणां दीपादीनां प्रतीयते । स्वयं प्रकाशमानं तु दीपं दीपांतराग्रहात् ॥३६॥ तथा साध्यप्रसिद्ध्यर्थ दृष्टांतग्रहणं मतं । प्रज्ञातात्मनि दृष्टांते त्वफलं साधनांतरम् ।। ३६२॥ प्रतिदृष्टांतरूपेण प्रत्यवस्थानमिष्यते । प्रतिदृष्टांततुल्येति जातिस्तत्रैव साधना ॥ ३६३ ॥ क्रियाहेतुगुणोपेतं दृष्टमाकाशमक्रियं । क्रियाहेतुर्गुणो व्योम्नि संयोगो वायुना स च ॥३६४॥ संस्कारापेक्षणो यद्वत्संयोगस्तेन पादपे । स चायं दूषणाभाससाधनाप्रतिबंधकः ॥ ३६५॥ साधकः प्रतिदृष्टांतो दृष्टांतोपि हि हेतुना । तेन तद्वचनाभावात् सदृष्टांतोस्तु हेतुकः॥३६६॥
एवं ह्याह, दृष्टांतस्य कारणमपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टांतेन प्रसंगप्रतिदृष्टांतसमौ । तत्र साधनस्यापि दृष्टांतस्य साधनं कारणं प्रतिपत्तौ वाच्यप्रसंगेन प्रत्यवस्थानं प्रसंगसमः प्रतिषेधः तत्रैव साधने क्रियाहेतुगुणयोगात् क्रियावांल्लोष्ठ इति हेतुनापदिश्यते, न च हेतुमंतरेण कस्यचित्सिद्धिरस्तीति । सोयमेवं वदद्दूषणाभासवादी न्यायवादिनामेवं प्रत्यवस्थानस्यायुक्तत्वात् । अत्र वादिप्रतिवादिनोः बुद्धि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org