________________
१५४
तत्त्वार्थश्लोकवार्तिके
न केवलं निर्देश दीनामधिगमस्तत्त्वार्थानां किं तर्हि ;
सत्संख्याक्षेत्रस्पर्शन कालांतरभावात्पबहुत्वैश्च ॥ ८ ॥
स्वार्थोऽधिगमो ज्ञानात्मकैः, परार्थः शब्दात्मकैः कर्तव्य इति घटनात् ॥
ननु पूर्वसूत्र एवाधिगमस्य हेतोः प्रतिपादितत्वात् किं चिकीर्षुरिदं सूत्रमब्रवीत् इति चेत्;सदादिभिः प्रपंचेन तत्त्वार्थाधिगमं मुनिः । संदिदर्शयिषुः प्राह सूत्रं शिष्यानुरोधतः ॥ १ ॥ ये हि शिष्याः संक्षेपरुचयस्तान् प्रति " प्रमाणनयैरधिगमः" इति सूत्रमाह, ये च मध्यमरुचयस्तान् प्रति निर्देशादिसूत्रं, ये पुनर्विस्तररुचयस्तान् प्रति सदादिभिरष्टाभिस्तत्त्वार्थाधिगमं दर्शयितुमिदं सूत्रं, शिष्यानुरोधेनाचार्यवचनप्रवृत्तेः ॥
नास्तित्वैकांतविच्छियै तावत् प्राक् च प्ररूपणम् । सामान्यतो विशेषात्तु जीवाद्यस्तित्वभिद्विदे२
नन्वेकत्वादस्तित्वस्य न सामान्यविशेषसंभवो येन सामान्यतो नास्तित्वैकांतस्य विशेषतो जीवादिनास्तित्वस्य व्यवच्छेदात्तत्प्ररूपणं प्रागेव संख्यादिभिः क्रियते । न ह्येका सत्ता सर्वत्र, सर्वदा तस्या विच्छेदाभावात् । सत्ताशून्यस्य कस्यचिद्देशस्य वानुपपत्तेः, सत्प्रत्ययस्य सर्वत्र सर्वदा सद्भावात् । सत्प्रत्ययस्यैकरूपत्वेपि सत्तानेकत्वे च न किंचिदेकं स्यादिति कश्चित् सोऽसमीक्षिताभ्यधायी । सत्तायास्तद्वाह्यार्थेभ्यः सर्वथा भिन्नायाः प्रतीत्यभावात् तेभ्यः कथंचिद्भिन्नायास्तु प्रतीतौ तद्वत्सामान्यविशेषवत्त्वसिद्धे नोक्तोपालंभः ॥
[सू०८
9
सर्वमसदेवेति वदंतं प्रत्याह; -
सन्मात्रापह्नवे संवित्सत्त्वाभावान्न साधनम् । स्वेष्टस्य दूषणं वास्ति नानिष्टस्य कथंचन ॥ ३ ॥ संवेदनाधीनं हीष्टस्य साधनमनिष्टस्य च दूषणं ज्ञानात्मकं न च सर्वशून्यतावादिनः संवेदनमस्ति, विप्रतिषेधात् । ततो न तस्य च युक्तं । नापि परार्थं वचनात्मकं तत एवेति न सन्मात्रापहृवोपायात् संविन्मात्रं ग्राह्यग्राहकभावादिशून्यत्वाच्छून्यमिति चेत्;
ग्राह्यग्राहकभावादिशून्यं संवित्तिमात्रकम् । न स्वतः सिद्धमारेकाभावापत्तेरशेषतः ॥ ४ ॥ परतो ग्रहणे तस्य ग्राह्यग्राहकतास्थितिः । परोपगमतः सा चेत्स्वतः सापि न सिध्यति ॥ ५॥ कुतश्चिग्राहकात्सिद्धः पराभ्युपगमो यदि । ग्राह्यग्राहकभावः स्यात्तत्त्वतो नान्यथा स्थितिः ॥ ६ ग्राह्यग्राहकभावोतः सिद्धस्स्वेष्टस्य साधनात् । सर्वथैवान्यथा तस्यानुपपत्तिर्विनिश्चयात् ॥ ७ ॥
Jain Education International
न हि ग्राह्यग्राहकभावादिशून्यस्य संवेदनस्य स्वयमिष्टस्य साधनं स्वाभ्युपगमतः पराभ्युपगमतो वा स्वतः परतो वा परमार्थतः ग्राह्यग्राहकभावाभावे घटते, अतिप्रसंगात् । संवृत्या घटत एवेति चेत्, तर्हि संवेदनमात्रं परमार्थं सत् संवृत्तिसिद्धं । ग्राहकवेद्यत्वाद्भेदव्यवहारवत् स्वरूपस्य खतो गतिरितिचेत्, कुतस्तत्र संशयः ? तथा निश्चयानुपपत्तेरिति चेन्न, सुगतस्यापि तत्र तत्प्रसंगात् । तस्य विधूतकल्पनाजालत्वान्न खरूपे संशय इति चेत्; तदिदमनवस्थितप्रज्ञास्यसुभाषितं संवेदनाद्वैततत्त्वं प्रतिज्ञाय विधूतकल्पनाजालः सुगतः, पृथग्जनाः कल्पनाजालावृत्तमनस इति भेदस्य कथनात् कथं च संवेदनाद्वैतवादिनः संवृत्तिपरमार्थसत्यद्वयविभागः सिद्धः ? संवृत्त्येति चेत्, सोऽयमन्योन्यसंश्रयः । सिद्धे हि परमार्थसंवृत्तिसत्यविभागे संवृत्तिराश्रीयते तस्यां च सिद्धायां तद्विभाग इति कुतः किं सिद्ध्येत्, तन्न तत्त्वतो ग्राह्यग्राहकभावाभावे वेष्टसाधनं नामेति विनिश्वयः ॥
For Private & Personal Use Only
www.jainelibrary.org