________________
प्रथमोऽध्यायः।
१५५
बाध्यबाधकमावस्याप्यबाधेनिष्टसाधनं । स्वान्योपगमतः सिधेनेत्यसावपि तात्त्विकम् ॥८॥
न हि बाध्यबाधकभावादेरनिष्टस्याबाधनं खतः सर्वेषां प्रतिभासते, विप्रतिपत्तावभावप्रसंगात् । संविन्मात्रप्रतिभासनमेव तत्प्रतिभासनमिति चेत् न, तस्यासिद्धत्वात् । परतो बाधकादनिष्टस्य बाधनमिति
चेत् सिद्धस्तर्हि बाध्यबाधकभावः इति तन्निराकरणप्रकरणसंबंधं प्रलापमात्रं । संवृत्त्या अनिष्टस्य बाधनाद• दोष इति चेत् तर्हि तत्त्वतो न वा बाध्यबाधकमावस्य बाधनमिति दोष एव । पराभ्युपगमात् तद्वाधनमिति चेत् तस्य सांवृतत्वे दोषस्य तदवस्थत्वात् । पारमार्थिकत्वेपि तदनतिक्रम एवेति सर्वथा बाध्यबाधकभावाभावे तत्त्वतो नानिष्टबाधनमनुपपन्नम् ॥
कार्यकारणभावस्याभावे संविदकारणा । सती नित्यान्यथा व्योमारविंदादिवदनमा ॥९॥ सर्वथैवाफलत्वाच्च तस्याः सिध्येन वस्तुता । सफलत्वे पुनः सिद्धा कार्यकारणतांजसा ॥१०॥ न संविदकारणा नापि सकारणा नाफला नापि सफला यतोऽयं दोषः । किं तर्हि ? संवित्संविदेवेति चेत् , नैवं परमब्रह्मसिद्धेः संविन्मात्रस्य सर्वथाप्यसिद्धेः समर्थनात् ॥ वाच्यवाचकताप्येवमिष्टानिष्टात्मनोः स्वयम् । साधनाढूषणाच्चापि वाग्भिः सिद्धान्यथा न तत् ११
स्वयमिष्टानिष्टयोः साधनदूषणे परं प्रति वाग्भिः प्रकाशयित्वातीत्य वाचकभावं निराकरोति कथं खस्थः । नो चेत् कथमिष्टानिष्टयोः साधनदूषणमिति चिंत्यं । संवृत्त्या चेत् न तया तस्योक्तस्याप्यनुक्तसमत्वात् । खप्नादिवत्संवृत्तेदृषारूपत्वात् । तदमृषारूपत्वे परमार्थस्य संवृतिरिति नामकरणमात्रं स्यात्ततो न ग्राह्यग्राहकभावादिशून्यं संवित्तिमात्रमपि शून्यसाधनाभावात् सर्वशून्यतावत् ॥
तत्सत्प्ररूपणं युक्तमादावेव विपश्चिताम् । कान्यथा परधर्माणां निरूपणमनाकुलम् ॥ १२॥
सत्प्ररूपणाभावेऽर्थानां धर्मिणामसत्त्वात् क संख्यादिधर्माणां प्ररूपणं सुनिश्चितं प्रवर्तते शशविषाणादिवत् । कल्पनारोपितार्थेषु तत्प्ररूपणमिति चेत् न तेष्वपि कल्पनारोपितेन रूपेणासत्सु न तन्निरूपणं युक्तमतिप्रसंगात् । सत्सु तन्निरूपणे सत्प्ररूपणमेवादौ प्रेक्षावतां युक्तमिति निराकुलम् ॥
निर्देशवचनादेतद्भिन्नं द्रव्यादिगोचरात् । सन्मात्रविषयीकुर्वदर्थानस्तित्वसाधनम् ॥ १३ ॥ निर्देशवचनात्सत्त्वसिद्धेः सद्वचनं पुनरुक्तमित्यसारं, निर्देशवचनस्य द्रव्यादिविषयत्वात् सद्वचनस्य सन्मात्रविषयत्वात् भिन्नविषयत्वेन ततस्तस्य पुनरुक्तत्वासिद्धेः । न हि यथा जीवादयोसाधारणधर्माधाराः प्रतिपक्षव्यवच्छेदेन निर्देशवचनस्य विषयास्तथा सद्वचनस्य तेन सर्वद्रव्यपर्यायसाधनेन सत्त्वस्याभिधानात् । तस्यापि स्वप्रतिपक्षासत्त्वव्यवच्छेदेन प्रवृत्तेरसाधारणविषयत्वमेवेति चेन्न, असत्त्वस्य सदंतररूपत्वेन सद्वचनादव्यवच्छेदात् भवदपि सामर्थ्यान्नास्तित्वसाधनं सद्वचनं सप्रतिपक्षव्यवच्छेदेन सन्मात्रगोचरं निर्देशवचनाद्भिन्नविषयमेव ततो महाविषयत्वात् । निर्दिश्यमानवस्तुविषयं हि निर्देशवचनं न खामित्वादिविषयं, सद्वचनं पुनः सर्वविषयमिति महाविषयत्वं । सत्त्वमपि निर्दिश्यमानं निर्देशवचनेन विषयीक्रियमाणं न तस्याविषय इति चेन्न, स्वामित्वादिवचनविषयसत्त्वस्य तदविषयत्वात् । किं सदिति हि प्रश्ने स्यादुत्पादव्ययध्रौव्ययुक्तं सदिति निर्देशवचनं, न पुनः कस्य सत् केन कस्मिन् कियचिरं किं विधानमिति प्रश्वतरति तत्र स्वामित्वादिवचनानामेवावतारात् । नैवं, सद्वचनं किमित्यनुयोग एव प्रवर्तते सर्वथा सर्वानुयोगेषु तस्य प्रवृत्तेः । संख्या दिवचनविषये सद्वचनस्याप्रवृत्तेर्न सर्वविषयत्वमिति चेन्न, तस्यासत्त्वप्रसंगात् । न ह्यसंत एव संख्यादयः संख्यादिवचनैर्विषयीक्रियते तेषामसत्त्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org