________________
१५६ तत्त्वार्थश्लोकवार्तिके
[सू०८ प्रसंगात् । सतां न तेषां निर्विषयीकरणे सिद्धं । सद्वचनेनापि विषयीकरणमिति तदेव सर्वविषयत्वेन महाविषयं ततो न पुनरुक्तम् ॥
गत्यादिमार्गणास्थानैः प्रपंचेन निरूपणम् । मिथ्यादृष्ट्यादिविख्यातगुणस्थानात्मकात्मनः १४ कृतमन्यत्र प्रतिपत्तव्यमिति वाक्यशेषः । सोपस्कारत्वात् वार्तिकस्य सूत्रवत् । संख्या संख्यावतो भिन्ना न काचिदिति केचन । संख्यासंप्रत्ययस्तेषां निरालंबः प्रसज्यते१५
नैव संख्यासंप्रत्ययोस्तींद्रियजः तत्रैकस्मिन् खलक्षणप्रतिभासमाने स्पष्टमेकत्वसंख्यायाः प्रतिभासनाभावात् । न हीदं खलक्षणमियमेकत्वसंख्येति प्रतिभासद्वयमनुभवामः । नापि लिंगजोऽयं संख्यासंप्रत्ययः संख्याप्रतिबद्धलिंगस्य प्रत्यक्षसिद्धस्याभावात् । तत एव न शाब्दोऽयं प्रत्यक्षानुमानमूलः । योगिप्रत्यक्षमूलोऽयमिति चेन्न, तस्य तथावगंतुमशक्यत्वात् । ततोऽयं मिथ्याप्रत्ययो निरालंबन एवेति केचित् , तेषां तस्य दिशाविनियमो न स्यात् कारणरहितत्वादन्यानपेक्षणात् सर्वदा सत्त्वमसत्त्वं वा प्रसज्येत । अनिरालंबनोपि समनंतरप्रत्ययनियमात् प्रतिनियतोयमिति चेन्न बहिः संख्यायाः प्रतिनियताया प्रतीयते।। वासनामात्रहेतुश्चेत्सा मिथ्याकल्पनात्मिका । वस्तु सापेक्षिकत्वेन स्थविष्ठत्वादिधर्मवत् ।।१६।।
नीरूपेषु शशश्वाविषाणेष्वपि किं न सा तत्कल्पना सुसत्या सुखरूपेण तु सांजसा बहिर्वस्तुबु संख्याध्यवसीयमाना वासनामात्रहेतुका मिथ्याकल्पनात्मिकैवापेक्षिकत्वादिधर्मवदिति चेन्न, नीरूपेषु शशादिविषाणेष्वपि तत्प्रसंगात् । तत्कल्पनावस्त्येवेति चेत् तर्हि ताः कल्पनाः स्वरूपेण सत्याः किं वा न सत्याः ? न तावदुत्तरः पक्षः स्वमतविरोधात् । कथमिदानीं स्वरूपेण सत्यासु कल्पनालु संख्या परमार्थतो न स्यात् , ताखपि कल्पनांतरारोपितापेक्षिकत्वाविशेषात् । बहिर्वस्तुष्वेवेति चेत् , स्यादेवं यदि विकल्पनारोपितत्वेनापेक्षिकं व्याप्तं सिद्ध्येत् ।।
न चापेक्षिकता व्याप्ता नीरूपत्वेन गम्यते । वस्तु सत्स्वपि नीलादिरूपेष्वस्थाः प्रसिद्धितः१७
नीलनीलांतरयोहि रूपो यथा नीलापेक्षं नीलांतररूपं तथा नीलांतरापेक्षं नीलमिति नीलादिरूपेषु वस्तु सत्वपि भावादपेक्षिकताया न कल्पनारोपितत्वेन व्याप्तिरवगम्यते यतः संख्यांतरया बहिरंतन - रूपत्वं । यदि पुनरस्पष्टावभासित्वे सत्यापेक्षिकत्वादिति हेतुस्तदा साधनविकलो दृष्टांतः, स्थविष्ठत्वादिधर्माणां स्पष्टावभासित्वात् । तत्र भ्रांतमिति चेन्न, बाधकाभावात् । स्थविष्टत्वादिधर्मप्रतिभासो न स्पष्टो विकल्पत्वादनुमानादिविकल्पवदित्यनुमानं तद्बाधकमिति चेन्न, पुरोवर्तिनि वस्तुनौद्रिाजविकल्पेन स्पष्टेन व्यभिचारात् । तस्यापि पक्षीकरणादव्यभिचार इति चेत्तर्हि संभाव्यव्यभिचारी हेतुः स्पष्टत्वेन विकल्पत्वस्य विरोधासिद्धेः क्वचिद्विकल्पत्वस्यास्पष्टत्वेन दर्शनात् । स्पष्टत्वेन विरोधे चंद्रद्वयप्रतिभासत्वस्य सत्यत्वेनादर्शनात् स्वसंवित्प्रतिभासत्वस्यापि सत्यत्वं मा भूत् तथा तद्विरोधसिद्धेरविशेषात् । अथ प्रतिभासित्वाविशेषेपि खसंवित्प्रतिभासः सत्यः शशिद्वयप्रतिभासश्चासत्यः संवादादसेवादाचोच्यते तर्हि विकल्पत्वाविशेषपींद्रियजविकल्पः स्पष्टः साक्षादर्थग्राहकत्वात् नानुमानादिविकल्पोऽसाक्षादर्थवाहकत्वादित्यनुमन्यतां । तथा चेंद्रियजविकल्पे व्यभिचार एव निर्विकल्पत्वादिंद्रियजन्य ज्ञानस्यानिद्रियजो विकल्पोस्तीतिचेन्न, तस्याने व्यवस्थापयिष्यमाणत्वात् ततो नावस्पष्टावभासित्वं दृष्टांतेस्तीति । साधनवैकल्यमेव सर्वत्र संख्यायां च तन्नास्तीति पक्षाव्यापको हेतुर्वनस्पति चैतन्ये वापवत् । न हि स्पष्टावभासिष्वर्थेष्वस्पष्टावभासित्वं संख्यायाः प्रसिद्धं । न च तत्र स्पष्टसंख्यानुभवाभाव तदनुसारी विकल्पः पाश्चात्यो युक्तः, पीतानुभवाभावे पीतविकल्पवत् तदमिलापविकल्पे वासना । तस्माद्युक्त एवेति चेत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org