________________
प्रथमोऽध्यायः। तर्हि पीतादिविकल्पोपि तत एवेति न पीताद्याकारो वास्तवोर्थेषु संख्यावदिति नीरूपत्वं । सत्येंद्रियज्ञानेवभासनात् पीताद्याकारो वास्तव एवेति चेत् तत एव संख्या वास्तवी किं न स्यात् । न हि सा तत्र नावभासते तदवभासाभावात् कस्यचित्तदक्षव्यापारांतरांतरं तदनिश्चयात् तदविज्ञाने तस्याः प्रतिभासनमिति चेत् , तत एव पीताद्याकारः स्यात्तत्र तन्मा भूत् । यदि पुनरभ्यासादिसाकल्ये सर्वस्याक्षव्यापारांतरं • पीताद्याकारेषु निश्चयोत्पत्तेस्तद्वेदने तत्प्रतिभासनमिति मतं तदा संख्याप्रतिभासनमपि तत एवानुमन्यतां । न हि तदभ्यासादिप्रत्ययासाकल्ये सर्वस्याक्षव्यापारान्निश्चयः संख्यायामसिद्ध इति कश्चित् पीताद्याकाराद्विशेषः संख्यावत्पीताद्याकाराणामपि वस्तुन्यभाव एवेति वायुक्तं, सकलाकाररहितस्य वस्तुनोऽप्रतिभासनात् पुरुषाद्वैतवत् । विधूतसकलकल्पनाकलापं खसंवेदनमेव स्वतः प्रतिभासमानं सकलाकाररहितं वस्तु मतमिति चेत् तदेव ब्रह्मतत्त्वमस्तु न च तत्प्रतिभासते कस्यचिन्नानकात्मन एव सर्वदा प्रतीतेः । सर्वस्य प्रतीत्यनुसारेण तत्त्वव्यवस्थायां बहिरंतश्च वस्तुभेदस्य सिद्धेः । कथं पीताद्याकारवत् संख्यायाः प्रतिक्षेपः प्रतीत्यतिक्रमे कुतः खेष्टसिद्धिरित्युक्तप्रायं । ततः
सा चैकत्वादिसंख्येयं सर्वेष्वर्थेषु वास्तवी । विद्यमानापि निर्णीतिं कुर्याद्धेतोः कुतश्चन ॥१८॥ प्रतिक्षणविनाशादि बहिरंतर्यथास्थितेः । स्वावृत्त्यपायवैचित्र्याद्बोधवैचित्र्यनिष्ठितेः ॥ १९ ॥
न हि प्रमेयस्य सत्तैव प्रमातुनिश्चये हेतुः सर्वस्य सर्वदा सर्वनिश्चयप्रसंगात् । नापींद्रियादिसामग्रीमात्रं व्यभिचारात् । खावरणविगमाभावे तत्सद्भावेपि प्रतिक्षणविनाशादिषु बहिरंतश्च निश्चयानुत्पत्तेः, खावरणविगमविशेषवैचित्र्यादेव निश्चयवैचित्र्यासिद्धेरन्यथानुपपत्तेः । तथा सति नियतमेकत्वाद्यशेषं संख्या सर्वेष्वर्थेषु विद्यमानापि निश्चयकारणस्य क्षयोपशमलक्षणस्याभावे निश्चयं जनयति तद्भाव एव कस्यचित्तदनिश्चयात् ॥ .
यत्रैकत्वं कथं तत्र द्वित्वादेरपि संभवः । परस्परविरोधाच्चेत्तयो वं प्रतीतितः ॥ २० ॥ प्रतीते हि वस्तुन्येकत्वसंख्या द्वितीयाद्यपेक्षायां द्वित्वादिसंख्या वा नैकस्थत्वात्तस्यास्ततो न विरोधः ॥ वस्तुन्येकत्र दृष्टस्य परस्परविरोधिनः । वृत्तिधर्मकलापस्य नोपालंभाय कल्पते ॥ २१ ।। स्थाद्वादविद्विषामेव विरोधप्रतिपादनात् । यथैकत्वं पदार्थस्य तथा द्वित्वादि वांछताम् ।।२२।।
ये खलु पदार्थस्य येन रूपेणैकत्वं तेनैव द्वित्वादि वांछंति तेषामेव स्याद्वादविद्विषां विरोधस्य प्रतिपादनात् । “विरोधान्नोभयैकात्म्यं स्वाद्वादन्यायविद्विषा" इति वचनात् न स्याद्वादिनामेकत्वादिधर्मकलापस्य परस्परं प्रतिपक्षभूतस्य वृत्तिरेकत्रैकदा विरुध्यते तथा दृष्टत्वात् । ततो नोपालंभः प्रकल्पनीयः ॥ स्याद्वादिनां कथं न विरुद्धता उभयैकात्म्याविशेषादिति चेत् ;येनैकत्वं स्वरूपेण तेन द्वित्वादि कथ्यते । नैवानंतात्मनोऽर्थस्येत्यस्तु केयं विरुद्धता ॥२३॥ द्वितीयाद्यनपेक्षेण हि रूपेणार्थस्यैकत्वं तदक्षिण द्वित्वादिकामात दूरोत्सारितैव विरुद्धताऽनयोः खरूपभेदः पुनरनंतात्मकत्वात्तस्य तत्त्वतो व्यवतिष्ठते कल्पनारोपितस्य तस्य निराकरणात् भवंश्चैकत्वादीनामेकत्र सर्वथाप्यसतां विरोधः स्यात्सतां वा । किं चातः ।
सर्वथैवासतां नास्ति विरोधः कूर्मरोमवत् । सतामपि यथा दृष्टस्वेष्टतत्त्व विशेषवत् ॥ २४ ॥
न सर्वथाप्यसतां विरोधो नापि यथा दृष्टसतां । किं तर्हि, सहैकत्रादृष्टानामिति चेत् कथमिदानीमेकत्वादीनामेकत्र सकृदुपलभ्यमानानां विरोधः सिद्धयेत् ? मूर्तत्वादीनामेव तत्त्वतो भेदनयात्तत्सिद्धेः । ननु च यथैकस्यार्थस्य सर्वसंख्यात्मकत्वं तथा सर्वार्थात्मकत्वमस्तु तत्कारणत्वादन्यथा तदयोगात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org