________________
अथ पञ्चमोऽध्यायः ॥ ५॥
अजीवकाया धर्माधर्माकाशपुद्गलाः॥१॥ किमर्थास्य सूत्रस्य प्रवृत्तिरत्रेत्याह;अथाजीवविभागादिविवादविनिवृत्तये । अजीवेत्यादिसूत्रस्य प्रवृत्तिरुपपद्यते ॥१॥ सम्यग्दर्शनविषयभावेन जीवोद्दिष्टे दृष्टेष्टजीवतत्त्वव्याख्यानमर्हत्येव, तत्र च लक्षणविभागविशेषलक्षणविप्रतिपत्तौ तद्विनिवृत्त्यर्थास्य सूत्रस्य प्रवृत्तिर्घटत एवान्यथा निःशंकमजीवतत्त्वाव्यवस्थानात् ॥
अजीवनादजीवाः स्युरिति सामान्यलक्षणं । कायाः प्रदेशवाहल्यादिति कालाद्विशिष्टता ॥२ धर्मादिशब्दतो बोध्यो विभागो भेदलक्षणः । तेन नैकं प्रधानादिरूपता नाप्यनंशता ॥३॥ निःशेषाणामजीवानामिति सिद्धं प्रतीतितः । विपक्षे बाधसद्भावाद् दृष्टेनेटेन च स्वयम् ॥४॥
जीवस्योपयोगो लक्षणं जीवनमिति प्रतिपादितं ततोन्यदजीवनं गतिस्थित्यवगाहहेतुत्वरूपादिस्वरूपमन्वयिसाधारणमजीवानां लक्षणं । त्रिकालविषयाजीवनानुभवनादजीव इति निरुक्तरव्यभिचारान्न पुनर्जीवनाभावमात्रं तस्य प्रमाणागोचरत्वात् पदार्थलक्षणत्वायोगात् भावांतरखभावस्यैवाभावस्य व्यवस्थापनात् । काया इव कायाः प्रदेशबाहुल्यात् कालाणुवदणुमात्रत्वाभावात् । ततो विशिष्टाः पंचैवास्तिकाया इति वचनात् । अजीवाश्च ते कायाश्चेति समानाधिकरणावृत्तिः सामर्थ्यादवसीयते, भिन्नाधिकरणायां वृत्तौ कथंचिद्भेदविवक्षायामपि कायानामेव संप्रत्ययप्रसंगात् । जीवानां विशेषणभावात् सामानाधिकरण्यायामपि वृत्तौ दोषोयमिति चेन्न, अभेदप्रतीतेः । अजीवा एव काया इति धर्मादीनामजी. धत्वकायत्वाभ्यां तादात्म्यप्राधान्ये तयोः सामानाधिकरण्योपपत्तेः । काया इत्येवास्तु इति चेन्न, जीवस्यापि कायत्वात् तद्यवच्छेदार्थत्वादजीवग्रहणस्य । धर्मादीनामजीवत्वविधानार्थत्वाच्च सूत्रस्य युक्तमजीवग्रहणं । तद्दजीवा इत्येवास्तु इति चेन्न, कालाणुव प्रदेशमात्रत्वनिराकरणार्थत्वात् कायग्रहणस्य । अन्यथा तेऽस्तिकाया इति सूत्रांतरारंभप्रसंगात् । जीवानां कायत्वविधानार्थमारंभणीयमेव सूत्रांतरमिति चेत् ; नारंभणीयं, असंख्येयाः प्रदेशा धर्माधर्भेकजीवानामित्यत एव जीवानां प्रदेशबाहुल्यसिद्धेः कायत्वविधानात् । तर्हि धर्माधर्मयोस्तत एव, आकाशस्यानंता इति वचनादाकाशस्य, संख्येयासंख्येयानंताश्च पुद्गलानामिति वचनात् पुद्गलस्य कायत्वविधानसिद्धेरपार्थकं कायग्रहणमिति चेन्न, ततो धर्मादिप्रदेशानामियत्ताविधानात् । तर्हि जीवस्यापि ततोऽसंख्येयप्रदेशत्वविधानान्न कायत्वविधिरिति चेन्न, ततो जीवस्य कायत्वानुमानात् । न चात्र धर्मादीनां कायत्वविधाने तत्र जीवस्य कायत्वमनुमातुं शक्यमिति युक्तमिह कायग्रहणं । अस्तिकायो जीवः प्रदेशेयत्ताश्रयत्वाद्धर्मादिवदित्यनुमानप्रवृत्तेः, अन्यथा दृष्टांतासिद्धेः । किमर्थं धर्मादिशब्दानां वचनं? विभागविशेषलक्षणप्रसिद्ध्यर्थे । अस्तु नाम धर्माधर्माकाशपुद्गला इति शब्दोपादानात् विभागस्य प्रसिद्धिः, विशेषलक्षणस्य तु कथं ? तन्निर्वचनस्य लक्षणाव्यभिचारात् तद्विशेषलक्षणसिद्धिः । सकृत्सकलगतिपरिणामिनां सांनिध्यधानाद्धर्मः, सकृत्सकलस्थितिपरिणामिनामसांनिध्यधानाद्गतिपर्यायादधर्मः, आकाशंतेऽस्मिन् द्रव्याणि खयं वाकाशते इत्याकाशं, त्रिकाल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org