________________
३९१
चतुर्थोऽध्यायः। जायंते ते विनश्यति संति च क्षणमात्रकं । पुमांसो न विवर्तते वृद्ध्यपक्षयगाश्च न ॥ १२ ॥ इति केचित्प्रध्वस्तास्तेप्येतेनैवाविगानतः । विवाद्यात्मतापाये सत्त्वस्यानुपपत्तितः॥१३॥ यथैव हि जन्मविनाशास्तित्वापेक्षणमपि न परमार्थसत्त्वं तथा विवर्तनपरिवर्धनपरिक्षयणात्मकत्वापायेपि तथा प्रतीयते, अन्यथा कूटस्थात्मनीव खे पुष्पवद्वा चेतनस्य सत्त्वानुपपत्तेः । खभावांतरेणोपपत्तिरेव परिणामो वृद्धिश्चाधिक्येनोत्पत्तिरपक्षयस्तु विनाश एवेति न षडिकारो जीव इति चेन्न, अन्वितखभावापरित्यागेन सजातीयेतरखभावांतरमात्रप्राप्तेः परिणामत्वादाधिक्येनोत्पत्तेश्च वृद्धित्वाद्देशतो विनाशस्यापक्षयत्वात्परिणामादीनां विनाशोत्पादास्तित्वेभ्यः कथंचिढ़ेदवचनात् । जीवस्यान्वितस्वभावासिद्धेयथोक्तपरिणामादनुपपत्तिरिति चेन्न, तस्य पुरस्तादन्वितस्य भावस्य प्रमाणतः साधनात् । ततो न जीवस्यैकानेकात्मकत्वे साध्ये सत्त्वादित्ययं हेतुरसिद्धोऽनैकांतिको विरुद्धो वा, जन्माद्यनेकविकारात्मकत्वापायेन्वितैकत्वभावाभावे च सर्वथा सत्त्वानुपपत्तेः । एतेनानेकवाग्विज्ञानविषयत्वमात्मनो निवेदितं । तथानेकशक्तिप्रचितत्वं वस्त्वंतरसंबंधाविर्भूतानेकसंबंधिरूपत्वं अन्यापेक्षानेकरूपोत्कर्षापकर्षपरिणतगुणसंबंधित्वं अतीतानागतवर्तमानकालसंबंधित्वं उत्पादव्ययध्रौव्ययुक्तत्वं अन्वयव्यतिरेकात्मकत्वं च समर्थितं । तस्य जन्मादिविकारषट्रप्रपंचात्मकत्वात्सत्त्वव्यापकत्वोपपत्तेः । सत्त्वान्यथानुपपत्त्या प्रसिद्धं च तत्सर्वमेकात्मकत्वमनेकात्मकत्वं च जीवस्य साधयति तदन्यतरापाये अनेकवाग्विज्ञानविषयत्वाद्यनुपपत्तेः । तदनुपपत्तौ सत्त्वानुपपत्तेश्च जीवतत्त्वाव्यवस्थितिप्रसंगात् । तत्र जन्मादिविकारप्रपंचस्याविद्योपकल्पितत्वे क्रमाक्रमयोरप्यविद्योपकल्पितत्वप्रसक्तिः । ततश्चार्थक्रियाप्यविद्याविनँभितैवेति न सत्त्वं परमार्थतः प्रसिद्ध्येत् । तत एव संचिन्मानं तत्त्वमित्ययुक्तं, तस्य ब्रह्माद्यद्वैतवदप्रतीतेरिति प्रपंचेन समर्थितत्वात् । नानैकात्मतया प्रतीतेरंतर्बहिश्च सुनिश्चितासंभवबाधकत्वसिद्धेश्च सिद्धो नानैकात्मको जीवः ।।
ततः स्वतत्त्वादिविशेषचिंतनं घटेत जीवस्य नयप्रमाणतः । क्रमाद्यनेकांततया व्यवस्थितेरिहोदितन्यायवलेन तत्त्वतः ॥ १४ ॥
इति चतुर्थाध्यायस्य द्वितीयमाह्निकम् । इति श्रीविद्यानंदिआचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालंकारे चतुर्थोऽध्यायः समाप्तः ॥ ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org