________________
३९० तत्त्वार्थश्लोकवार्तिके
[सू० ४१ व्यभिचारवर्जितत्वासंभवात् । अथ किमेते संसारिणो जीवाः कर्मवैचित्र्यात् स्थितिवैचित्र्यमनुभवंतो नानात्मानः प्रत्येकायतैकात्मानः इति ? यदि नानात्मानस्तदा नु संबंधानाद्यभावः स्यादेकसंतानेपि नानासंतानवत् । अथैकात्मानस्तदानुभवस्मरणादिसंक्रमानुपपत्तिः पौर्वापर्यायोगादिति वदंतं प्रत्याहततः संसारिणो जीवाः स्वतत्त्वादिभिरीरिताः । नानैकात्मतया संतो नान्यथार्थक्रियाक्षतेः ६
यस्माद्वितीयाध्याये स्वतत्त्वलक्षणादिभिः स्वभावैः संसारिणो जीवाः प्रत्येकं निश्चितास्तृतीयचतुर्थाध्याययोश्चाधारादिविशेषैर्नानाविधैरध्यवसितास्ततो नानैकात्मतया व्यवस्थिताः । न पुनर्नानात्मान एवैकात्मान एव वा सर्वार्थक्रियाविरहात्तेषामसत्त्वप्रसंगात् । संश्च सर्वसंसारी जीव इति निश्चितप्रायं, अभावविलक्षणत्वं हि सत्त्वं तच्च नास्तीत्येकखभावाद्धि भावाद्वैलक्षण्यं ॥ नानाखभावत्वं जीवस्य कुत इत्याह;
जन्मास्तित्वं निवृत्तिं च क्रमाद्धिमपक्षयं । विनाशं च प्रपद्यते विकारं षड्विधं हि ते ॥७॥ सर्वो हि भावो जन्म प्रतिपद्यते निमित्तद्वयवशादात्मलाभमापद्यमानस्य जायत इत्यस्य विषयत्वात् । यथा सुवर्ण कटकादित्वेन अस्तित्वं च प्रतिपद्यते खनिमित्तवशादवस्थामाविभ्रतोर्थस्यास्तीति प्रत्ययाभिधानगोचरत्वात् । निवृत्तिं च प्रपद्यते तत एवावस्थांतरावाप्तिदर्शनात् परिणमते इत्यस्य विषयत्वात् । वृद्धिं च प्रतिपद्यते अनिवृत्तपूर्वखभावस्य भावांतरेणाधिक्यं लभमानस्य वर्द्धते इत्यस्य विषयत्वात् । अपक्षयं च प्रपद्यते क्रमेण पूर्वभावैकदेशविनिवृत्तिं प्रामुवतो वस्तुनोपक्षीयत इत्यस्य विषयत्वात् । विनाशं च प्रतिपद्यते, तत्पर्यायसामान्यनिवृत्तिं समासादयतोर्थस्य नश्यतीत्यस्य गोचरत्वात् । तथा जीवा अपि भावाः संतः षडिधं विकारं प्रपद्यते अभावविलक्षणत्वादित्येके, तेषां यद्यवस्तुविलक्षणत्वं सत्त्वं धर्मस्तदा न सम्यगिदं साधनं । प्रतिक्षणपरिणामेनैकेन अभावविलक्षणत्वं वस्तुत्वं तदा युक्तं । ततो जीवस्य षडिकारप्राप्तिस्वाधनं वस्तुत्वस्य तदविनाभावसिद्धेः । अथासत्त्वधर्मविलक्षणत्वं सत्त्वं धर्मस्तदा न सम्यगिदं साधनं प्रतिक्षणपरिणामैकेन ऋजुसूत्रविषयेण व्यवहारनयगोचरेण द्रव्येण च व्यभिचारात् तस्य षडिधविकाराभावेपि सत्त्वधर्माश्रयत्वेनाभावविलक्षणत्वसिद्धेरन्यथा सिद्धांतविरोधात् ॥ ननु च वस्तुत्वमप्यभावविलक्षणत्वं न जीवानां षड्डिधविकारप्राप्तिं साधयति तस्यास्तित्वमात्रेण व्याप्तत्वादिति मन्यमानं प्रत्याह;-- बिभ्रतेस्तित्वमेवैते शश्वदेकात्मकत्वतः । नान्यं विकारमित्येके तन्न जन्मादिदृष्टितः ॥ ८॥
एतेष्वस्तित्वादिषु मध्ये अस्तित्वमेवात्मानो बिभ्रति नान्यं पंचविधं जन्मादिविकारं तेषां नित्यैकरूपत्वात् स्वरूपेण शश्वदस्तित्वोपपत्तेरित्येके । तन्न सम्यक्, तेषां जन्मादिदर्शनात् । मनुष्यादीनां हि देहिनां बाल्यादिभावेन जन्मादयः प्रतीयंते मुक्तात्मनामपि मुक्तत्वादिना ते संभाव्यंत इति प्रतीतिविरुद्धं जीवानां जन्मादिविकारविकलत्ववचनम् ॥
जन्मादयः प्रधानस विकाराः परिणामिनः । तत्संसर्गात्प्रतीयंते भ्रांते पुंसीति चेन्न वै ॥९॥ तेषां भावविकारत्वादात्मन्यप्यविरोधतः । जन्मादिरहितस्यास्याप्रतीते भ्रांत्यसिद्धितः॥१०॥ विकारी पुरुषः सत्त्वाद्बहुधानकवत्तव । सर्वथार्थक्रियाहानेरन्यथा सत्त्वहानितः ॥ ११ ॥
यथा हि प्रधानं भावस्तथात्मापि सन्नभ्युपगंतव्यः । सत्त्वं चार्थक्रियया व्याप्तं तदभावे खपुष्पवत्सत्त्वानुपपत्तेः । सा चार्थक्रिया क्रमयोगपद्याभ्यां व्याप्ता, तद्विरहेर्थक्रियाविरहात्तद्वत् । ते च क्रमयोगपद्ये विकारत्वेन व्याप्ते जन्मादिविकाराभावे क्रमानुपलब्धेरात्मनोऽसत्त्वप्रसक्तेरित्युक्तप्रायं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org