SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः। ३८९ दशवर्षसहस्राणि प्रथमायाम् ॥ ३६ ॥ पृथिव्यां नरकाणामवरस्थितिरिति घटनीयं ॥ भवनेषु च ॥ ३७॥ दशवर्षसहस्राणि देवानामवरा स्थितिरिति संप्रत्ययः ॥ व्यंतराणां च ॥ ३८॥ अपरा स्थितिर्दशवर्षसहस्राणीति चशब्देन समुचीयते ॥ दशवर्षसहस्राणि प्रथमायामुदीरिता । भवनेषु च सा प्रोक्ता व्यंतराणां च तावती ॥१॥ अथ व्यंतराणां परा का स्थितिरित्याह;-- परापल्योपममधिकम् ॥ ३९ ॥ स्थितिरिति संबंधः ॥ ज्योतिष्काणां च ॥४०॥ पल्योपममधिकं परा स्थितिघटना । तदष्टभागोऽपरा ॥ ४१ ॥ स्थितियॊतिप्काणामिति संप्रत्ययस्तेषामनंतरत्वात् ॥ परेषामधिकं ज्ञेयं पल्योपममवस्थितिः । ज्योतिष्काणां च तद्वत्तदष्टभागोऽपरोदिता ॥१॥ यथा व्यंतराणां पल्योपममधिकं परा स्थितिः तद्वत् ज्योतिष्काणामपि तद् ज्ञेयं तदष्टभागः । पुनरवरा स्थितियॊतिष्काणां प्रतीता । अथ मध्यमा स्थितिः कुतोवगम्यत इत्याह; सामर्थ्यान्मध्यमा बोध्या सर्वेषां स्थितिरायुषः । प्राणिनां सा च संभाव्या कर्मवैचित्र्यसिद्धितः॥२ ननु यद्ववटादीनां विचित्रा स्थितिरिष्यते । कर्मानपेक्षिणां तद्वदेहिनामिति ये विदुः॥३॥ तेऽनभिज्ञा घटादीनामपि तद्भोक्तृकर्मभिः । स्थितेर्निष्पादनादृष्टकारणव्यभिचारतः ॥४॥ सूक्ष्मो भूतविशेषश्चेद्यभिचारेण वर्जितः । तद्धेतुर्विविधं कर्म तन्न सिद्धं तथाख्यया ॥५॥ परापरस्थितिवचनसामर्थ्यात् मध्यमानेकविधा स्थितिर्देवनारकाणां तिर्यङ्मनुष्याणामिव संभाव्या। सा च कर्मवैचित्र्यसिद्धिं प्राप्य व्यवतिष्ठते ततः कर्मवैचित्र्यमनुमीयते । स्थितिवैचित्र्यसिद्धेरन्यथानुपपत्तेः । कर्मवैचित्र्याभावेपि घटादीनां स्थितिवैचित्र्यदर्शनादसिद्धान्यथानुपपत्तिरिति येऽभ्यमन्यंत तेऽनभिज्ञा एव, घटादीनामपि विचित्रायाः स्थितेस्तदुपभोक्तप्राणिकर्मभिर्विचित्रैर्निवर्तनात् , कुंभकारादिदृष्टतत्कारणानां व्यभिचारात् । अदृष्टकारणानपेक्षित्वे तदघटनात् । समानकुंभकारादिकारणानां समानकालजन्मनां सदृशक्षेत्राणां समानकारणानां च घटादीनां समानकालस्थितिप्रसंगात् । मुद्गरादिविनाशकरणसंपातवैचित्र्याद् दृष्टादेव घटस्थितिवैचित्र्यमिति चेत् , तदेव कुतः? समानकारणादित्वेपि तेषामिति चिंत्यं । स्वकारणविशेषाद् दृष्टादेवेति चेन्न, मुद्रादिविनाशकारणसंपातहेतोः पुरुषप्रयत्नादेः परिदृष्टस्य व्यभिचारात् । समानेपि तस्मिन् क्वचित्तत्संपातादर्शनात् । समानेपि च तत्संपाते तद्विनाशाप्रतीतेः कारणांतरस्य सिद्धेः । सूक्ष्मो भूतविशेषः सर्वथा व्यभिचारवर्जितो विविधः कारणांतरमिति चेत् , तदेव कर्मास्माकं सिद्धं तस्य सूक्ष्मभूतविशेषसंज्ञामात्रं तु भिद्यते परिदृष्टस्य सूक्ष्मभूतविशेषस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001683
Book TitleTattvarthashloakvarttikam
Original Sutra AuthorVidyanandi
AuthorManoharlal
PublisherRamchandra Natharangji Mumbai
Publication Year1918
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy