________________
३८८ तत्त्वार्थश्लोकवार्तिके
[सू० ३५ सानत्कुमारमाहेंद्रयोः सप्त ॥ ३०॥ अधिकारात् सागरोपमाधिकानि चेति संप्रत्ययः ॥
त्रिसप्तनवैकादशत्रयोदशपंचदशभिरधिकानि तु ॥ ३१ ॥ सप्तेत्यनुवर्तते, तेन सानत्कुमारमाहेंद्रयोरुपरि द्वयोः कल्पयोः सप्तसागरोपमाणि त्रिभिरधिकानि इति . दश साधिकानि स्थितिः, तयोरुपरि द्वयोः कल्पयोः सप्त सप्ताधिकानीति चतुर्दशाधिकानीति, तयोरुपरि द्वयोः सप्त नवभिरधिकानीति षोडशाधिकानि, तयोरुपरि द्वयोः सप्तैकादशभिरधिकानीत्यष्टदशाधिकानि, तयोरुपरि द्वयोरानतप्राणतयोः सप्तत्रयोदशभिरधिकानीति विंशतिरेव, तयोरुपरि द्वयोरारणाच्युतयोः सप्तपंचदशभिरधिकानीति द्वाविंशतिरेव । तुशब्दस्य विशेषणार्थत्वात् । आसहस्रादधिकारात् परत्राधिकानीत्यभिसंबंधाभावः ॥ आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु
सर्वार्थसिद्धौ च ।। ३२॥ अधिकारादधिकसंबंधः । ग्रैवेयकेभ्यो विजयादीनां पृथग्रहणमनुदिशसंग्रहार्थं । प्रत्येकमेकैकवृद्ध्यभिसंबंधार्थ नवग्रहणं । सर्वार्थसिद्धस्य पृथग्ग्रहणं विकल्पनिवृत्त्यर्थ ॥
का पुनरियं भवनवास्यादीनां स्थितिरुक्तेत्याह;स्थितिरित्यादिसूत्रेण योक्ता भवनवासिनां । विशेषेण स्थितिर्या च तदनंतरकीर्तिता ॥ १॥ सूत्रैश्चतुर्भिरभ्यासायथागमविशेषतः । परा वैमानिकानां च सोत्तरत्रावरोक्तितः ॥३॥
अवरायाः स्थितेरुत्तरत्र वचनादिह भवनवासिनामेकेन सूत्रेण वैमानिकानां च चतुर्भिः सूत्रैविशेषेण या स्थितिः परोक्ता सा परोत्कृष्टेति गम्यते ॥ का पुनरवरेत्याह;
__ अपरा पल्योपममधिकम् ॥ ३३ ॥ परिशेषात्सौधर्मेशानयोर्देवानामवरा स्थितिरियं विज्ञायते, ततोन्येषामुत्तरत्र जघन्यस्थितेर्वक्ष्यमाणत्वात् ॥ पल्योपममतिरिक्तमवरास्थितिमब्रवीत् । सौधर्मेशानयोः सेह सूत्रेर्थात्संप्रतीयते ॥ १॥ तत एवानंतरसूत्रेण सानत्कुमारादिषु जघन्या स्थितिरुच्यते;
परतः परतः पूर्वा पूर्वानंतरा ॥ ३४ ॥ अपरेत्यनुवर्तते, तेन परतः परतो या च परा स्थितिः सा पूर्वा पूर्वानंतरा परस्मिन्नवरा स्थितिरिति संप्रत्ययः । अधिकग्रहणानुवृत्तेः सातिरेकसंप्रत्ययः । आ विजयादिभ्योधिकारः । अनंतरेति वचनं व्यवहितनिवृत्त्यर्थ । सर्वेत्येतावत्युच्यमाने व्यवहितग्रहणप्रसंगस्तत्रापि पूर्वशब्दप्रवृत्तेः ॥
नारकाणां च द्वितीयादिषु ॥ ३५॥ किमर्थ नारकाणां जघन्या स्थितिरिह निवेदितेत्याह;सानत्कुमारमाहेंद्रप्रभृतीनामनंतरे । यथा तथा द्वितीयादिपृथिवीषु निवेदिता ॥१॥ नारकाणां च संक्षेपादत्रैव तदनंतरे देवस्थितिप्रकरणेपि नारकस्थितिवचनं संक्षेपार्थे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org