________________
•
चतुर्थोऽध्यायः ।
३८७
वैजयंता पराजितानामनुदिशानामप्यस्तीति तत्रादिशब्देन गृह्यंते । सर्वार्थसिद्धस्य ग्रहणप्रसंग इति चेन्न, तस्यान्वर्थसंज्ञाकरणात् पृथगुपादानाच्च लौकांतिकवदेकचरमत्वसिद्धेः । कथं पुनर्विजयादीनां द्विचरमत्वं मनुप्यभवापेक्षायां तथैव व्याख्याप्रज्ञप्तिदंडकेऽभिधानात् । देवभवापेक्षायामपि त्रिचरमत्वप्रसंगात् । मनुष्यभवस्य पुनरेकस्य मुख्यचरमत्वं येनैव निर्वाणप्राप्तेः । अपरस्य तु चरमप्रत्यासत्तेरुपचरितं चरमत्वं सजातीयस्य व्यवधायकस्याभावात् तस्य तत्प्रत्यासत्तिसिद्धेः । द्वौ चरमौ मनुष्यभवौ येषां ते द्विचरमाः देवाः विजयादिषु प्रतिपत्तव्याः । अथान्यत्र सौधर्मादिषु कियच्चरमा देवा इत्यावेदयितुमाह ;
तथा द्विचरमाः प्रोक्ता विजयादिषु यतोऽमराः । ततोन्यत्र नियामोस्ति न मनुष्य भवेष्विह ।। १ यतो लौकांतिकानां सर्वार्थसिद्धस्य शक्रस्य च तदग्रमहिष्या लोकपालादीनामेकचरमत्वमुक्तं तथा विजयादिदेवानां द्विचरमत्वं, ततोन्यत्र सौधर्मादिषु नियमो नास्तीति गम्यते ॥
इत्येकादशभिः सूत्रैर्वैमानिकनिरूपणं । युक्तत्यागमवशादात्तं तन्निकायचतुष्टयम् ॥ २ ॥ इति तत्त्वार्थश्लोकवार्तिकालंकारे चतुर्थाध्यायस्य प्रथममाह्निकम् ।
औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥ २७ ॥
औपपादिकाश्च मनुष्याश्चौपपादिकमनुष्या इत्यत्र द्वंद्वेभ्यर्हितत्वादौ पपादिकशब्दस्य पूर्वनिपातः । मनुष्यशब्दस्याल्पाक्षरत्वेपि तस्मादुत्तरत्र प्रयोगः, अभ्यर्हितत्वस्याल्पाक्षरापवादत्वात् । तेभ्योन्ये शेषाः संसारिणः तिर्यग्योनयः प्रत्येयाः, तिर्यग्नामकर्मोदयसद्भावात् । न पुनः सिद्धाः संसारिप्रकरणे तदप्रसंगात् । कस्मात्पुनर्हि तेभिधीयते ? तिर्यक्प्रकरणे तेषामभिधानार्हत्वात् इत्याशंकमानं प्रत्याह ;
सर्वलोकाश्रयाः सिद्धास्तिर्यचोप्यर्थतोंगिनः । संतौपपादिकेभ्यस्ते मनुष्येभ्योपि चापरे ॥ १ ॥ इति संक्षेपतस्तिर्यग्योनिजानां विनिश्चयः । कृतोत्र सूत्रकारेण लक्षणावास भेदतः ॥ २ ॥
अधोलोकं मध्यलोकमूर्ध्वलोकं चाभिधाय यदत्र प्रकरणाभावेपि तिर्यग्योनिजानां निरूपणं सूत्रका - रेण कृतं तत्तेषां सर्वलोकाश्रयत्वप्रतिपत्त्यर्थं संक्षेपार्थं च । तिर्यक्प्रकरणेस्य सूत्रस्याभिधाने सर्वतिर्यग्भेदवचने सति सूत्रस्य गौरवप्रसंगात् सर्वलोकाश्रयत्वं पुनरेषां परिशेषात् योज्यते । तिर्यग्योनयो द्विविधाः सूक्ष्मा बादराश्च, सूक्ष्मबादरनामकर्मद्वैविध्यात् । तत्र सूक्ष्माः सर्वलोकवासिनः, बादरास्तु नियतावासा इति नियतावासभेदनिरूपणं तिर्यग्योनिशब्दनिरुक्तया लक्षणनिरूपणं तिरश्ची न्यग्भूतोपजाता योनिर्येषां ते तिर्यग्योनय इति । मनुष्यादीनां केषांचित् परोपबाह्यत्वात् तिर्यग्योनित्वप्रसंगादिति चेन्न, तिर्यग्ग्रामकर्मोदये सतीति वचनात् ॥
संप्रति भवनवासिनां तावदुत्कृष्टस्थितिप्रतिपादनार्थमाह; -
――――――――
स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमार्धनमिता ॥ २८ ॥
असुरादीनां सागरोपमादिभिरभिसंबंधो यथाक्रमं ॥
सौधर्मेशानयोः सागरोपमेधिके ।। २९ ।। द्विवचननिर्देशाद्वित्वगतिः, अधिके इत्यधिकार आसहस्रारात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org