SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ३८६ तत्त्वार्थश्लोकवार्तिके [ सू० २६ लोकांतिका इति न सर्वत्र ब्रह्मलोकदेवास्तथा । अथवा लोकः संसारः जन्मजरामृत्युसंकीर्णः तस्यांतो लोकांतः तत्प्रयोजना लौकांतिकाः । ते हि परीतसंसाराः ततश्च्युत्वा एकं गर्भवासमवाप्य परिनिर्वाति ॥ किं पुनरनेन सूत्रेण क्रियत इत्याह; तत्र लौकांतिका देवा ब्रह्मलोकालया इति । सूचनात् कल्पवासित्वं तेषां नियतमुच्यते ॥१॥ लोकांतिकानां कल्पोपपन्नकल्पातीतेभ्योन्यत्वं मा भूदिति तेषां कल्पवासिनियमोऽनेन क्रियते न . ततो देवानां चतुर्णिकायत्वनियमो विरुध्यते ॥ तद्विशेषप्रतिपादनार्थमाह; सारस्वतादित्यवन्ह्यरुणगर्दतोयतुषिताव्याबाधारिष्टाश्च ॥ २५॥ किमिमे सारखतादयः पूर्वोत्तरादिदिक्षु यथाक्रमं । तद्यथा-अरुणसमुद्रप्रभवो मूले संख्येययोजनविस्तारस्तमसः स्कंधः समुद्रवलयाकृतिरिति तीब्रांधकारपरिणामः स ऊर्ध्व क्रमवृद्ध्या गच्छन् मध्येते वा संख्येययोजनबाहुल्यः अरिष्टविमानस्याधोभागे समेतः कुक्कुटकुटीवदवस्थितः । तस्योपरि तमोराजयोष्टा व्युत्पत्त्यारिष्टंद्रकविमानसमप्रणिधयः । तत्र चतसृष्वपि दिक्षु द्वंद्वं गतास्तिर्यगालोकांतात् तदंतरेषु पूर्वोत्तरकोणादिषु सारखतादयो यथाक्रमं वेदितव्याः । चशब्दसमुच्चिताः सारखताद्यंतरालवर्तिनः परेऽग्याभसूर्याभादयो द्वंद्ववृत्त्या स्थिताः प्रत्येतव्याः । तद्यथा-सारस्वतादित्ययोरंतरालेऽग्याभसूर्याभाः, आदित्यवयोश्चंद्राभसत्याभाः, वह्यरुणयोः श्रेयस्करक्षेमंकराः, अरुणगर्दतोययोवृषभेष्टकामचाराः, गर्दतोयतुषितयोर्निमाणरजोदिगंतरक्षिताः, तुषिताव्याबाधयोरात्मरक्षितसर्वरक्षिताः, अव्याबाधारिष्टयोर्मरुद्वसवः, अरिष्टसारखतयोरश्वविश्वाः । तान्येतानि विमानानां नामानि तन्निवासिनां च देवानां तत्साहचर्यात् । तत्र सारखताः सप्तशतसंख्याः , आदित्या वह्नयः सप्तसहस्राणि सप्ताधिकानि, अरुणाश्च तावंत एव, गर्दतोया नवसहस्राणि नवोत्तराणि, तुषिताश्च तावंत एव, अव्याबाधा एकादशसहस्राण्येकादशानि, अरिष्टा अपि तावंत एव । चशब्दसमुच्चितानां संख्योच्यते-अन्याभे देवाः सप्तसहस्राणि सप्ताधिकानि, सूर्याभे नवनवोत्तराणि, चंद्राभे एकादशैकादशोत्तराणि, सत्याभे त्रयोदश त्रयोदशोत्तराणि, श्रेयस्करे पंचदशपंचदशोत्तराणि, क्षेमंकरे सप्तदशसप्तदशोत्तराणि, वृषभेष्टे एकोनविंशत्येकोनविंशत्यधिकानि, कामचारे एकविंशत्येकविंशत्यधिकानि, निर्माणरजसि त्रयोविंशतित्रयोविंशत्यधिकानि, दिगंतरक्षिते पंचविंशतिपंचविंशत्यधिकानि, आत्मरक्षिते सप्तविंशतिसप्तविंशत्यधिकानि, सर्वरक्षिते एकान्नत्रिंशदेकान्नत्रिंशदधिकानि, मरुति एकत्रिंशदेकत्रिंशदधिकानि, वसुनि त्रयस्त्रिंशत्रयस्त्रिंशदधिकानि, अश्वे पंचत्रिंशत्पंचत्रिंशदधिकानि, विश्वे सप्तत्रिंशत्सप्तत्रिंशदधिकानि । त एते चतुर्विंशतिर्लोकांतिकगणाः समुदिताः चत्वारिंशत्सहस्राणि अष्टसप्ततिश्च शतानि षड्डुत्तराणि । सर्वे खतंत्राः हीनाधिकत्वाभावात् । विषयरतिविरहाद्देवर्षयः तत एवेतरेषां देवानामर्चनीयाः चतुर्दशपूर्वधराः सततं ज्ञानभावनावहितमनसः नित्यं संसारादुद्विग्नाः अनित्याशरणाद्यनुप्रेक्षावहितचेतसः तीर्थकरनिःक्रमणप्रबोधनपराः नामकर्मविशेषोदयादुपजायते ।। तेन्वर्थसंज्ञतां प्राप्ता भेदाः सारस्वतादयः । तेनैकचरमास्तद्वच्छकाद्याश्चोपलक्षिताः ॥१॥ यथैकचरमा लौकांतिकाः सर्वेन्वर्थसंज्ञां प्राप्ताः सूत्रिताः तथा शक्रादयश्च तेषामुपलक्षणत्वात् ॥ क पुनर्द्विचरमा इत्याह; विजयादिषु दिचरमाः॥२६॥ आदिशब्दः प्रकारार्थः । कः प्रकारः? सम्यग्दृष्टित्वे निर्ग्रथत्वे च सत्युपपादः । स च विजयस्येव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001683
Book TitleTattvarthashloakvarttikam
Original Sutra AuthorVidyanandi
AuthorManoharlal
PublisherRamchandra Natharangji Mumbai
Publication Year1918
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy