________________
चतुर्थोऽध्यायः ।
३८५
विशुद्धेरुत्तरास्तिस्रः शुभा एवं विपर्ययात् । विशुद्धिहान्या संशवृद्ध्या चैव शुभेतराः ॥ ७ ॥ एकैका चाप्यसंख्येयलोकात्मा व्यवसायभृत् । लेश्याविशेषतो ज्ञेयाः कषायोदय भेदतः ॥ ८ ॥ तथा संक्रमतः साध्या लेश्याः क्लेशविशुद्धिजात् । क्लिश्यमानस्य कृष्णायां न लेश्यांतरसंक्रमः ९ ॥ तस्यामेव तु षट्स्थानपतितेन विवर्धते । हीयते च पुमानेष संक्रमेण निजक्रमात् ॥ १० ॥ कृष्णा प्राथमिक क्लेशस्थानाद्धि परिवर्धते । संख्येयादप्यसंख्येयभागतः स्वनिमित्ततः ॥ ११ ॥ संख्येयादिगुणाद्वापि नान्यथेति विनिश्चयः । लेश्यांतरस्य कृष्णातोऽशुभस्यान्यस्य बाधनात् १२ तत्कुष्णलेश्यतः स्थानाद्धीयमानो विहीयते । कृष्णायामेव नान्यस्यां लेश्यायां हेत्वभावतः १३ साद्यनंतादिभागाद्वा संख्यातादिगुणात्तथा । हीयते नान्यथा स्थानपट्टसंक्रमतोसुभृत् ॥ १४ ॥ यानंतगुणा हानिः कृष्णायाः संक्रमस्तदा । नीलाया उत्तमस्थाने तल्लेश्यांतर संक्रमः ॥ १५ एवं विशुद्धिवृद्धौ स्याच्छुक्कलेश्यस्य संक्रमः । शुक्कायामेव नान्यत्र लेश्या एवावसानतः ॥ १६ तथा विशुद्धिहान्यां स्यात्तल्लेश्यांतर संक्रमः । अनंतगुणहान्यैव नान्यहान्या कदाचन ॥ १७ ॥ मध्ये लेश्याचतुष्कस्य शुद्धिसंक्लेशयोर्नृणां । हानौ वृद्धौ च विज्ञेयस्तेषां स्वपरसंक्रमः ॥ १८ ॥ तथैव कर्मतो लेश्याः साध्याः पडपि भेदतः । फललक्षणदृष्टांतसामर्थ्यात्तत्त्ववेदिभिः ॥ १९ ॥ आद्या तु स्कंधभेदेच्छा विटपच्छेदशेमुषी । परा च शाखाछेदीच्छादनुशाखछि दैषणा ॥ २० ॥ पिंडिकाछेदनेच्छा च स्वयं पतितमात्रक- । फलादित्सा च कृष्णादिलेश्यानां भक्षणेच्छया २१ तथा लक्षणतो लेश्याः साध्याः सिद्धाः प्रमाणतः । पराननुभयादिः स्यात्कृष्णायास्तत्र लक्षणः अलस्यादिस्तु नीलाया मात्सर्यादिः पुनः स्फुटं । कापोत्या दृढमैत्र्यादिः पीतायाः सत्यवादिता प्रभृति पद्मलेश्यायाः शुक्कायाः प्रशमादिकं । गत्या लेश्यास्तथा ज्ञेयाः प्राणिनां बहुभेदया ॥ २४ प्रत्यंशकं समाख्याताः षड्विंशतिरिहांशकाः । तत्राष्टौ मध्यमास्तावदायुषो बंधहेतवः ।। २५ ।। आर्षोपदेशतः सिद्धाः शेषास्तु गतिहेतवः । पुण्यपापविशेषाणामुपचारतया हि ते ।। २६ ।। भवायुर्गतिभेदानां कारणं नामभेदवत् । शुक्लोत्कृष्टांश कादात्मा भवेत्सर्वार्थसिद्धिगः ॥ २७ ॥ कृष्णोत्कृष्टांशकात्तु स्यादप्रतिष्ठानगाम्यसौ । शेषांशकवशान्नानागतिभागवगम्यताम् ॥ २८ ॥ यथागमं प्रपंचेन विद्यानंदमहोदया | स्वामित्वेन तथा साध्या लेश्या साधनतोपि च ॥ २९ ॥ संख्यातः क्षेत्रतश्चापि स्पर्शनात्कालतोंतरात् । भावाच्चाल्पबहुत्वाच्च पूर्वसूत्रोक्तनीतितः॥३०॥ प्रास्यैवेयकेभ्यः कल्पाः ॥ २३ ॥
सौधर्मादिग्रहणमनुवर्तते, तेनायमर्थः – सौधर्मादयः प्राग्यैवेयकेभ्यः कल्पा इति । सौधर्मादिसूत्रानंतरमिदं सूत्रं वक्तव्यमिति चेन्न, स्थितिप्रभावादिसूत्रत्रयस्य व्यवधानप्रसंगात् । सति व्यवधानेऽनेन विधीयमानोर्थः कल्पेष्वेव स्यादनंतरत्वात् ॥ के पुनः कल्पातीता इत्याह ;
कल्पाः प्रागेव ते बोध्या ग्रैवेयकविमानतः । तदादयस्तु सामर्थ्यात् कल्पातीताः प्रतीतितः १ ननु च परिशेषाद्वैवेयकादीनां कल्पातीतत्वसिद्धौ भवनवास्यादीनां कल्पातीतत्वप्रसंग इति चेन्न, उपर्युपरीत्यनुवर्तनात् ॥
ब्रह्मलोकालया लोकांतिकाः ॥ २४ ॥
एत्यास्मिल्लीयत इत्यालयो निवासः । ब्रह्मलोक आलयो येषां ते ब्रह्मलोकालयाः । सर्वब्रह्मलोकदेवानां लौकांतिकत्वप्रसंग इति चेन्न, लोकांतोपश्लेषात् । ब्रह्मलोकस्यांतो हि लोकांतः लोकांते भवा
४९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org