________________
३८४ तत्त्वार्थश्लोकवार्तिके
[सू० २२ अथायेषु त्रिषु निकायेषु लेश्याविधानमुक्तं वैमानिकनिकाये संप्रत्युच्यते;
पीतपद्मशुक्ललेश्या वित्रिशेषेषु ॥ २२ ॥ ननु च पूर्वमेतद्वक्तव्यं तत्र पुनर्लेश्याभावात् सूत्रस्य लाघवोपपत्तेः आदितस्त्रिषु पीतांतलेश्याः ततः पीतपद्मशुक्ला द्वित्रिशेषेष्विति । तदसत् , तत्र सौधर्मादिग्रहणे सूत्रगौरवप्रसंगादग्रहणेभिसंबंधानुपपत्तेः , संक्षेपार्थमिहैव वचनोपपत्तेः । पीतपद्मशुक्लानां द्वंद्वे पीतपद्मयोरुत्तरपदिकं ह्रखत्वं द्रुतापात्तपरकरणान्मध्यमविडंबितयोरुपसंख्यानमित्याचार्यवचनदर्शनात् मध्यमाशब्दस्य विडंबितोत्तरपदे द्वंद्वेपि ह्रखत्वसिद्धेः । ततः पीतपद्मशुक्ललेश्याः येषां देवानां ते पीतपद्मशुक्ललेश्या इति द्वंद्वपूर्वान्यपदार्था वृत्तिः । द्वित्रिशेपेष्वित्यधिकरणनिर्देशाद्वयादिविकल्पादीनामाधारत्वसिद्धेः ॥ कथं पुनः पीतादयो लेश्यास्तदाधेयानः देवानां विज्ञेया इत्यावेद्यते;
लेश्याः पीतादयस्तेषां सूत्रवाक्यप्रभेदतः । प्रत्येतव्याः प्रपंचेन यथागममसंशयं ॥१॥
द्वयोः सौधर्मेशानयोः सानत्कुमारमाहेंद्रयोश्च पीतलेश्याः द्वयोर्ब्रह्मलांतवकल्पयोः शुक्लसतारकल्पयोश्च पद्मलेश्याः, द्वयोरानतप्राणतयोरारणाच्युतयोश्च शुक्ललेश्याः, त्रिवधोग्रैवेयकेषु त्रिषु मध्यमग्रैवेयकेषु त्रिपरिग्रैवेयकेषु च शुक्ललेश्याः । शेषेष्वनुदिशेषु पंचखनुत्तरेषु च शुक्ललेश्या इति सूत्रवाक्यप्रभेदतां प्रत्येतव्याः । चतुःशेषेष्विति वक्तव्यं स्पष्टार्थमिति चेत् न, अविशेषेण चतुर्यु माहेंद्रांतेषु पीतायाः प्रसंगात् , चतुषु च सहस्रांतेषु कल्पेषु पद्मायाः प्रसक्तेः शेषेषु चानतादिषु शुक्ललेश्यायाः समनुषंगात् तथाचार्यविरोधः स्यात् । तत्र हि सौधर्मेशानयोः देवानां पीता लेश्येष्यते, सानत्कुमारमाहेंद्रयोः पीत. पद्मा, ततः कापिष्टांतेषु पद्मा, ततः सहस्रारांतेषु पद्मशुक्ला, ततोऽच्युतांतेषु शुक्ला, ततः शेषेषु परमशुक्लेति । कथं सूत्रेणानभिहितोयं विशेषः प्रतीयते । पीताग्रहणेन पीतपद्मयोः संग्रहात् पद्माग्रहणेन पद्मशुक्लयोः इत्याहुः । कथं ? तथा लोके शब्दव्यवहारदर्शनात् । छत्रिणो गच्छंतीति यथा छत्रिसहचरितानामछत्रिणामपि छत्रिव्यपदेशात् । पाठांतरेपि यथा व्याख्यानाददोष इति चेन्न, अनिष्टशंकानिवृत्त्यर्थत्वात् । द्वित्रिशेषेष्विति पाठस्य चतुःशेषेष्विति तु पाठे चतुर्णी चतुर्णामुपर्युपरिभावेऽनिष्टः शक्येत तन्निवृत्तिर्यथान्यासवचने कृता भवति । यथासंख्यप्रसंगादत्राप्यनिष्टमिति चेन्न, न्यादिशब्दानामंतीतवीप्सार्थत्वाविभोजनादिवत् । दिने दिने द्विभोजने यस्य स द्विभोजन इत्यादयो यथान्त तवीप्सार्थास्तथोपर्युपरि द्वयोर्द्वयोस्त्रिषु शेषेषु शेषेष्वित्यंत तवीप्सार्था व्यादिशब्दा इह व्याख्यायंते, ततो न यथासंख्यप्रसंगो वाक्यभेदान्याख्यानाच्च । पीतमिश्रपद्ममिश्रपद्मशुक्ललेश्या द्विद्विचतुःशेषेप्विति पाठांतरमन्ये मन्यते, तत्र सूत्रगौरवं तदवस्थं । अथवास्तु यथासंख्यमभिसंबंधस्तथापि नानिष्टप्रसंगः । कथं ? द्वयोः युगलयोः पीतलेश्या, सानत्कुमारमाहेंद्रयोः पद्मलेश्यायाः अविवक्षातः ब्रह्मलोकादिषु त्रिषु कल्पयुगलेषु पद्मलेश्या शेषेषु सतारादिषु शुक्ललेश्या पद्मलेश्याया अविवक्षातः इत्युक्तौ अभिसंबंधात् । ततो न कश्चिदार्षविरोधः ॥
लेश्या निर्देशतः साध्या कृष्णेत्यादिस्वरूपतः ।वर्णतो भ्रमरादीनां छायां बिभ्रति बाह्यतः॥२॥ अनंतभेदमासां स्याद्वर्णातरमपि स्फुटं । एकद्वित्रिकसंख्यादिकृष्णादिगुणयोगतः ॥३॥ तथांतःपरिणामेन साध्यजीवस्य तत्त्वतः । स चासंख्यातलोकात्मप्रदेशपरिमाणकः ॥ ४ ॥ तत्कषायोदयस्थानेष्वियत्सूत्कृष्टमध्यम- । जघन्यात्मकरूपेषु क्लेशहान्या निवर्तनात् ॥ ५॥ कृष्णादयोऽशुभास्तिस्रो विवर्तते शरीरिणः । जघन्यमध्यमोत्कृष्टेष्वंशांशेषु विवृद्धितः ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org