________________
चतुर्थोऽध्यायः ।
कुतस्ते तथा सिद्धा इत्याह;
सप्तभिस्ते तथा ज्ञेयाः स्थित्यादिभिरसंशयं । तेषामिह मनुष्यादौ तारतम्यस्य दर्शनात् ॥ १ ॥
मनुष्यादौ स्थितेस्तावत्तारतम्यस्य दर्शनाद्देवानामुपर्युपरि स्थित्याधिक्यं दृष्टं संभाव्यते । येषामप समाना स्थितिः तेषामपि गुणतोधिकत्वसिद्धेः प्रभावस्य तारतम्यदर्शनं तेनाधिकं । यः प्रभावः सौधर्मकल्पे निग्रहानुग्रहपराभियोगादिषु तदनंतगुणत्वादुपर्युपरि देवानां केवलं मंदाभिमानतयाल्पसंक्लेशतया च न प्रवर्तनं । एवमिह सुखस्य तारतम्यदर्शनात्तेषां सुखेनाधिक्यं । द्युत्या तारतम्यदर्शनादिति धुत्याधिक्यं । लेश्याविशुद्धेस्तारतम्यदर्शनात्तयाधिक्यं समानलेश्यानामपि कर्मविशुद्ध्यधिकत्वसिद्धेः । इंद्रियविषयस्य तारतम्यदर्शनादिंद्रियविषयेणाधिक्यं । तद्वदवधिविषयेण तथा संभावनायां बाधकाभावात् ॥ गत्यादिभिरधिकत्वप्रसंगे तन्निवृत्त्यर्थमाह ;
गतिशरीरपरिग्रहाभिमानतो हीनाः ॥ २१ ॥
उभयनिमित्तवशादेशांतरप्राप्तिनिमित्तः कायपरिस्पंदो गतिः, शरीरमिह वैक्रियिकमुक्तलक्षणं ग्राह्यं, लोकषायोदयान्मूर्छा परिग्रहो वक्ष्यमाणः, मानकषायोदयात् प्रतियोगेष्वप्रणतिपरिणामोऽभिमानः । गतिशरीरपरिग्रहाभिमानैर्गतिशरीरपरिग्रहाभिमानतः उपर्युपरि वैमानिकाः प्रतिकल्पं प्रतिप्रस्तारं च हीनाः प्रत्येतव्याः ॥ कुतस्ते तथेत्याह ;
३८३
उपर्युपरि ते हीना गत्यादिभिरसंभवात् । तत्कारणप्रकर्षस्य परिणामविशेषतः ॥ १ ॥
3
गत्या तावदुपर्युपरि हीना देवास्तत्कारणस्य विषयाभिष्वंगोद्रेकस्य हीनत्वात् तथा परिणामेनोत्पत्तेः । शरीरेणापि हीनास्तत्कारणस्य प्रवृद्धशरीरनामकर्मोदयस्य हीनत्वात् । सौधर्मेशानयोर्देवानां शरीरं सप्तरनिप्रमाणं, सानत्कुमारमा हेंद्रयोरर लिहीनं, ततोप्य रत्निहीनं कापिष्टांतेषु ततोपि सहस्रारांतेष्वर लिहीनं, ततोप्यानतप्राणतयोरर्धरलिहीनं, ततोप्यारणाच्युतयोः, ततोप्यधोग्रैवेयकेषु ततो मध्यग्रैवेयकेषु, ततोप्युपरि ग्रैवेयकेष्वनुदिशविमानेषु च ततोनुत्तरेषु तत्रारनिमात्रत्वादेवशरीरस्येति हि श्रुतिः । परिग्रहेणापि विमानपरिवारादिलक्षणेन हीनाः तत्कारणस्य प्रकृष्टस्याभावात् । सौधर्मादिषु हि देवानामुपर्युपरि नामकर्मविशेषोल्पाल्पतराल्पतमविमानपरिवारहेतुरंत रंगो बहिरंगस्तु क्षेत्रविशेषादिरिति कारणापकर्षतारतम्यात् कार्यापकर्षतारतम्या सिद्धिः । कुतोभिमानेन हीनास्ते ! तत्कारणप्रकर्षस्याभावादेव । किं पुनरभिमानकारणं शरीरिणामप्रतनुकषायत्वं मनसः संक्लेशोवधिशुद्धिविरहादतत्त्वावलोकनमसंवेग परिणामश्च तस्य हानितारतम्यादुपर्युपरि देवानामभिमानहानितारतम्यं तत्पुनरभिमानकारणस्य हानितारतम्यं तत्प्रतिपक्षभूतानामतनुकषायत्वाल्पसंक्लेशावधिविशुद्धितत्त्वावलोकनसंवेग परिणामाधिक्यानां तारतम्यादुपपद्यते पूर्वजन्मोपात्तविशुद्धाध्यवसायप्रकर्षतारतम्यादुपर्युपरि तेषामुपपादस्य घटनाच्च ॥ कथं पुनरुपर्युपरिभावो वैमानिकानां संगच्छत इत्याशंकायामिदमाह ;
Jain Education International
स्थित्यादिभिस्तथाधिक्यस्यान्यथानुपपत्तितः । नोपर्युपरिभावस्य तेषां संकेतिसंगतिः ॥ २ ॥
पूर्वजन्मभाबिस्व परिणाम विशेष विशुद्धितारतम्योपात्तशुभकर्मविशेषप्रकर्षतारतम्यात् स्थित्यादिभिराधिक्यं तावद्वैमानिकानां सूत्रितं सर्वथा बाधकविधुरत्वात्तदन्यथानुपपत्त्या च तेषामुपर्युपरिभावस्य संगतिः । पूर्वजन्मभाविखपरिणाम विशेषविशुद्धितारतम्योपात्तशुभकर्मतारतम्यात् स्थित्यादिभिराधिक्यस्य दर्शनात् क्षीणान्यथानुपपत्तिरिति चेन्न तदाधिक्यविशेषस्य तेषामुपर्युपरिभावेनान्यथानुपपत्तिसिद्धेः ॥
For Private & Personal Use Only
www.jainelibrary.org