SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३८२ तत्त्वार्थश्लोकवार्तिके [सू० २० ईशानो नार्मेंद्रः खभावतः ईशानोस्य निवासः कल्प ऐशानः 'तस्य निवासः' इत्यण् तत्साहचर्यादिंद्रोप्यैशानः, सनत्कुमारो नामेंद्रः स्वभावतः तस्य निवासः कल्पः सानत्कुमारः तत्साहचर्यादिंद्रोपि सानत्कुमारः, महेंद्रो नार्मेंद्रः स्वभावतः तस्य निवासः कल्पो महेंद्रः तत्साहचर्यादिद्रोपि माहेंद्र:, ब्रह्मनामेंद्रः तस्य लोको ब्रह्मलोकः कल्पो ब्रह्मोत्तरश्च, लांतवादयोच्युतांता इंद्रास्तत्साहचर्यात् कल्पा अपि लांतवादयः, इंद्रलोकपुरुषस्य ग्रीवास्थानीयत्वाद्रीवा: ग्रीवासु भवानि ग्रैवेयकाणि विमानानि तत्साहचर्यादिद्रा अपि चैवेयकाः, विजयादीनि विमानानि परमाभ्युदयविजयादन्वर्थसंज्ञानि तत्साहचर्यादिंद्रा अपि विजयादिनामानः सर्वार्थानां सिद्धेः सर्वार्थसिद्धिविमानं तत्साहचर्यादिंद्रोपि सर्वार्थसिद्धः । तस्य पृथग्रहणं द्वंद्वे कर्तव्येपि स्थित्यादिविशेषप्रतिपत्त्यर्थं । सर्वार्थसिद्धस्य हि स्थितिरुत्कृष्टा जघन्या च त्रयस्त्रिंशत्सागरोपमा विजयादिभ्यो जघन्यतो द्वात्रिंशत्सागरोपमस्थितिभ्यो विशिष्टा प्रभावतश्च ततोल्पप्रभावेभ्यः इति श्रूयते । ग्रैवेयकाणां पृथग्ग्रहणं कल्पातीतत्वज्ञापनार्थे, नवशब्दस्यावृत्तिकरणमनुदिशसूचनार्थं । दिश आनुपूर्व्येणानुदिशं विमानानीति पूर्वपदार्थप्रधाना वृत्तिः दिक्छब्दस्य शरदादित्वात् आकारांतस्य वा दिशाशब्दस्य भावात् तत्साहचर्यादिद्रा अप्यनुदिशास्ते च नव संति ग्रैवेयकाणामुपरीति श्रवणात् ॥ ननु च सौधर्मेशानयोः केषांचिदप्युपरिभावाभावादव्यापक तोपरिभावस्य स्यादित्याशंकायामिदमाह; — सौधर्मैशानयोर्देवा ज्योतिषामुपरि स्थिताः । नोपर्युपरिभावस्य तेनाव्यापकता भवेत् ॥ १ ॥ कुतः पुनर्द्वयोर्द्वयोरुपर्युपरिभावः प्राग्यैवेयकेभ्य एवेत्याह; सौधर्मेत्यादिसूत्रे च द्वंद्ववृत्तिर्विभाव्यते । सौधर्मादिविमानानामुपर्युपरिनान्यथा ॥ २ ॥ आनतप्राणतद्वंद्वमारणाच्युतयोरिति । सूचनादंतशः सा च कल्पेष्वेवैकशस्ततः ॥ ३ ॥ ग्रैवेयकेषु नव नवस्वनुदिशेष्वियं । ततोनुत्तरसंज्ञानां पंचानां सेष्यतेर्थतः ॥ ४ ॥ सौधर्मेत्यादिसूत्रे निर्दिष्टानां सौधर्मेशानादीनां श्रेणींद्र कप्रकीर्णकात्मकपटलभावापन्नानां विमानानामुपर्युपरि द्वंद्व वर्तनं विभाव्यते आनतप्राणतद्वंद्वमनंतरमारणाच्युतयोरिति सूचनादन्यावृत्त्यकरणे प्रयोजनाभावात् । तच्च द्वंद्ववर्तनं कल्पेष्वेव विभाव्यते । तदंते वृत्त्यकरणात् प्रागेव सौधर्मेशानयोः सानत्कुमारम|हेंद्रयोरित्यवृत्त्यकरणात् । तत एव नवसु ग्रैवेयकेष्वेकशो वर्तनं विभाव्यते । नवखनुदिशेषु च तत्र दिग्विदिग्वत्यैकैक विमानमध्यगस्येंद्रक विमानस्यैकत्वात् । तत एवानुत्तरसंज्ञानां पंचानामेकशो वर्तनं विभाव्यते दिग्वत्यैकैक विमानमध्यगस्येंद्रकस्य सर्वार्थसिद्धस्यैकत्वात् । अर्थतश्चैवं विभाव्यते अन्यथोक्तनिर्देशक्रमस्य प्रयोजनानुपपत्तेः ॥ ते च सूत्रितेषु सौधर्मादिषु कल्पेषु कल्पातीतेषु च वैमानिका देवा:स्थितिप्रभावसुखद्युतिलेश्याविशुद्धींद्रियावधिविषय तोधिकाः ॥ २० ॥ खोपात्तायुष उदयात्तस्मिन् भवे तेन शरीरेणावस्थानं स्थितिः, शापानुग्रहलक्षणः प्रभावः, सद्योदये सतीष्टविषयानुभवनं सुखं, शरीरवसनाभरणादिदीप्तिर्द्युतिः, कषायानुरंजिता योगप्रवृत्तिर्लेश्योक्ता तस्या विशुद्धिर्लेश्याविशुद्धिः, इंद्रियस्यावधेश्च विषयो गोचरः प्रत्येयः, विषयशब्दस्येंद्रियावधिभ्यां प्रत्येकमभिसंबंधात् अन्यथोपर्युपरि देवानामिंद्रियादिवृद्धिप्रसंगात् सिद्धांत विरोधापत्तेः । स्थित्यादीनां द्वंद्वे स्थितिशब्दस्यादौ ग्रहणं तत्पूर्वकत्वात् प्रभावादीनां । तेभ्यस्ततः इत्यत्रोपादाने ' हीयरहोरितसिः तैर्वा ततस्तसि प्रकरणे आट्यादिभ्य उपसंख्यानमिति' तसिः । उपर्युपरि वैमानिका इति चानुवर्तते तेनैवमभिसंबंधः क्रियते उपर्युपरि वैमानिकाः प्रतिकल्पं प्रतिप्रस्तारं च स्थित्यादिभिरधिका इति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001683
Book TitleTattvarthashloakvarttikam
Original Sutra AuthorVidyanandi
AuthorManoharlal
PublisherRamchandra Natharangji Mumbai
Publication Year1918
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy