________________
३८१
चतुर्थोऽध्यायः ।
बहिरवस्थिताः ॥ १५॥ किमनेन सूत्रेण कृतमित्याह;बहिर्मनुष्यलोकांतेवस्थिता इति सूत्रतः । तत्रासन्नाव्यवच्छेदः प्रादक्षिण्यमति क्षतिः ॥१॥ कृतेति शेषः । एवं सूत्रचतुष्टयाज्योतिषामरचिंतनं । निवासादिविशेषेण युक्तं बाधविवर्जनात् ॥२॥
वैमानिकाः ॥ १६ ॥ खांस्तु कृतिनो विशेषेण मानयंतीति विमानानि तेषु भवा वैमानिकाः । परेपि वैमानिकाः स्युरेवमिति चेन्न, वैमानिकनामकर्मोदये सति वैमानिका इति वचनात् । तेन श्रेणींद्रकपुष्पप्रकीर्णकभेदात् त्रिविधेषु विमानेषु भवा देवा वैमानिकनामकर्मोदयाद्वैमानिका इत्यधिकृता वेदितव्याः ॥
कल्पोपपन्नाः कल्पातीताश्च ॥ १७॥ सौधर्मादयोच्युतांताः कल्पोपपन्ना इंद्रादिदशतयकल्पनासद्भावात् कल्पोपपन्ननामकर्मोदयवशवर्तित्वाच न भवनवास्यादयस्तेषां तदभावात् । नच अवेयका नवानुदिशाः पंचानुत्तराश्च कल्पातीताः कल्पातीतनामकर्मोदये सति कल्पातीतत्वात् तेषामिंद्रादिदशतयकल्पनाविरहात् सर्वेषामहमिंद्रत्वात् ॥
वैमानिका विमानेषु निवासादुपवर्णिताः। द्विधा कल्पोपपन्नाश्च कल्पातीताश्च ते मताः॥१॥ न वैमानिकास्त्रिधा चतुर्धा वान्यथा वा संभाव्यते द्विविधेष्वेवान्येषामंतर्भावात् ते च कथमवस्थिताः॥
उपर्युपरि ॥ १८॥ सामीप्ये वोपर्युपरीति द्वित्वं तेषामसंख्येययोजनांतरत्वेपि तुल्यजातीयव्यवधानाभावात् सामीप्योपपत्तेः । किमत्रोपर्युपरीत्यनेनाभिसंबध्यते ? कल्पा इत्येके । कल्पोपपन्ना इत्यत्र कल्पग्रहणस्योपसर्जनीभूतस्यापि विशेषणेनाभिसंबंधात् । राजपुरुषोऽयं, कस्य राज्ञ इति यथा प्रत्यासत्तेढुर्व्यपेक्षितत्वादिति । तन्न बुध्यामहे, वैमानिका इत्यधिकारार्थ वचनमित्येतस्य व्याघातात् । यथा हि वैमानिका देवाः कल्पोपपन्नाः कल्पातीताश्चेति संबध्यते तथोपर्युपरीत्यपि त एवेति युक्तं । न हि देवा एव निर्विशेषणा उपर्युपरीत्युच्यते येनानिष्टप्रसंगः । किं तर्हि ? मध्यस्थेंद्रकतिर्यगवस्थितश्रेणिप्रकीर्णकविमानलक्षणकल्पो. पपन्नत्वविशेषणाक्रांताः कल्पातीतत्वविशेषणाक्रांताश्च यथोपवर्णितसन्निवेशाः संबध्यते । तथा च निरवद्यो निर्देशः सर्वानिष्टनिवृत्तेः । तथाहि
उपर्युपरि तद्धाम नाधस्तिर्यक् च तत्स्थितिः। यथा भवनवास्यादिदेवानामिति निर्णयः ॥१॥
न हि यथा भवनवासिनो व्यंतराश्चाधस्तिर्यक् समवस्थितयो ज्योतिष्कास्तिर्यक् स्थितयस्तथा वैमानिका इष्यंते, तेषामुपर्युपरि समवस्थितत्वात् उपर्युपरि वचनेनैव निर्णयात् ॥ सौधर्मेशानसानत्कुमारमाहेंद्रब्रह्मलोकब्रह्मोत्तरलांतवकापिष्ठशुक्रमहाशुक्रसतारसहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु अवेयकेषु
विजयवैजयंतजयंतापराजितेषु सर्वार्थसिद्धौ च ॥ १९ ॥ सुधर्मा नाम सभा सास्मिन्नस्तीति सौधर्मः कल्पः 'तदस्मिन्नस्तीत्यण' तत्कल्पसाहचर्यादिंद्रोपि सौधर्मः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org