________________
३८० तत्त्वार्थश्लोकवार्तिके
[सू० १४ पदिष्टत्वाच्च । प्रमाणबाधितपक्षनिर्देशानंतरं प्रयुज्यमानस्य हेतुत्वेतिप्रसंगात् । ततो नेदमनुमानं हेत्वाभासोत्थं बाधकं प्रकृतागमस्य येनास्मादेवेष्टसिद्धिर्न स्यात् ॥
ज्योतिः शास्त्रमतो युक्तं नैतत्स्याद्वादविद्विषां । संवादकमनेकांते सति तस्य प्रतिष्ठिते ॥ १७ ॥
न हि किंचित्सर्वथैकांते ज्योतिःशास्त्रे संवादकं व्यवतिष्ठते प्रत्यक्षादिवत् नित्याद्यनेकांतरूपस्य तद्विषयस्य सुनिश्चितासंभवबाधकत्वाभावात् तस्य दृष्टेष्टाभ्यां बाधनात् । ततः स्याद्वादिनामेव तद्युक्तं, सत्यनेकांते तस्प्रतिष्ठानात् तत्र सर्वथा बाधकविरहितनिश्चयात् ॥
तत्कृतः कालविभागः॥१४॥ . किं कृत इत्याह;ये ज्योतिष्काः स्मृता देवास्तत्कृतो व्यवहारतः कृतः काल विभागोयं समयादिर्न मुख्यतः॥१॥ तद्विभागात्तथा मुख्यो नाविभागः प्रसिद्ध्यति । विभागरहिते हेतौ विभागो न फले कचित् ॥२॥
विभागवान् मुख्यः कालो विभागवत्फलनिमित्तत्वात् क्षित्यादिवत् । समयावलिकादिविभागवद्ध्यवहारकाललक्षणफलनिमित्तत्वस्य मुख्यकाले धर्मिणि प्रसिद्धत्वात् नाप्याश्रयासिद्धः, सकलकालवादिनां मुख्यकाले विवादाभावात् तदभाववादिनां तु प्रतिक्षेपात् । गगनादिनानैकांतिकोऽयं हेतुरिति चेन्न, तस्यापि विभागवदवगाहनादिकार्योत्पत्तौ विभागवत एव निमित्तत्वोपपत्तेः । ननु च यद्यवयवभेदो विभागस्तदा नासौ गगनादावस्ति तस्यैकद्रव्यत्वोपगमात् । पटादिवदवयवारभ्यत्वानुपपत्तेश्च । अथ प्रदेशवतोपचारो विभागस्तदा कालेप्यस्ति, सर्वगतैककालवादिनामाकाशादिवदुपचरितप्रदेशकालस्य विभागवत्त्वोपगमात् । तथा च तत्साधने सिद्धसाधनमिति कश्चित् , परमार्थत एव गगनादेः सप्रदेशत्वनिश्चयात् तस्य सर्वदावस्थितप्रदेशत्वात् एकद्रव्यत्वाच्च । द्विविधा ह्यवयवाः सदावस्थितवपुषोऽनवस्थितवपुषश्च । गुणवत्तत्र सदावस्थितद्रव्यप्रदेशाः सदावस्थिता एवान्यथा द्रव्यस्यानवस्थितत्वप्रसंगात् । पटादिवदनवस्थितद्रव्यप्रदेशास्तु तंत्वादयोऽनवस्थितास्तेषामवस्थितत्वे पटादीनामवस्थितत्वापत्तेः । कादाचित्कत्वस्थेयतयावधारितावयवत्वस्य च विरोधात् । तत्र गगनं धर्माधर्मैकजीवाश्चावस्थितप्रदेशाः सर्वे यतोवधारितप्रदेशत्वेन वक्ष्यमाणत्वात् प्रदेशप्रदेशिभावस्य च तेषां तैरनादित्वात् । कथमनादीनां गगनादितत्प्रदेशानां प्रदेशप्रदेशिभावः परमार्थपथप्रस्थायी? सादीनामेव तंतुपटादीनां तद्भावदर्शनात् इति चेत्, कथमिदानी गगनादि तन्महत्वादिगुणानामनादिनिधनानां गुणगुणिभावः पारमार्थिकः सिद्ध्येत् ? तेषां गुणगुणिलक्षणयोगात्तथाभाव इति चेत् , तर्हि तत्प्रदेशानामपि प्रदेशिप्रदेशलक्षणयोगात् प्रदेशप्रदेशिभावोस्तु । यथैव हि गुणपर्ययवद्रव्यमिति गगनादीनां द्रव्यलक्षणमस्ति तन्महत्वादीनां च "द्रव्याश्रिता निर्गुणा गुणा" इति गुणलक्षणं तथावयवानामेकत्वपरिणामः प्रदेशिद्रव्यमिति प्रदेशिलक्षणं गगनादीनामवयुतोऽवयवः प्रदेशलक्षणं तदेकदेशानामस्तीति युक्तस्तेषां प्रदेशप्रदेशिभावः । कालस्तु नैकद्रव्यं तस्यासंख्येयगुणद्रव्यपरिणामत्वात् । एकैकस्मिल्लोकाकाशप्रदेशे कालाणोरेकैकस्य द्रव्यस्यानंतपर्यायस्यानभ्युपगमे तद्देशवर्तिद्रव्यस्यानंतस्य परमाण्वादेरनंतपरिणामानुपपत्तेरिति द्रव्यतो भावतो वा विभा. गवत्त्वे साध्ये कालस्य न सिद्धसाधनं । नापि गगनादिनानैकांतिको हेतुः । क्षित्यादिनिदर्शनं साध्यसाधनविकलमित्यपि न मंतव्यं तत्कार्यस्यांकुरादेविभागवतः प्रतीतेः, क्षित्यादेश्च द्रव्यतो भावतश्च विभागत्वसिद्धेरिति सूक्तं "विभागरहिते हेतौ विभागो न फले कचित्" इति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org