________________
.
चतुर्थोऽध्यायः ।
३७९
हारप्रसंगात् भूगोलात्सर्वदिक्षु स्थितस्य चंद्रादेस्तदुपरागोपपत्तेः । जपाकुसुमादेः समंततः स्थितस्य स्फटिकादेस्तदुपरागवत् । न हि चंद्रादेः कस्यांचिदपि दिशि कदाचिदव्यवस्थितिर्नाम भूगोलस्य येन सर्वदा तदुपरागो न भवेत् तस्य ततोतिविप्रकर्षात् कदाचिन्न भवत्येव प्रत्यासत्त्यतिदेशकाल एव तदुपगमादिति चेत्, किमिदानीं सूर्यादेर्भ्रमणमार्गभेदोभ्युपगम्यते ? बाढमभ्युपगम्यत इति चेत्, कथं नानाराशिषु सूर्यादिग्रहणं प्रतिराशिमार्गस्य नियमात् प्रत्यासन्नतममार्गभ्रमण एव तद्धनात् अन्यथा सर्वदा ग्रहणप्रसंगस्य दुर्निवारत्वात् । प्रतिराशि प्रतिदिनं च तन्मार्गस्याप्रतिनियमात् समरात्रदिवस - द्धिहान्यादिनियमाभावः कुतो विनिवार्येत ? भूगोलशक्तेरिति चेत्, उक्तमत्र समायामपि भूमौ तत एव समरात्रादिनियमोस्त्विति । ततो न भूछायया चंद्रग्रहणं चंद्रछायया वा सूर्यग्रहणं विचारसहं । राहुविमानोपरागोत्र चंद्रादिग्रहणव्यवहार इति युक्तमुत्पश्यामः सकलबाधक विकलत्वात् । न हि राहुविमानानि सूर्यादिविमानेभ्योल्पानि श्रूयंते । अष्टचत्वारिंशद्योजनैकषष्टिभागविष्कंभायामानि तत्रिगुणसातिरेक परिधीनि चतुर्विंशतियोजनैकषष्टिभागबाहुल्यानि सूर्यविमानानि, तथा षट्पंचाशद्योजनैकषष्टिभागविष्कंभायामानि तत्रिगुणसातिरेकपरिधीन्यष्टाविंशतियोजनै कषष्टिभागबाहुल्यानि चंद्र विमानानि, तथैकयोजनविष्कंभायामानि सातिरेकयोजनत्रयपरिधीन्यर्धतृतीयधनुस्तु बाहुल्यानि राहुविमानानीति श्रुतेः । ततो न चंद्रबिंबस्य सूर्यबिंबस्य वार्धग्रहोपरागो कुंठविषाणत्वदर्शनं विरुध्यते । नाप्यन्यदा तीक्ष्णविषाणत्वदर्शनं व्याहन्यते राहुविमानस्यातिवृत्तस्य अर्धगोलकाकृतेः परभागेनोपरक्ते समवृत्ते अर्धगोलकाकृतौ सूर्यबिंबे चंद्रबिंबे तीक्ष्णविषाणतया प्रतीतिघटनात् । सूर्याचंद्रमसां राहूणां च गतिभेदात्तदुपरागभेदसंभवाग्रहयुद्धादिवत् । यथैव हि ज्योतिर्गतिः सिद्धा तथा ग्रहोपरागादिः सिद्ध इति स्याद्वादिनां दर्शनं न च सूर्यादिविमानस्य राहुविमानेनोपरागोऽसंभाव्यः, स्फटिकस्येव स्वच्छस्य तेनासितेनोपरागघटनात् । स्वच्छत्वं पुनः सूर्यादिविमानानां मणिमयत्वात् । तप्ततपनीयसमप्रभाणि लोहिताक्षमणिमयानि सूर्यविमानानि, विमलमृणालवर्णानि चंद्रविमानानि, अर्कमणिमयानि अंजनसमप्रभाणि राहुविमानानि, अरिष्टमणिमयानीति परमागमसद्भावात् । शिरोमात्रं राहुः सर्पाकारो वेति प्रवादस्य मिथ्यात्वात् तेन ग्रहोपरानुपपत्तेः वराहमिहरादिभिरप्यभिधानात् । कथं पुनः सूर्यादिः कदाचिद्राहुविमानस्यावग्भागेन महतोपरज्यमानः कुंठविषाणः स एवान्यदा तस्यापरभागेनाल्पेनोपरज्यमानस्तीक्ष्णविषाणः स्यादिति चेत्, तदाभियोग्यदेवगतिविशेषात्तद्विमानपरिवर्तनोपपत्तेः । षोडशभिर्देवसहस्रैरुह्यंते सूर्यविमानानि प्रत्येकं पूर्वदक्षिणोत्तरापरभागात् क्रमेण सिंहकुंजरवृषभतुरंगरूपाणि विकृत्य चत्वारि चत्वारि देवसहस्राणि वहंतीति वचनात् । तथा चंद्रविमानानि प्रत्येकं षोडशर्भिर्देवसह सैरुह्यंते, तथैव राहुविमानानि प्रत्येकं चतुर्भिर्देव सहस्रैरुह्यते इति च श्रुतेः । तदाभियोग्यदेवानां सिंहादिरूपविकारिणां कुतो गतिभेदस्तादृक् इति चेत्, स्वभावत एव पूर्वोपात्तकर्मविशेषनिमित्तकादिति ब्रूमः । सर्वेषामेवमभ्युपगमस्यावश्यं भावित्वादन्यथा खेष्टविशेषव्यवस्थानुपपत्तेः तत्प्रतिपादकस्यागमस्यासंभवद्बाधकस्य सद्भावाच्च । गोल|कारा भूमिः समरात्रादिदर्शनान्यथानुपपत्तेरित्येतद्बाधकमागमस्यास्येति चेत् न, अत्र हेतोरप्रयोजकत्वात् । समरात्रादिदर्शनं हि यदि तिष्ठद्भूमेर्गोलाकारतायां साध्यायां हेतुस्तदा न प्रयोजकः स्यात् भ्रम्यद्भूमेर्गोलाकारतायामपि तदुपपत्तेः । अथ भ्रमद्भूमेर्गोलाकारतायां साध्यायां, तथाप्यप्रयोजको हेतुस्तिष्ठत् भूगोलाकारतायामपि तद्धनात् । अथ भूसामान्यस्य गोलाकारतायां साध्यायां हेतुस्तथाप्यगमकस्तिर्यक्सूर्यादिश्रमणवादिनामर्धगोलकाकारतायामपि भूमेः साध्यायां तदुपपत्तेः । समतलायामपि भूमौ ज्योतिर्गति विशेषात्समरात्रादिदर्शनस्योपपादितत्वाच्च । नातः साध्यसिद्धिः कालात्यया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org