________________
•
पञ्चमोऽध्यायः ।
३९३
पूरणगलनात् पुद्गला इति निर्वचनं न प्रतिपक्षमुपयातीत्यव्यभिचारं सिद्धं । कालस्याजीवत्वेनोपसंख्या - नमिह कर्तव्यमिति चेन्न, तस्याग्रे वक्ष्यमाणत्वात् । ततो धर्माधर्माकाशपुद्गलाः कालश्चेति पंचैवाजीवपदार्थाः प्रतिपादिता भवंति । तेन प्रधानमेवाजीवपदार्थो धर्मादीनामशेषाणामजीवानां प्रधानरूपत्वादिति नः सिद्धं तेषां पृथगुपलब्धेः । प्रधानाद्वैते दृष्टेन स्वयमिष्टेन च बाधसद्भावात् । न हि प्रधानमेकमुपलभामहे अंतर्बहिश्च भेदानामुपलब्धेः । न चैषा भ्रांता भेदोपलब्धिर्बाधकाभावात् । प्रधानाद्वैतग्राहकमनुमानं बाधकमिति चेन्न तस्य तदभेदे तद्वदसिद्धत्वतत्साधकत्वाभावाद्भेदोपलब्धिबाधकत्वायोगात् । ततो भेदे द्वैतसिद्धिप्रसंगात् । पराभ्युपगमादनुमानं तत्साधकं भेदोपलब्धेश्च बाधकमिति चेन्न, पराभ्युपगमस्याप्रमाणत्वात् । तत्प्रमाणत्वे भेदसिद्धेरवश्यंभावात् । ततः प्रधानाद्वैते निर्वाधं दृष्टविरोधः । तथेष्टेन च महदादिविकारप्रतिपादकागमेन तद्वाधोस्ति, तस्याविद्योपकल्पितत्वे प्रधानाद्वैतसिद्धिरपि ततो न स्यात् । न च प्रत्यक्षानुमानागमागोचरस्यापि प्रधानस्य स्वतः प्रकाशमचेतनत्वादिति न तद्रूपता धर्मा - दीनां । एतेन शब्दाद्वैतरूपता प्रतिषिद्धा, पुरुषाद्वैतरूपतायां तु तेषामजीवत्वविरोधः । न च पुरुष एवेदं सर्वमिति शक्यव्यवस्थं, पुरस्तादजीवसिद्धिविधानात् । पृथिव्यप्तेजोवायुमनोदिक्कालाकाशभेदरूपताप्यजीव पदार्थस्यायुक्तैव, पृथिव्यप्तेजोवायुमनसां पुद्गलद्रव्यपर्यायत्वाज्जात्यंतरत्वासिद्धेः । पृथिव्यादयः पुद्गलपर्याया एव भेदसंघाताभ्यामुत्पद्यमानत्वात् । ये तु न पुद्गलपर्यायास्ते न तथा दृष्टाः यथाकाशादयः भेदसंघाताभ्यामुत्पद्यमानाश्च पृथिव्यादय इति न ततो जात्यंतरं । विभागसंयोगाभ्यामुत्पद्यमानेन शब्देन व्यभिचार इति चेन्न, तस्यापि पुद्गलपर्यायत्वात् । तदपर्यायत्वे तस्य बहिः करणवेद्यत्वविरोधात् । न च भेदो विभागमात्रं, स्कंध विदारणस्य भेदशब्देनाभिधानात् । नापि संघातः संयोगमात्रं, मृत्पिंडादीनां स्कंधपरिणामस्य संघातशब्दवाच्यत्वात् । न च ताभ्यामुत्पद्यमानत्वमपुद्गलपर्यायस्य ज्ञानादेरस्ति येनानैकांतिको हेतुः स्यात् । भेदात् पृथिव्यादीनामुत्पत्त्यसंभवादसिद्धो हेतुरिति चेन्न, घटादिभेदात्कपालाद्युत्पत्तिदर्शनात् द्यणुभेदादपि परमाणूत्पत्तिसिद्धेः । यथैव हि तंत्वादिसंघातान्वयव्यतिरेकानुविधानात् पटादीनां तत्संघातादुत्पत्तिरुररीक्रियते तथा पटादिभेदान्वयव्यतिरेकानुविधानात्तत्वादीनामात्मलाभात्तद्भेदादुत्पत्तिः सुशकाभ्युपगंतुं । पटादिभेदाभावेपि तत्वादिदर्शनान्न ततस्तदुपपत्तिरिति चेन्न, तस्यापि तत्वादेः कर्पासप्रवेणीभेदादेवोत्पत्तिसिद्धेः । यथाविधानां च तत्वादीनां पटादिभेदादुत्पत्तिरुपलब्धा तथाविधानां न तदभावे प्रतीयते इति नोपालंभः सममिष्यते च भेदात्परमाण्वादीनामुत्पत्तिः संघा - ताति नासिद्ध हेतु:, यतः पुद्गलपर्यायाः पृथिव्यादयो न सिद्ध्येयुः । दिशोपि नात्रोपसंख्यानं कार्यमाकाशेऽन्तर्भावात् ततो द्रव्यांतरत्वाप्रसिद्धेः । स्यान्मतं पूर्वापरादिप्रत्ययविशेषः पदार्थविशेषहेतुको विशिष्टप्रत्ययत्वात् दंडादिप्रत्ययवत्, योसौ विशिष्टः पदार्थस्तद्धेतुः सा दिग्द्रव्यं परिशेषादन्यस्य प्रसक्तस्य प्रतिषेधात् ततो द्रव्यांतरमाकाशादिति । तदसत् तद्धेतुत्वे नाशस्य प्रतिषेद्धुमशक्तेस्तप्रदेशश्रेणिष्वेवादित्योदयादिवशात् प्राच्यादिदिग्व्यवहारप्रसिद्धेः । प्राच्यादिदिक्संबंधाच्च मूर्तद्रव्येषु पूर्वापरादिप्रत्ययविशेषोत्पत्तेर्न परस्परापेक्षया मूर्तद्रव्याण्येव तद्धेतवः । एकतरस्य पूर्वत्वासिद्धावन्यतरस्यापरत्वासिद्धेस्तदसिद्धैौ चैकतरस्य पूर्वत्वायोगादितरेतराश्रयत्वात् उभयासत्त्वप्रसंगात् । नन्वेवमाकाशप्रदेशश्रेणिष्वपि कुतः पूर्वापरादिप्रत्ययः सिद्ध्येत् ? स्वरूपत एव तत्सिद्धौ तस्य परावृत्त्यभावप्रसंगात् । परस्परापेक्षया तत्सिद्धावितरेतराश्रयणादुभया सत्त्वप्रसक्तेरिति चेत्, दिक्प्रदेशेष्वपि पूर्वापरादिप्रत्ययो - त्पत्तौ समः पर्यनुयोगः । द्रव्यांतर परिकल्पनायामनवस्थाप्रसंगश्च । यथैव हि मूर्तद्रव्यमवधिं कृत्वा मूर्तेप्वेवेदमस्मात्पश्चिमेनेत्यादिप्रत्यया दिग्द्रव्यहेतुकास्ततो दिग्भेदमवधिं कृत्वा दिग्भेदष्वेवेयमतः पूर्वा पश्चि
५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org