________________
३९४ तत्त्वार्थश्लोकवार्तिके
[सू०२ मेयमित्यादिप्रत्यया द्रव्यांतरहेतुकाः संतु विशिष्टप्रत्ययत्वाविशेषात् तद्भेदेष्वपि पूर्वापरादिप्रत्ययाः परद्रव्यहेतुका इत्यनवस्था । दिक्षु भेदेषु द्रव्यांतरमंतरेण पूर्वापरादिप्रत्ययस्योत्पत्तौ तेनैव हेतोरनेकांतिकत्वास्कुतो दिसिद्धिः? विषुवति दिने यत्र सवितोदेति स पूर्वो दिग्भागो, यत्रास्तमेति सोऽपर इति दिग्भेदेषु पूर्वापरादिप्रत्ययसिद्धौ गगनप्रदेशपंक्तिष्वपि तथैव तत्सिद्धिरस्तु किमत्र दिग्द्रव्यांतरकल्पनया तद्देशद्रव्यकल्पनाप्रसंगात् । अयमतः पूर्वो देश इत्यादिप्रत्ययस्य देशद्रव्यमंतरेणानुपपत्तेः । पृथिव्यादिरेव देशं द्रव्यमित्ययुक्तं, तत्र पृथिव्यादिप्रत्ययोत्पत्तेः । पूर्वादिदिकृतः पृथिव्यादिषु पूर्वदेशादिप्रत्यय इति चेत्, पूर्वाद्याकाशकृतस्तत्रैव पूर्वादिदिक्प्रत्ययोस्त्विति व्यर्था दिक्कल्पना । नन्वेवमादित्योदयादिवशादेवाकाशप्रदेशश्रेणिष्विव पृथिव्यादिष्वेव पूर्वापरादिप्रत्ययसिद्धेराकाशश्रेणिकल्पनाप्यनर्थिका भवत्विति चेत् न, पूर्वस्यां दिशि पृथिव्यादय इत्याद्याधाराधेयव्यवहारदर्शनात् । पृथिव्यायधिकरणभूताया गगनप्रदेशपंक्तेः परिकल्पनस्य सार्थकत्वात् गगनस्य प्रमाणांतरत्वतः साधयिष्यमाणत्वाच्च । ततो न धर्मादीनामजीवादीनां दिग्द्रव्यरूपतोपसंख्यातव्या । पृथिव्यादिरूपतावत्स्कंधस्वरूप एवाजीवपदार्थ इत्यप्ययुक्तं, धर्माधर्मादीनामपि ततो भिन्नखभावानामजीवद्रव्याणामग्रे समर्थयिष्यमाणत्वात् । पुद्गलद्रव्यव्यतिरेकेण रूपस्कंधस्यासंभवाच्च सूक्तं धर्मादय एवाजीवपदार्था इति ॥
द्रव्याणि ॥ २॥ खपरप्रत्ययोत्पादविगमपर्यायैर्दूयंते द्रवंति वा तानीति द्रव्याणि, कर्मकर्तृसाधनत्वोपपत्तेः द्रव्यशब्दस्य स्याद्वादिनां विरोधानवतारात् । सर्वथैकांतवादिनां तु तदनुपपत्तिर्विरोधात् । द्रव्यपर्यायाणां हि भेदैकांतेन द्रव्याणां पर्यायैवणं तथा खयमसिद्धत्वात् । सिद्धरूपैरेव हि देवदत्तादिभिः प्रसिद्धसत्ताका ग्रामाद्रयो द्रूयमाणा दृष्टाः न पुनरसिद्धसत्ताकैरसिद्धसत्ताका वंध्यापुत्रादिभिः कूर्मरोमादय इति । न च द्रव्येभ्यः पर्यायाः पृथक् सिद्धसत्त्वाः पर्यायत्वविरोधात् द्रव्यांतरवत् , द्रव्यपरतंत्राणामेव खभावानां पर्यायत्वोपपत्तेः । पृथग्भूता अपि द्रव्यतो द्रव्यपरतंत्राः पर्यायास्तत्समवायादिति चेन्न, कथंचित्तादात्म्यव्यतिरेकेण समवायस्य निरस्तपूर्वत्वात् । पर्यायेभ्यो भिन्नानां द्रव्याणां च सत्त्वसिद्धौ पर्यायपरिकल्पनावैयर्थ्यात् । कार्यनानात्वपरिकल्पनायां त्वभिन्नपर्यायसंबंधनानात्वसिद्धितस्तन्निबंधनपर्यायांतरपरिकल्पनाप्रसंगात् । सुदूरमपि गत्वा पर्यायांतरतादात्म्योपगमे प्रथमत एव पर्यायतादात्म्योपगमे च न पर्यायैद्रव्याणि यंते कथंचिद्भिन्नानामेव प्राप्यप्रापकभावोपपत्तेः । स्याद्वादिनां तु भेदनयार्पणात् पर्यायाणां द्रव्येभ्यः कथंचि दे सति यथोदितपर्यायैर्दूयंते प्राप्यते इति द्रव्याणि 'कर्मणि यस्त्ये युज्यते' द्रवंति प्राप्नुवंति पर्यायानिति द्रव्याणीति च कर्तरि बहुलवचनादुपपद्यते द्रव्या इव भवंतीति द्रव्याणीति चेवार्थे द्रव्यशब्दस्य निपातनात् । द्रव्यत्वयोगाद्रव्याणीत्यपरे, तेषां द्रव्यत्ववंतीति स्याइंडीत्यभिधानवत् । अथाभेदोपचारः क्रियते यष्टियोगात् पुरुषो यष्टिरिति यथा तदपि द्रव्यत्वानीति स्यान्न तु द्रव्याणि, द्रव्यत्वाभावलक्षणाभावात् । तच्च द्रव्यत्वं द्रवणं द्रव्यमिति द्रव्यशब्दाभिधेयमपि सामान्यं । यदि सर्वगतामूर्तानां स्वखभावं द्रव्येभ्यः सर्वथा भिन्नं तदा न प्रमाणसिद्धं, द्रव्येषु सदृशपरिणामस्यैव द्रव्यत्वाख्यस्यानुवृत्त्यप्रत्ययहेतुत्वोपपत्तेरित्यन्यत्र निरूपणात् । अथ तदेव सादृश्यं सामान्यं तदाभिमतमेव पर्याय यंत इति द्रव्याणीति वचनात् सादृश्यव्यंजनपर्यायत्वात् धर्मादयोनुवर्तते इति सामानाधिकरण्यात् द्रव्याणीति वचनात् । पुल्लिंगत्वप्रसंग इति चेन्न, आविष्टलिंगत्वाद्रव्यशब्दस्य वनादिशब्दवत् ॥ किं पुनरत्रानेन सूत्रेण कृतमित्याह;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org