________________
पञ्चमोऽध्यायः ।
३९५
तगुणादिस्वभावत्वं द्रव्याणीतीह सूत्रतः । द्रव्यलक्षणसद्भावात्प्रत्याख्यातमवेयते ॥ १ ॥ धर्माधर्मयोरात्मगुणत्वादाकाशस्य च मूर्तद्रव्याभावस्वभावत्वान्न द्रव्यत्वमित्येके मन्यंते, तान् प्रति धर्मादीनां गुणाभावस्वभावत्वमनेनात्र प्रत्याख्यातं निश्चीयते । न हि पुण्यपापे धर्माधर्मौ ब्रूमो नाप्याकाशं मूर्तद्रव्याभावमात्रं द्रव्यलक्षणयोगात् तेषां द्रव्यव्यपदेशसिद्धेः । कथमित्याह;
धर्माधर्मौ मतौ द्रव्ये गुणित्वात्पुद्गलादिवत् । तथाकाशमतो नैषां गुणाभावस्वभावता ॥ २ ॥ न तोराश्रयासिद्धिस्तेषामग्रे प्रसाधनात् । नापि स्वरूपतोसिद्धिर्महच्चादिगुणस्थितेः ॥ ३ ॥ द्रव्यत्वे साध्ये धर्मादीनां धर्मिणामप्रसिद्धत्वाद्गुणित्वादित्यस्य हेतोराश्रयासिद्धत्वात्तत एव गुणित्वस्या - संभवात् खरूपासिद्धत्वं चेत्येके । तन्न सम्यक् तेषामग्रे प्रमाणतः साधनात् तत्र महत्त्वादिगुणस्थितत्वाच्च । ततः सूक्तं धर्मादयो द्रव्याणीति ॥
जीवाश्च ॥ ३ ॥
द्रव्याणीत्यभिसंबंधः । तत्र बहुत्ववचनं जीवानां वैविध्यख्यापनार्थं । द्रव्याणि जीवा इत्येकयोगकरणं युक्तमिति चेन्न, जीवानामेव द्रव्यत्वप्रसंगात् । धर्मादीनामप्यधिकारात् द्रव्यत्वसंप्रत्यय इति चेन्न, द्रव्यशब्दस्य जीवशब्दावबद्धत्वाद्धर्मादिभिः संबंधयितुमशक्तेः । सत्यप्यधिकारे अभिप्रेतसंबंधस्य यत्नमंतरेणाप्रसिद्धेः । चशब्दकरणात्तत्सिद्धिरिति चेत्, को विशेषः स्यादेकयोगकरणे ? योगविभागे तु स्पष्टा प्रतिपत्तिरिति स एवास्तु ॥ किं पुनरनेन वा व्यवच्छिद्यते इत्याह; —
कल्पिताश्चित्तसंताना जीवा इति निरस्यते । जीवाचेतीह सूत्रेण द्रव्याणीत्यनुवृत्तिः ॥ १ ॥
परामृष्टभेदा निरन्वयविनश्वरचित्तलक्षणा एव पूर्वपूर्वापरीभूताः संताना जीवाख्यां प्रतिपद्यंत इति युक्तं, यतस्तेषां संवृत्त्या द्रव्यव्यवहारानुरोधतः प्रमाणतः प्रसिद्धान्वयत्वात् । प्रमाणं पुनस्तदन्वयप्रसाधकमेकत्वप्रत्यभिज्ञानं पुरस्तात्समर्थितमिति परमार्थसदेव द्रव्यत्वमनेन जीवानां सूत्रितं । ततः कल्पिताश्चित्तसंताना एव जीवा इत्येतन्निराकृतं वेदितव्यं । पृथिव्यादीन्येव द्रव्याणि न जीवास्तेषां तत्समुदायोत्थजीवत्कायात्मकत्वात्, चैतन्यविशिष्टः कायः पुरुष इति वचनात् द्रव्यांतरत्वानुपपत्तेरित्यपरः, सोपि तेनैव पराकृत इत्यावेदयति ;
क्ष्मादिभूतचतुष्काच्च द्रव्यांतरतया गतिः । ननु देहगुणत्वादिरिति देहात् परे नराः ॥ २ ॥ पृथिव्यादिभ्यो द्रव्यांतरं जीव इति प्रागुक्तात्साधनाद्भिन्नलक्षणत्वादेर्विनिश्चयः । तथा देहस्य गुणः कार्य वा चेतनेत्यपि न, विग्रहगुणो बोधः तत्रानध्यवसीयते इत्यादेर्वा निरस्तत्वान्न देहगुणत्वादिर्जीवानामतो भेदात् द्रव्यांतरान्नैव जीवाः । एवं च पंचास्तिकायद्रव्याणि धर्माधर्माकाशपुद्गलजीवाख्यानि प्रसिद्धानि भवति ॥ तानि पुनः -
नित्यावस्थितान्यरूपाणि ॥ ४ ॥
तद्भावाव्ययानि नित्यानि, नित्यशब्दस्य धौव्यवचनत्वात् सर्वदेयत्ता निवृत्तेरवस्थितानि, न विद्यते रूपमेतेष्वित्यरूपाणि ॥ कुतस्तान्यवमित्याह ;
द्रव्यार्थिकनयात्तानि नित्यान्येवान्वितत्वतः । अवस्थितानि सांकर्यस्यान्योन्यं शश्वदस्थितेः ॥ १ ततो द्रव्यांतरस्यापि द्रव्यषद्वादभावतः । तत्पर्यायानवस्थानान्नित्यत्वे पुनरर्थतः ॥ २ ॥ धर्मादीनि व्याख्यातानि पंच वक्ष्यमाणेन कालेन सह षडेव द्रव्याणि । तानि द्रव्यार्थिकनयादेशादेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org