________________
३९६
तत्त्वार्थश्लोकवार्तिके
[सू० ६
नित्यानि, निर्बाधान्वितविज्ञानविषयत्वान्यथानुपपत्तेः । तत एवावस्थितानि तेषामन्योन्यसांकर्यस्याव्यवस्थानात् सर्वदा सप्तमद्रव्यस्याभावाच्चेति सूत्रकारवचनात् पर्यायार्थादेशादनित्यानि तान्यनवस्थितानि चेति सामर्थ्यादवगम्यते । एतेन क्षणिकान्येव खलक्षणानि द्रव्याणीति दर्शनं प्रत्याख्यातं, प्रमाणतः प्रकृतद्रव्याणां नित्यत्वसिद्धेरन्यत्र प्रतीत्यभावात् । तथैकमेव द्रव्यं सन्मात्रं प्रधानाद्यद्वैतमेव वा नाना द्रव्याणां तत्रानुप्रवेशात् । परमार्थतोनवस्थितानि तानीत्यपि मतमपास्तं, प्रतिनियतलक्षणभेदात्सर्वदा तेषामवस्थितत्वसिद्धेः ॥ अथारूपाणीति किं सामान्यतो विशेषतो वाभिधीयत इत्याशंकमानं प्रत्याह; — अरूपाणीति सामान्यादाह न त्वपवादतः । रूपित्ववचनादग्रे पुद्गलानां विशेषतः ॥ ३ ॥
न विद्यते रूपं मूर्तिर्येषां तान्यरूपाणीत्युत्सर्गतः षडपि द्रव्याणि विशेष्यंते न पुनर्विशेषतस्तथोत्तरत्र पुद्गलानां रूपित्वविधानात् । कश्चिदाह - धर्माधर्मकालाणवो जीवाश्च नामूर्तयो असर्वगतद्रव्यत्वात् पुद्गलवत् । स्याद्वादिभिस्तेषामसर्वगतद्रव्यत्वाभ्युपगमान्नात्रासिद्धो हेतु:, नाप्यनैकांतिकः साध्यविपक्षे गगने सुखादौ वा पर्याये तदसंभवादिति । सोत्र प्रष्टव्यः । का पुनरियं मूर्तिरिति ? असर्वगतद्रव्यपरिणामो मूर्तिरिति चेत्, तर्हि सर्वगतद्रव्यपरिणामवतो धर्मादय इति साध्यमायातं तथा वा सिद्धसाधनं । अथ स्पर्शादिसंस्थानपरिणामो मूर्तिस्तद्भावान्नामूर्तयो धर्मादय इति साध्यं तदानुमानबाधितः पक्षः कालात्ययापदिष्टश्च हेतुः । तथाहि - धर्मादयो न मूर्तिमंतः पुद्गलादन्यत्वे सति द्रव्यत्वादाकाशवदित्यनुमानं विवादाध्यासितद्रव्याणाममूर्तित्वं साधयत्येव । सुखादिपर्यायेष्वभावाद्भागासिद्धत्वं हेतोरिति चेन्न, तेषामपि पक्षीकृतत्वात् । कुतस्तेषाममूर्तित्वसिद्धिः ? साधनांतरादित्यभिधीयते । सुखादयोप्यमूर्तद्रव्य पर्याया न मूर्तिमंतः अमूर्तिद्रव्यपर्यायत्वादाकाशपर्यायवत् । मूर्तिमद्दव्यपर्यायाणां रूपादीनां कथममूर्तित्वसिद्धिरिति चेन्न, कथमपि तेषां स्वयं मूर्तिमत्त्वात् । मूर्त्यतराभावात् तेषाममूर्तित्वं गुणत्वादेव सिद्ध्यति गुणानां निर्गुणत्वसाधनात् । एतेन सामान्यविशेषसमवायानां सदृशेतरपरिणामाविष्वग्भावलक्षणान, मूर्तिमद्रव्याश्रयाणां कर्मणां च मूर्तित्वममूर्तित्वं चिंतितं बोद्धव्यं । तेषाममूर्तित्वमेवेत्यपि व्याख्यातां तेन यदुक्तं गुणकर्मसामान्यविशेषसमवाया अमूर्तय एवेति तदयुक्तं, प्रतीतिविरोधात् ॥ अथोत्सर्गतः पुद्गलानामप्यरूपित्वप्रसक्तौ तदपवादार्थमिदमाह ;रूपिणः पुद्गलाः ॥ ५॥
रूपशब्दस्यानेकार्थत्वेपि मूर्तिमत्पर्यायग्रहणं, शास्त्रसामर्थ्यात् । ततो रूपं मूर्तिरिति गृह्यते रूपादिसंस्थान परिणामो मूर्तिरितिवचनात् । गुणविशेषवचनं ग्रहणं वास्मदादीनां तदविनाभावात्तदंतर्भूत - त्वादग्रहणाभावात् । रूपमेतेष्वस्तीति रूपिण इति नित्ययोगे कथंचिद्व्यतिरेकिणां रूपतद्वतामिति । पुद्गला इति बहुवचनं भेदप्रतिपादनार्थं । तदेवं —
अरूपित्वापवादो ऽयं रूपिणः पुद्गला इति । रूपं मूर्तिरिह ज्ञेया न स्वभावेखिलार्थभाक् || १|| रूपादिपरिणामस्य मूर्तित्वेनाभिधानतः । स्पर्शादिमत्त्वमेतेषामुपलक्ष्येत तत्त्वतः ॥ २ ॥ अथ षण्णामपि द्रव्याणां नानाद्रव्यत्वमाहोखिदेकैकद्रव्यत्वमुत केषांचिन्नानाद्रव्यत्वमित्याशंकायामिदमाह ; -
आ आकाशादेकद्रव्याणि ॥ ६ ॥
अभिविधावाप्रयोगः । एकशब्दः संख्यावचनस्तत्संबंधाद्रव्यस्यैकवचनप्रसंग इति चेन्न, धर्मापेक्षा बहुत्वसिद्धेः । एकं च द्रव्यं च तदेकद्रव्यं एकद्रव्यं चैकद्रव्यं च एकद्रव्याणीति धर्माद्यपेक्षया बहुत्वं न
Jain Education International
For Private & Personal Use Only
C
www.jainelibrary.org