________________
पञ्चमोऽध्यायः ।
विरुध्यते । एकैकमस्तु लघुत्वात् प्रसिद्धत्वाद्द्रव्यगतेरिति चेन्न वा द्रव्यापेक्षयैकत्वख्यापनार्थत्वादेकद्रव्याणीतिवचनस्य पर्यायार्थादेशाद्बहुत्वप्रतिपत्तेः ॥
एकसंख्याविशिष्टानीत्येकद्रव्याणि सूचयन् । अनेकद्रव्यतां हंति धर्मादीनामसंशयम् ॥ १॥ आ आकाशादितिख्यातिः पुद्गलानां नृणामपि । कालाणूनामनेकत्वविशिष्टद्रव्यतां विदुः ॥२ आ आकाशादेकत्वसंख्याविशिष्टान्येकद्रव्याणीति सूत्रयन्न केवलं द्रव्यापेक्षयानेकद्रव्यतामेषामपास्यति । किं तर्हि ? जीवपुद्गल कालद्रव्याणामेकत्वं च ततोनेकत्वविशिष्टद्रव्यतामेषां वार्तिककारादयो विदुः । कथमिति चेत्, उच्यते
३९७
एकद्रव्यमयं धर्मः स्यादधर्मश्च तत्त्वतः । महत्त्वे सत्यमूर्तत्वात्खवत्तत्सिद्धिवादिनाम् ॥ ३ ॥ महत्त्वादित्युच्यमाने पुद्गलस्कंधैर्व्यभिचारो मा भूदित्यमूर्तत्ववचनं, अमूर्तत्वादित्युक्ते कालाणुभिर्वादिनः सुखादिभिः प्रतिवादिनोऽनेकांतो मा भूदिति महत्त्व विशेषणं । न चामूर्तत्वमसिद्धं धर्माधर्मयोः पुद्गलादन्यत्वे सति द्रव्यत्वादाकाशवदिति तत्साधनात् । नापि महत्त्वं त्रिजगद्व्यापित्वेन साधयिष्यमाणत्वात् । ततो निरवद्यो हेतुः । खमुदाहरणमपि न साध्यसाधनधर्मविकलं तत्सिद्धिवादिनां तदेकद्रव्यत्वस्य साध्यधर्मस्य साधनधर्मस्य च महत्त्वामूर्तत्वस्य तत्त्वस्य तत्र प्रसिद्धत्वात् । गगनासत्त्ववादिनां प्रति तस्य तथात्वेनाग्रे साधनाद्धर्माधर्मद्रव्यवत् । तत एव नाश्रयासिद्धो हेतुस्तदाश्रयस्य धर्मस्याधर्मस्य च प्रमाणत्वे सिद्धत्वात् ॥
नानाद्रव्यमसौ नानाप्रदेशत्वाद्धरादिवत् । इत्ययुक्तमनेकांतादाकाशेनैकता हृता ॥ ४ ॥ तस्य नान प्रदेशत्वसाधनादग्रतो नयात् । निरंशस्य स तत्सर्वमूर्तद्रव्यैर संगतः ॥ ५ ॥ ततो न पक्षस्यास्यानुमाने बाधा तस्याप्रयोजकत्वात् । नापि हेतोः कालात्ययापदिष्टतेति धर्माधर्मयोरेकद्रव्यत्वसिद्धिः ॥ यथा च तानि धर्माधर्माकाशान्येकद्रव्याणि तथा—
निष्क्रियाणि च ॥ ७ ॥
उभयनिमित्तापेक्षः पर्यायविशेषो द्रव्यस्य देशांतरप्राप्तिहेतुः क्रिया, न पुनः पदार्थोंतरं तथा प्रतीयमानत्वात् गुणसामान्यविशेषसमवायवत् । ननु क्रिया द्रव्यात्पदार्थांतरं तद्भिन्नलक्षणत्वाद्गुणादिवदिति । पदार्थांतरत्वेनाप्रतीयमानत्वमसिद्धमिति चेत्, कथंचिद्भिन्नलक्षणत्वस्य द्रव्यव्यक्तिभिरनेकांतात् । कालादिद्रव्यव्यक्तीनां न द्रव्याद्भिन्नलक्षणत्वं क्रियावद्गुणवत्समवायिकारणमिति द्रव्यलक्षणस्य तत्र भावादि चेन्न, कालादिषु क्रियावत्त्ववर्जितस्य द्रव्यलक्षणस्योपगमात् । पृथिव्यादिषु तदवर्जितस्य तस्य व्याख्या - नात् कथंचितेषां द्रव्यलक्षणभेदसिद्धेः । पदार्थांतरत्वे तु द्रव्यव्यक्तीनां गुणादिव्यक्तीनामपि पदार्थीतरस्वप्रसक्तेः कुतः षट्पदार्थनियमः ? द्रव्यत्वप्रतीतिमात्रं द्रव्यलक्षणं सकलद्रव्य व्यक्तीनामभिन्नं नास्य कर्मणि मनागप्यभावात् । सर्वथा तद्भिन्नलक्षणत्वं हेतुरिति चेत्, प्रतिवाद्यसिद्धः सद्रव्यलक्षणमिति कर्मण्यपि द्रव्यप्रत्ययमात्रस्य द्रव्यलक्षणस्य भावादन्यथा तदसत्त्वप्रसंगात् । न हि सत्तामहासामान्यमेव द्रव्यमिति स्याद्वादिनां दर्शनं तस्याः शुद्धद्रव्यत्वोपगमात् । गुणपर्ययवद्द्रव्यमित्यशुद्धद्रव्यलक्षणस्य कर्मण्यभावेपि कथंचिदेकद्रव्याभिन्नलक्षणत्वं तस्य सिध्येन सर्वथा । तच्च कथंचित्पदार्थांतरत्वं साधयेदिति विरुद्धसाधनाद्विरुद्धं परैः सर्वथा पदार्थांतरत्वस्य तत्र साध्यत्वात् । कर्म सर्वथा न द्रव्यपदार्थांतरं कथंचित्तद्भिन्नलक्षणत्वाद्गुणादिवदिति परमतसिद्धेः । न चात्र कर्माप्रतिपन्नं येनाश्रयासिद्धिः साधनस्य । नापि सर्वथा पदार्थांतरत्वेन द्रव्यात्प्रतिपन्नं कुतश्चित्प्रमाणात् स्याद्वादिभिः, येन धर्मिग्राहक प्रमाणबाधा -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org