________________
३९८
तत्त्वार्थश्लोकवार्तिके
[ सू० ७
तस्य कथंचित्पदार्थांतरत्वेनैव प्रतिपन्नत्वात् । न चैवं सिद्धांतविरोधः, कर्मणः पर्यायत्वेन द्रव्यात्कथंचित्पदार्थांतरत्वव्यवस्थितेरुत्पादविनाशत्वलक्षणस्य धौव्याद्द्रव्यलक्षणाद्भेदसिद्धेः कर्मगुणसामान्यविशेषसमवायानां पर्यायलक्षणसद्भावात् पर्यायपदार्थत्ववचनादन्यथातिप्रसक्तेः । प्राग्भावादीनां विशेषणविशेष्यभावादीनां च पदार्थांतरत्वप्रसंगात् । पदार्थशेषत्वकल्पनायामेकेनैव पदार्थेन पर्याप्तत्वादन्येषां पदार्थशेषावस्थिते सूत्रेवधारणादित्युक्तप्रायं । सामान्यसमवायौ कथं पर्यायौ ? नित्यत्वादिति चेन्न, तयोरपि गुणकर्मविशेषवदनित्यत्वोपगमात् । सदृशपरिणामो हि सामान्यं स्याद्वादिनां अविष्वग्भावश्च द्रव्यपर्याययोः समवायः, स चोत्पादविनाशवानेव सदृशव्यत्तत्युत्पादे सादृश्योत्पादप्रतीतेस्तद्विनाशे च तद्विनाशमात्रभावात् । सादृश्यस्य व्यक्त्यंतरेषु दर्शनान्नित्यत्वमिति चेन्न च, सादृश्यस्य विशेषस्य गुणस्य कर्मणश्चैवं नित्यत्वप्रसंगात् । नष्टोत्पन्नव्यक्तिभ्यो व्यत्यंतरेषु न तदेव वैसादृश्यादि दृश्यते । ततोन्यस्यैव दर्शनादिति चेत्, सादृश्यादि परमेव किन्न भवेत् तथाप्रतीतेरविशेषात् । ततो द्रव्यपर्याय एव । क्रियागुणादीनां क्रियात्वप्रसंग इति चेन्न, ततो विशेषलक्षणसद्भावात् । द्रव्यस्य हि देशांतरप्राप्तिहेतुः पर्यायः क्रिया न सर्वः । सर्वत्र सर्वदा कस्मान्न स्यादिति चेन्न, उभयनिमित्तापेक्षत्वात् क्रियायास्तद्भाव एव भावात् पर्यायांतरवत् । निष्क्रांतानि क्रियायाः निष्क्रियाणि धर्माधर्माकाशानि । कुत इत्याह
निष्क्रियाणि च तानीति परिस्पंदविमुक्तितः । सूत्रितं त्रिजगद्व्यापिरूपाणां स्पंदहानितः ॥ १ ॥ धर्माधर्मौ परिस्पंद लक्षणया क्रियया निष्क्रियौ सकलजगद्व्यापित्वादाकाशवत् । परिणामलक्षणया तु क्रिया सक्रिया वेव, अन्यथा वस्तुत्वविरोधात् । खरूपासिद्धो हेतुरिति चेन्न, धर्माधर्मयोः सकललोकव्यापित्वस्याग्रे समर्थनात् ॥
सामर्थ्यात्सक्रिय जीवपुद्गलाविति निश्चयः । जीवस्य निष्क्रियत्वे हि न क्रियाहेतुता तनौ ॥ २ प्रकृतेषु पंचसु द्रव्येष्वाकाशांतानां त्रयाणां निष्क्रियत्ववचने सामर्थ्याज्जीवपुद्गल सक्रिय सूत्रितौ वेदितव्यौ । ननु पुद्गलाः क्रियावत्तयोपलभ्यमानाः क्रियावंत इति युक्तं, जीवस्तु न सक्रियस्तस्य तथानुपलभ्यमानत्वादिति न चोद्यं तस्य निष्क्रियत्वे शरीरे क्रिया हेतुत्वविरोधात् । ततः क्रियावानात्मान्यत्र द्रव्ये क्रियाहेतुत्वात् पुद्गलद्रव्यवदित्यनुमानाज्जीवस्य क्रियावत्तोपलंभान्न तस्य सक्रियत्वमयुक्तं । कालेन व्यभिचारान्न हेतुर्गमको वेति चेन्न, कालस्य क्रियाहेतुत्वाभावात् । क्रियानिर्वर्तकत्वं क्रियाहेतुत्वमिह साधनं न पुनः क्रियानिमित्तमात्रत्वं तस्य कालादौ सद्भावाभावान्न व्यभिचारः । कालो हि क्रियापरिणामिनां स्वयं निमित्तमात्रं स्थविरगतौ यष्टिवत्, न पुनः क्रियानिर्वर्तकः पर्णादौ पवनवत् ॥
प्रयत्नादिगुणस्तद्वान्न हेतुरितिचेन्न वै । गुणोस्ति तद्वतो भिन्नः सर्वथेति निवेदितम् ॥ ३ ॥ नात्मा शरीरादौ क्रिया हेतुर्निर्गुणस्यापि मुक्तस्य तद्धेतुत्वप्रसंगात् । ततोऽसिद्धो हेतुः । प्रयत्नो धर्मोऽधर्मश्वात्मनो गुणो हि तन्वामन्यत्र वा द्रव्ये क्रिया हेतुरिति परेषामाशयो न युक्तः, प्रयत्नस्य गुणत्वासिद्धेः । वीर्यांतरायक्षयोपशमादिकारणापादितो ह्यात्मप्रदेशपरिस्पंदः प्रयत्नो नः क्रियैवेति स्याद्वादिभिनिवेदनात् । तथा धर्माधर्मयोरपि पुद्गलपरिणामत्वसमर्थनान्नात्मगुणत्वं । सन्नप्यसौ प्रयत्नादिरात्मगुणः सर्वथात्मनो भिन्नो न प्रमाणसिद्धोस्तीतिनिवेदनात् कथंचित्तदभिन्नस्तु स तत्र क्रिया हेतुरित्यात्मैव तद्धेतुरुक्तः स्यात् । तथा च कथमसिद्धो हेतुः ? |
क्रियाहेतुगुणत्वाद्वा लोष्ठवत्सक्रियः पुमान् । धर्मद्रव्येण चेदस्य व्यभिचारः परश्रुतौ ॥ ४ ॥ न तस्य प्रेरणाहेतुगुणयोगित्वहानितः । निमित्तमात्र हेतुत्वात्स्वयं गतिविवर्तिनाम् ॥ ५ ॥
Jain Education International
C
For Private & Personal Use Only
www.jainelibrary.org